________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[गाथा
- देवेन्द्रसूरिविरचितखोपज्ञटीकोपैतः मनिमित्तं वा जीवस्य बाह्याभ्यन्तरेषु वस्तुष्वरतिः-अप्रीतिर्भवति तद् अरतिमोहनीयम् ३ । यदुदयात् सनिमित्तमन्यथा वा जीवस्योरस्ताडनक्रन्दनपरिदेवनदीर्घनिःश्वसनभूलुठनरूपः शोको भवति तत् शोकमोहनीयम् ४ । यदुदयात् सनिमितमनिमित्तं वा तथारूपखसङ्कल्पतो जीवस्य "ईहपरलोया२ऽऽदाण३मकम्हा४आजीव५मरण६मसिलोए ७ ।" ( आव०सं०गा० पत्र ६४५-२) इति गाथा|क्तं सप्तविधं भयं भवति तद् भयमोहनीयम् ५ । यदुदयात् सनिमित्तमनिमित्तं वा जीवस्याशुभवस्तुविषया जुगुप्सा-व्यलीकं भवति तद् जुगुप्सामोहनीयम् ६॥ २१ ॥ उक्तं हास्यादिषट्कं, सम्प्रति वेदत्रिकमाह
पुरिसित्थि तदुभयं पइ, अहिलासो जव्वसा हवइ सो उ।
थीनरनपुवउदओ, फुफुमतणनगरदाहसमो ॥ २२॥ प्रतिशब्दः प्रत्येकं योज्यते, पुरुषं प्रति स्त्रियं प्रति तदुभयं प्रति-स्त्रीपुरुषं प्रतीत्यर्थः 'यद्वशात् यत्पारतड्याद् 'अभिलाषः' वाञ्छा 'भवति' जायते, तुशब्दः परस्परापेक्षया पुनरर्थे, स्त्री-योषित् नरः-पुरुषः “नपु"ति नपुंसकं तैवेद्यते-अनुभूयतेस्त्रीनरनपुवेदस्तस्योदयः स्त्रीनरनपुंवेदोदयो ज्ञेय इति शेषः । फुस्फुमा-करीषम् तृणानि-प्रतीतानि नगरं-पुरम् फुम्फुमातृणनगराणि तेषां दाहस्तेन समः-तुल्य इति गाथाक्षरार्थः । भावार्थस्त्वयम्-यद्वशात् स्त्रियाः पुरुष प्रत्यभिलाषो भवति, यथा पित्तवशाद् मधुरद्रव्यं प्रति, स फुस्फुमादाहसमः, [* यथा यथा चाल्यते तथा तथा ज्वलति "बृंहति च, एवमबलाऽपि यथा यथा संस्पृश्यते पुरुषेण तथा तथाऽस्या अधिकतरोऽभिलाषो जायते, अभुज्यमानायां तु च्छन्नकरीषदाहतुल्योऽभिलाषो मन्दइत्यर्थः, इति *] स्त्रीवेदोदयः १ । यद्वशात् पुरुषस्य स्त्रियं प्रत्यभिलाषो भवति, यथा श्लेष्मवशादम्लं प्रति, स पुनस्तृणदाहसमः, [* यथा तृणानां दाहे ज्वलनं झटिति विध्यापनं च भवति, एवं पुंवेदोदये स्त्रियाः सेवनं प्रत्युत्सुकोऽभिलाषो भवति, निवर्तते च तत्सेवने शीघ्रमिति *] नरवेदोदयः २ । यद्वशाद् नपुंसकस्य तदुभयं प्रत्यभिलाषो भवति, यथा पित्तश्लेष्मवशात् मज्जिका प्रति, स पुनर्नगरदाहसमः, [* यथा नगरं दह्यमानं महता कालेन दह्यते विध्याति च महतैव, एवं नपुंसकवेदोदयेऽपि स्त्रीपुरुषयोः सेवनं प्रत्यभिलाषातिरेको महताऽपि कालेन न निवर्तते, नापि सेवने तृप्तिरिति *] नपुंवेदोदयः ३ । अभिहितं वेदत्रिकम् , तदभिधाने चाभिहितं नवधा नोकषायमोहनीयम्, तदभिघाने च समर्थितं चारित्रमोहनीयमिति ॥ २२॥ उक्तमष्टाविंशतिविधं चतुर्थ मोहनीयं कर्म, इदानीं पञ्चममायुष्कर्म व्याचिख्यासुराह
सुरनरतिरिनरयाऊ, हडिसरिसं नामकम्म चित्तिसमं । पायालतिनवइविहं, तिउत्सरसयं च सत्तट्ठी ॥ २३ ॥ आयुःशब्दः प्रत्येकं योज्यते, ततश्च सुष्ठु राजन्त इति सुराः, यद्वा “सुरत् ऐश्वर्यदीप्त्योः" १ इहपरलोकादानमकस्मादाजीविकामरणमश्लोकः ॥ २ [* *]-एतादृकू सफुल्लिककोष्ठकान्तःपाती सन्दर्भः क पुस्तके नास्ति, एवमप्रेऽपि ॥ ३°था फुम्फुमा चा ख०॥ ४ दहति च ख० ग० घ० रु०॥ ५ °वमङ्गनाऽपि ख०॥ ६ दाघे ख० ग० ङ०॥
For Private and Personal Use Only