________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९-२१] कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।
३७ विशेषस्तत्सम्बन्धिनी लता सुखेनैव नमति, एवं यस्य मानस्योदये जीवः खाग्रहं मुक्त्वा सुखेनैव नमति स संज्वलनमानः १ । यथा स्तब्धं किमपि काष्ठमग्निखेदादिबहूपायैः कष्टेन नमति, एवं यस्य मानस्योदये जीवोऽपि कष्टेन नमति स काष्ठोपमः प्रत्याख्यानावरणो मानः २। यथाऽस्थि-हड्डे बहुतरैरुपायैरतितरां महता कष्टेन नमति, एवं यस्य मानस्योदये जीवोऽप्यतितरां महता कष्टेन नमति सोऽस्थ्युपमोऽप्रत्याख्यानावरणो मानः ३ । शिलायां घटितः शैलः शैलश्वासौ स्तम्भश्च शैलस्तम्भस्तदुपमस्त्वनन्तानुबन्धी मानः, कथमप्यनमनीय इत्यर्थः ४ ॥१९॥ उक्तश्चतुर्विधो मानः। अथ मायालोभी व्याख्यानयन्नाह
मायाऽवलेहिगोमुत्तिमिंदसिंगघणवंसिमूलसमा ।
लोहो हलिदखंजणकद्दमकिमिरागसामाणो ॥ २०॥ मायाऽवलेखिकासमा संज्वलनी, धनुरादीनामुल्लिख्यमानानां याऽवलेखिका वक्रत्वग्रूपा पतति, यथाऽसौ कोमलत्वात् सुखेनैव प्राञ्जलीक्रियते, एवं यस्या उदये समुत्पन्नाऽपि हृदये कुटिलता सुखेनैव निवर्तते सा संज्वलनी माया १ । गौः बलीवर्दस्तस्य मार्गे गच्छतो वक्रतया पतिता मूत्रधारा गोमूत्रिकाऽभिधीयते, यथाऽसौ शुष्का पवनादिभिः किमपि कष्टेन नीयते, एवं यजनिता कुटिलता कष्टेनापगच्छति सा गोमूत्रिकासमा प्रत्याख्यानावरणी माया २। एवं मेषशृङ्गसमायामप्यप्रत्याख्यानावरणमायायां भावना कार्या, नवरमेषा कष्टतरनिवर्तनीया ३ । घनवंशीमूलसमा त्वनन्तानुबन्धिनी माया, यथा निविडवंशीमूलस्य कुटिलता किल वह्निनाऽपि न दह्यते, एवं यजनिता मनःकुटिलता कथमपि न निवर्तते साऽनन्तानुबन्धिनी मायेत्यर्थः । तथा लोभो हरिद्रारागसमानः संज्वलनः, यथा वाससि हरिद्रारागः सूर्यातपस्पर्शादिमात्रादेव निवर्तते तथाऽयमपीत्यर्थः १ । कष्टनिवर्तनीयो वस्त्रविलग्नप्रदीपादिखञ्जनसमानः प्रत्याख्यानावरणलोभः २ । कष्टतरापनेयो वस्त्रलग्ननिबिडकर्दमसमानोऽप्रत्याख्यानावरणलोभः ३ । कृमिरागरक्तपट्टसूत्ररागसमानः कथमप्यपनेतुमशक्योऽनन्तानुबन्धी लोभ ४ इति ॥२०॥ . उक्तं कषायमोहनीयम् । अथ नोकषायमोहनीयं व्याख्यायते, तच्च द्विविधम्-हास्यादिषट्कं वेदत्रिकं च । तत्र हास्यादिषट्कं व्याख्यानयन्नाह
जस्सुदया होइ जिए, हास रई अरह सोग भय कुच्छा।
सनिमित्तमन्नहा वा, तं इह हासाइमोहणियं ॥२१॥ यस्य 'उदयाद्' विपाकात् 'भवति' जायते 'जीवे' जीवस्य हासो रतिः अरतिः शोको भयं "कुच्छ"त्ति जुगुप्सा, हासादिशब्देषु सिलोपः प्राकृतत्वात् , 'सनिमित्तं' सकारणम् 'अन्यथा' अनिमित्तं निष्कारणम् , वाशब्दः पक्षान्तरद्योतकः, तद् इह' प्रवचने हास्यादिमोहनीयम् । आदिशब्दाद रतिमोहनीयम् अरतिमोहनीयं शोकमोहनीयं भयमोहनीयं जुगुप्सामोहनीयं भण्यत इति शेषः, इति गाथाक्षरार्थः । भावार्थः पुनरयम्-यदुदयात् सनिमित्तमनिमितं वा जीवस्य हासः-हास्यं भवति तद् हासमोहनीयम् १ । यदुदयात् सनिमित्तमनिमित्तं वा बाह्याभ्यन्तरेषु वस्तुषु जीवस्य रतिः-प्रमोदो भवति तद् रतिमोहनीयम् २ । यदुदयात् सनिमित
१ कष्टेनापनीय ग० घ०॥
For Private and Personal Use Only