________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा तिश्च यथाख्यातचारित्रं च सम्यक्त्वाणुसर्वविरतियथाख्यातचारित्राणि तेषां घातः-विनाशः सम्यक्त्वाणुसर्वविरतियथाख्यातचारित्रघातस्तं कुर्वन्तीत्येवंशीलाः सम्यक्त्वाणुसर्वविरतियथाख्यातचारित्रघातकराः । एतदुक्तं भवति-अनन्तानुबन्धिनः कषायाः सम्यक्त्वघातकाः। यदाहुः श्रीभद्रबाहुस्वामिपादाः
पंढमिल्लुयाण उदए, नियमा संजोयणाकसायाणं ।
सम्मइंसणलंभ, भवसिद्धीया वि न लहंति ।। (आ० नि० गा० १०८) अप्रत्याख्यानावरणा देशविरतर्घातकाः, न सम्यक्त्वस्येत्यल्लब्धम् । यदाहुः पूज्यपादाः
बीयकसायाणुदये, अप्पच्चक्खाणनामधिज्जाणं ।।
सम्मइंसणलंभ, विरयाविरयं न उ लहंति ॥ (आ० नि० गा० १०९) प्रत्याख्यानावरणास्तु सर्वविरतर्घातकाः, सामर्थ्यान्न देशविरतेः । उक्तं च--
तँइयकसायाणुदए, पच्चक्खाणावरणनामधिजाणं ।
देसिकदेसविरई, चरित्तलंमं न उ लहंति ॥ (आ० नि० गा० ११०) संज्वलनाः पुनर्यथाख्यातचारित्रस्य घातकाः, न सामान्यतः सर्वविरतेः । उक्तं च श्रीम• दाराध्यपादैः
मूलगुणाणं लंभ, न लहइ मूलगुणघाइणं उदए । संजलणाणं उदए, न लहइ चरणं अहक्खायं ॥
(आ० नि० गा० १११) इति ॥ १८ ॥ अथ जलरेखादिदृष्टान्तेन किञ्चित्सविशेषं क्रोधादिकषायाणां खरूपं व्याचिख्यासुराह
जलरेणुपुढविपव्वयराईसरिसो चउविहो कोहो ।
तिणिसलयाकट्टट्टियसेलत्थंभोवमो माणो॥ १९॥ इह राजिशब्दः सदृशशब्दश्च प्रत्येकं सम्बध्यते । ततो जलराजिसदृशस्तावत् संज्वलनः क्रोधः, यथा यष्ट्यादिभिर्जलमध्ये राजी-रेखा क्रियमाणा शीघ्रमेव निवर्तते, तथा यः कथमप्युदयप्राप्तोऽपि सत्वरमेव व्यावर्तते स संज्वलनः क्रोधोऽभिधीयते १ । रेणुराजिसदृशः प्रत्याख्यानावरणःक्रोधः, अयं हि संज्वलनक्रोधापेक्षया तीव्रत्वाद्रेणुमध्यविहितरेखावत् चिरेण निवर्तत इति भावः २ । पृथिवीराजिसदृशस्त्वप्रत्याख्यानावरणः, यथा स्फुटितपृथिवीसम्बधिनी राजी कचवरादिभिः पूरिता कष्टेनापनीयते, एवमेषोऽपि प्रत्याख्यानावरणापेक्षया कष्टेन निवर्तत इति भावः ३ । विदलितपर्वतराजिसदृशः पुनरनन्तानुबन्धी क्रोधः, कथमपि निवर्तयितुमशक्य इत्यर्थः ४ । उक्तश्चतुर्विधः क्रोधः ॥ - इदानीं मानोऽभिधीयते-तत्र तिनिसलतोपमः संज्वलनो मानः, यथा तिनिशः-वनस्पति
१ प्राथमिकानामुदये नियमात्संयोजनाकषायाणाम् । सम्यग्दर्शनलाभं भवसिद्धिका अपि न लभन्ते ॥ २ द्वितीयकषायाणामुदयेऽप्रत्याख्याननामधेयानाम् । सम्यग्दर्शनलाभं विरताविरतं न तु लभन्ते ॥ ३ तृतीयकषायाणामुदये प्रत्याख्यानावरणनामधेयानाम् । देशैकदेशविरतिं चरित्रलाभं न तु लभन्ते ॥ ४ मूलगुणानां लाभं न लभते मूलगुणघातिनामुदये । संज्वलनानामुदये न लभते चरणं यथाख्यातम् ॥
For Private and Personal Use Only