________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवेन्द्रसूरिविरचितखोपज्ञटीकोपैतः
[गाथा तिर्यक्षु नरकेष्वित्यर्थः, ओसन्नशब्दस्येहापि सम्बन्धादसातम्, 'तुः' पुनरर्थे व्यवहितसम्बन्धश्च, स चैवं योज्यते-तिर्यमरकेषु पुनरसातं प्रायो भवति । ओसन्नग्रहणात् केषाश्चित् पट्टहस्तितुरनादीनी तिरश्वां नारकाणामपि जिनजन्मकल्याणकादिषु सातमप्यस्तीति । उक्तं द्विविधं वेदनीयं तृतीयं कर्म ॥
इदानीमष्टाविंशतिविधं मोहनीयं चतुर्थ कर्माभिधित्सुराह-"मजं व मोहणीयं” इत्यादि । 'मद्यमिव' मदिरासदृशं मोहयतीति मोहनीयं कर्म । “प्रवचनीयादयः" (सि० ५-१-८) इति कर्तर्यनीयप्रत्ययः । यथा हि मद्यपानमूढः प्राणी सदसद्विवेकविकलो भवति, तथा मोहनीयेनापि कर्मणा मूढो जन्तुः सदसद्विवेकविकलो भवतीति । तच्च 'द्विविधं' द्विभेदम् , कथम् ! इत्याह-"दसणचरणमोह"त्ति दर्शनमोहाच्चरणमोहादित्यर्थः । तत्र दृष्टिदर्शनं यथावस्थितवस्तुपरिच्छेदस्त मोहयतीति "कर्मणोऽण" (सि० ५-१-७२) इत्यण्प्रत्यये दर्शन• मोहम् । चरन्ति–परमपदं गच्छन्ति जीवा अनेनेति चरणं चारित्रं तद् मोहयतीति चरणमोहमिति ॥ १३ ॥ अथ दर्शनमोहं व्याख्यानयन्नाह-- .... सणमोहं तिविहं, सम्म मीसं तहेव मिच्छतं ।
सुद्धं अद्धविसुद्धं, अविसुद्धं तं हवइ कमसो ॥ १४ ॥ दर्शनमोहं पूर्वोक्तशब्दार्थ 'त्रिविधं त्रिप्रकारं भवति । “सम्म"ति सम्यक्त्वं 'मिश्र' सम्य. ग्मिथ्यात्वं तथैव मिथ्यात्वम् । एतदेव खरूपत आह-शुद्धमर्धविशुद्धमविशुद्धं तद् भवति 'क्रमशः' क्रमेणेति । अयमत्रार्थः-मिथ्यात्वपुद्गलकदम्बकं मदनकोद्रवन्यायेन शोधितं सद् विकाराजनकत्वेन शुद्धं सम्यक्त्वं भवति, तदेव किञ्चिद्विकारजनकत्वेनार्धविशुद्धं मिश्रम्, तदेव सर्वथाप्यविशुद्धं मिथ्यात्वमिति । उक्तं च-.
तद्यथेह प्रदीपस्य, स्वच्छाभ्रपटलैर्गृहम् । न करोत्यावृति काञ्चिदेवमेतद्रुचेरपि ।। एकपुञ्जी द्विपुञ्जी च, त्रिपुञ्जी वा ननु क्रमात् । दर्शन्युभयवांश्चैव, मिथ्यादृष्टिः प्रकीर्तितः ॥
अत्राह-सम्यक्त्वं कथं दर्शनमोहनीयं स्यात् !, न हि तद् दर्शनं मोहयति, तस्यैव दर्शनत्वात् , उच्यते-मिथ्यात्वप्रकृतित्वेनातिचारसम्भवाद् औपशमिकादिमोहत्वाच्च दर्शनमोहनीयमिति ॥ १४ ॥ इत्युक्तं सङ्केपतस्त्रिविधं दर्शनमोहम् । सम्प्रत्येतदेव व्याचिख्यासुः प्रथम सम्यक्त्वखरूपमाह
जियअजियपुन्नपावाऽऽसवसंवरबंधमुक्खनिजरणा।
जेणं सहहह तयं, सम्म खइगाइबहुभेयं ॥१५॥ जीवश्व अजीवश्च पुण्यं च पापं च आश्रवश्व संवरश्च बन्धश्च मोक्षश्च निर्जरणं च निर्जरा, एतानि नव तत्त्वानि 'येन' कर्मणा 'श्रद्दधाति' प्रत्येति तत् सम्यक्त्वमुच्यते । तत्र नव स्वान्यमूनि
जीवा१ऽजीवा २ पुनं३, पावाऽऽसव ५ संवरो ६ य निज्जरणा ७॥ १°नां नारक० ख० ग० घ० ०॥ २ जीवाजीवौ पुण्यं पापमाश्रवः संवरच निर्जरणा । बन्धो मोक्षश्च तथा नव तत्त्वानि भवन्ति इति आयानि ॥१॥ एकविधद्विविधत्रिविधाश्चतुर्धा पञ्चविधषड्डिधा जीवा।
For Private and Personal Use Only