SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६] www.kobatirth.org कर्म विपाकनामा प्रथमः कर्मग्रन्थः । खीणे दंसणमोहे, तिविहम्मि वि खाइयं भवे सम्मं । वेयगमिह सोइयचरमिल्लय पुग्गलग्गासं ॥ ( धर्मसं ० ८०१ ) डेवसमसेढिगयस्स उ, होइ हु उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो, अखवियमिच्छो लहइ सम्मं ॥ उवसमसम्मत्ताओ, चयओ मिच्छं अपावमाणस्स । सासायणसम्मत्तं, तयंतरालम्मि छावलियं ॥ मिच्छत्तं जमुइन्नं, तं खीणं अणुइयं च उबसंतं मीसीभावपरिणयं, वेइज्जंतं खओवसमं ॥ ( विशे० आ० गा० ५२९ - ३१ - ३२ ) इति ॥ १५ ॥ उक्तं सम्यक्त्वम् । अथ मिश्रमाह Acharya Shri Kailassagarsuri Gyanmandir मीसा न रागदोसो, जिणधम्मे अंतमुहु जहा अन्ने । नालियरदीवमणुणो, मिच्छं जिणधम्मविवरीयं ॥ १६ ॥ 'मिश्रात्' मिश्रोदयाद् जीवस्य 'जिनधर्मे' जिनधर्मस्योपरि न रागः - मतिदौर्बल्यादिना एकान्तनिश्चयात्मकश्रद्धानरूपः प्रीतिविशेषः, न च द्वेषः - एकान्तविप्रतिपत्तिपरिणामोपजातनिन्दात्मकोऽप्रीतिरूपः । मिश्रोदयश्च " अंतमुहु" त्ति 'अन्तर्मुहूर्त' भिन्नमुहूर्तकालं यावद् भवतीत्यर्थः । अथ कथं मिश्रोदयाज्जिनधर्मे न रागो न द्वेषः ? इत्याशङ्कय दृष्टान्तमाह – “ जहा अन्ने” इत्यादि । ‘यथा' इत्युदाहरणोपन्यासे 'अने' कूराद्योदने 'नालिकेरद्वीपमनुजस्य' नालि - केरद्वीपवासिपुरुषस्य न रागो न च द्वेषोऽदृष्टाऽश्रुतत्वेन । उक्तं च बृहच्छत कबृहचूण जैहा नालिकेर दीववासिस्स अइछुहाइयस्स वि पुरुसस्स इत्थ ओयणाइए अणेगविहे वि ढोइए तस्स आहारस्स उवरिं न रुई न य निंदा, जेण कारणेण सो ओयणाइओ आहारो न कयाइ दिट्टो नावि सुओ । एवं सम्मामिच्छद्दिट्टिस्स वि जीवाइपयत्थाणं उवरिं न रुई न य निंदा ॥ इत्यादि । "धर्मज्ञो धर्मकर्ता च, सदा धर्मपरायणः । सत्त्वानां धर्मशास्त्रार्थदेशको गुरुरुच्यते ॥” ३३ उक्तं मिश्रम् । सम्प्रति मिथ्यात्वमाह – “मिच्छं जिणधम्मविवरीयं" ति । “मिच्छं” ति मिथ्यात्वं जिनधर्माद् विपरीतं विपर्यस्तं ज्ञेयमिति शेषः । अत्रायमाशयः - रागद्वेषमोहादिककाsदेवेऽपि देवबुद्धिः, For Private and Personal Use Only १ क्षीणे दर्शनमोहे त्रिविधेऽपि क्षायिकं भवेत्सम्यक्त्वम् । वेदकमिह सर्वोदितचरमपुद्गलग्रासम् ॥ उपशतस्य तु भवति खलु औपशमिकं तु सम्यक्त्वम् । यो वाऽकृतत्रिपुञ्जोऽक्षपितमिथ्यात्वो लभते सम्यक्त्वम् ॥ उपशमसम्यक्त्वाच्यवमानस्य मिथ्यात्वमप्राप्नुवतः । साखादनसम्यक्त्वं तदन्तराले षडावलिकम् ॥ मिथ्यात्वं यदुदीर्णं तत्क्षीणमनुदितं चोपशान्तम् । मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकम् ॥ २ उवसामगसेढियस्स होइ उव° इति भाष्ये ॥ ३ यथा नालिकेरद्वीपवासिनोऽतिक्षुधार्दितस्यापि पुरुषस्येहौदनादिनेकविधेऽपि ढौकिते तस्याहारस्योपरि न रुचिर्न च निन्दा, येन कारणेन स ओदनादिक आहारो न कदाचिद् दृष्टो नापि श्रुतः । एवं सम्यग्मिथ्यादृष्टेरपि जीवादिपदार्थानामुपरि न रुचिर्न च निन्दा ॥ क० ५
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy