________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११-१३]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।
२९
"थीणद्धी" इति निपात्यते । अस्यां हि जाग्रदवस्थाध्यवसितमर्थमुत्थाय साधयति । श्रूयते ह्येतदागमे कथानकम् -
Acharya Shri Kailassagarsuri Gyanmandir
क्वचित् प्रदेशे कोsपि क्षुल्लको द्विरदेन दिवा स्खलीकृतः स्त्यानर्द्युदये वर्तमानस्तस्मिन्नेव द्विरदे बद्धाभिनिवेशो रजन्यामुत्थाय तद्दन्तयुगलमुत्पाट्य खोपाश्रयद्वारे क्षित्वा पुनः सुप्तवान् इत्यादि ।
इमां च व्युत्पत्तिमाश्रित्याह -- “ दिणचिंतियत्थकरणी थीणद्धी” इति दिने - दिवसे चिन्तितमुपलक्षणत्वान्निशायामपि चिन्तितम् - अध्यवसितमर्थं करोति - साधयति निद्रानिद्रावतोरभेदोपचाराद्दिन चिन्तितार्थकरणी, "रम्यादिभ्यः” (सि०५ -३ - १२६) कर्तर्यनट्प्रत्ययः । यद्वा स्त्याना पिण्डीभूता ऋद्धिः - आत्मशक्तिरस्यामिति स्त्यानर्द्धिः, एतत्सद्भावे हि प्रथमसंहननस्य केशवार्धबलसदृशी शक्तिः । एनां च व्युत्पत्तिमाश्रित्याह – “अद्धचक्कि अद्धबल" ति अर्धचक्रिणः - वासुदेवस्य बलापेक्षया अर्ध बलं - स्थाम यस्या उदये जन्तोर्भवति साऽर्धचत्र्यर्धबला, तद्विपाकवेद्या कर्मप्रकृतिरपि थीणद्धीति ५ । अत्र चक्षुर्दर्शनावरणादिचतुष्कं मूलत एव दर्शनलब्धिमुपहन्ति, निद्रापञ्चकं तु प्राप्ताया दर्शनलब्धेरुपघातकृत् । आह च गन्धहस्ती -
निद्रादयः समधिगताया एव दर्शनलब्धेरुपघाते वर्तन्ते, दर्शनावरणचतुष्टयं तूद्गमोच्छेदित्वात् समूलघातं हन्ति दर्शनलब्धिमिति ( तत्त्वार्थ अ० ८ सू० ८ सिद्ध० टीका ) ।
अभिहितं द्वितीयं नवविधं दर्शनावरणम् । साम्प्रतं तृतीयं कर्म वेद्यं वेदनीयापर'पर्यायं व्याचिख्यासुराह—– “महुलित" इत्यादि । मधुना - मधुररसेन लिप्ता - खरष्टिता खड्गस्य – करवालस्य धारा - तीक्ष्णाग्ररूपा तस्या जिह्वया लेहनमिव - आखादनसदृशं 'द्विधैव' द्विप्रकारमेव सातासात भेदात् तुशब्द एवकारार्थः, 'वेदनीयं' वेद्यं कर्म भवति । इह च मधुलेहनसन्निभं सातवेदनीयम्, खनधाराच्छेदन संममसात वेदनीयम् । उक्तं च मैहुआसायणसरिसो, सायावेयस्स होइ हु विवागो ।
"
जं असिणा तहि छिज्जइ, सो उ विवागो असायस्स ॥ (बृ० कर्मवि० गा० २९ )
१० समानम० ख० ग० ङ० ॥ तत्र छियते स तु विपाकोऽसातस्य ॥
अथ गतिचतुष्टये सातासात खरूपमाह
ओसन्नं सुरमणुए, सायमसायं तु तिरियनरएसु । मजं व मोहणीयं, दुविहं दंसणचरणमोहा ॥ १३ ॥ ओसन्नशब्दो देशीवचनो बाहुल्यवाचकः, यथा -- “ ओसन्नं देवा सायं वेयणं वेयंति ।" तत्र 'ओसन्नं' बाहुल्येन प्रायेणेत्यर्थः, सुराश्च - देवा मनुजाश्च - मनुष्याः सुरमनुजं समाहारद्वन्द्वः, तस्मिन् सुरमनुजे सुरेषु मनुजेष्वित्यर्थः 'सातं' सातवेदनीयं भवति । ओसन्नग्रहणात् च्यवनकालेऽन्यदाऽपि सुराणामसातोदयोऽप्यस्ति, चारकनिरोधवधबन्धन शीतातपादिभिर्मनुजानामध्यसातमिति । नरकभवाः प्राणिनोऽप्युपचारात् नरकाः, ततस्तिर्यञ्चश्च नरकाश्च तिर्यद्मरकास्तेषु २ मध्वास्वादनसदृशः सातवेद्यस्य भवति खलु विपाकः । यदसिना ३ हु ख० ग० ॥ ४ बाहुल्येन देवाः सातं वेदनं वेदयन्ति ॥
For Private and Personal Use Only
॥ १२ ॥