________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा इत्यादिप्रतिपादितगुरुलक्षणविलक्षणेऽगुरावपि गुरुबुद्धिः, संयमसूनृतशौचब्रह्मसत्यादि(ब्रह्माकिश्चन्यादि)खरूपमर्मप्रतिपक्षेऽधर्मेऽपि धर्मबुद्धिरिति मिथ्यात्वम् ॥ १६ ॥ उक्तं मिथ्यात्वम् , तद्भणने चाभिहितं त्रिविधमपि दर्शनमोहनीयम् । इदानीं चारित्रमोहनीयमभिधित्सुराह
सोलस कसाय नव नोकसाय दुविहं चरित्तमोहणियं ।
अण अप्पचक्खाणा, पञ्चक्खाणा य संजलणा ॥१७॥ _ 'द्विविधं' द्विभेदं चारित्रमोहनीयं भवति, तद्यथा--"सोलस कसाय" ति कष्यन्ते-हिंस्यन्ते परस्परमस्मिन् प्राणिन इति कषः-संसारः, कामयन्ते-गच्छन्त्येभिर्जन्तव इति कषायाः । यद्वा कषस्याऽऽयः-लाभो येभ्यस्ते कषायाः क्रोधमानमायालोभाः । लत्र क्रोधोऽक्षान्तिपरिणतिरूपः, मानो ब्राण्यादिसमुत्थोऽहकारः, माया परवञ्चनाद्यात्मिका, लोभोऽसन्तोषात्मको गृद्धिपरिणामः । ततः षोडशसङ्ख्याः कषायाः कषायमोहनीयमुच्यते । विभक्तिलोपश्च प्राकृत खात्, एवमुत्तरत्रापि । "नव नोकसाय" ति कषायैः सहचरा नोकषायाः, ते च नव-हास्यादयः षट् त्रयो वेदाः । अत्र नोशब्दः साहचर्यवाची । एषां हि केवलानां न प्राधान्यमस्ति, किन्तु कषायैरनन्तानुबन्ध्यादिभिः सहोदयं यान्ति, तद्विपाकसदृशमेव विपाकं दर्शयन्ति, बुधग्रहबदन्यसं. सर्गमनुवर्तन्ते इति भावः । कषायोद्दीपनाद्वा नोकषायाः । उक्तं च
कषायसहवर्तित्वात् , कषायप्रेरणादपि ।
हास्यादिनवकस्योक्ता, नोकषायकषायता ॥ ततो नवसङ्ख्या नोकषाया नोकषायमोहनीयमुच्यते । अथ “यथोद्देशं निर्देशः" इति न्यायात् प्रथमं कषायमोहनीयं व्याख्यानयन्नाह--"अण अप्पञ्चक्खाणा" इत्यादि । “अण" त्ति अनन्तानुबन्धिनः । तत्रानन्तं संसारमनुबनन्तीत्येवंशीला अनन्तानुबन्धिनः । यदवाचि
यस्मादनन्तं संसारमनुबध्नन्ति देहिनाम् ।
ततोऽनन्तानुबन्धीति, संज्ञाऽऽद्येषु निवेशिता ॥ ते चत्वारः क्रोधमानमायालोमाः । यद्यपि चैतेषां शेषकषायोदयरहितानामुदयो नास्ति, तथाप्यवश्यमनन्तसंसारमौलकारणमिथ्यात्वोदयाक्षेपकत्वादेषामेवानन्तानुबन्धित्वव्यपदेशः। शेषकपाया हि नावश्यं मिथ्यात्वोदयमाक्षिपन्ति, अतस्तेषामुदययोगपद्ये सत्यपि नायं व्यपदेश इत्यसाधारणमेतेषामेवैतन्नामेति । तथा न वेद्यते खल्पमपि प्रत्याख्यानं येषामुदयादतोऽप्रत्याख्यानाः । यदभाणि
नाल्पमप्युत्सहेयेषां, प्रत्याख्यानमिहोदयात् ।
अप्रत्याख्यानसंज्ञाऽतो, द्वितीयेषु निवेशिता ॥ ते चत्वारः क्रोधमानमायालोभाः। तथा प्रत्याख्यानं-सर्वविरतिरूपमावृण्वन्तीति प्रत्याख्यानावरणाः । यन्न्यगादि---
सर्वसावद्यविरतिः, प्रत्याख्यानमिहोच्यते । तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता ॥
१आद्याः कषायाः।
For Private and Personal Use Only