SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २८ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा 'तस्यावरणं' दर्शनावरणम् , तत् चतुर्धा भवति-चक्षुर्दर्शनावरणम् १ अचक्षुर्दर्शनावरणम् २ अवधिदर्शनावरणम् ३ केवलदर्शनावरणम् ४ इति गाथाक्षरार्थः । भावार्थस्त्वयम्-इह चक्षुर्दर्शनं नाम यत् चक्षुषा रूपसामान्यग्रहणं तस्यावरणं चक्षुर्दर्शनावरणं चक्षुःसामान्योपयोगावरणमिति यावत् १ । अचक्षुषा चक्षुर्वर्जशेषेन्द्रियचतुष्टयेन मनसा च यद् दर्शनं खखविषयसामान्यपरिच्छेदोऽचक्षुदर्शनं तस्यावरणमचक्षुदर्शनावरणम् २। अवधिना रूपिद्रव्यमर्यादया दर्शनं सामान्यार्थग्रहणमवधिदर्शनं तस्यावरणमवधिदर्शनावरणम् ३ । केवलेन सम्पूर्णवस्तुतत्त्वग्राहकबोधविशेषरूपेण यद् दर्शनं वस्तुसामान्यांशग्रहणं तत् केवलदर्शनं तस्यावरणं केवलदर्शनावरणम् ४ । - अत्राह-ननु यथाऽवधिदर्शनावरणं कर्मोच्यते तथा मनःपर्यायज्ञानस्यापि दर्शनावरणं कर्म किमिति नोच्यते ?, उच्यते--मनःपर्यायज्ञानं तथाविधक्षयोपशमपाटवात् सर्वदा विशेषानेव गृहदुत्पद्यते, न सामान्यम् , अतस्तदर्शनाभावात्तदावरणं कर्मापि न भवति । अत्र च चक्षुर्दर्शनावरणोदये एकद्वित्रीन्द्रियाणां मूलत एव चक्षुर्न भवति, चतुःपञ्चेन्द्रियाणां तु भूतमपि चक्षुस्तथाविधे तदुदये विनश्यति तिमिरादिना वाऽस्पष्टं भवति । चक्षुर्वर्जशेषेन्द्रियमनसां पुनर्यथासम्भवमभवनमस्पष्टभवनं वाऽचक्षुर्दर्शनावरणोदयादिति ॥ १० ॥ अभिहितं दर्शनावरणचतुष्कम् , सम्प्रति निद्रापञ्चकमभिधित्सुराह सुहपडिबोहा निद्दा १, निद्दानिद्दा २ य दुक्खपडियोहा । पयला३ठिओवविट्ठस्स पयलपयला ४ उचंकमओ ॥११॥ सुखेन-अकृच्छेण नखच्छोटिकामात्रेणापि प्रतिबोधः-जागरणं खप्तुर्यस्यां खापावस्थायां सा सुखप्रतिबोधा निद्रा, तद्विपाकवेद्या कर्मप्रकृतिरपि कारणे कार्योपचारात् निद्रेत्युच्यते १। निद्रातोऽतिशायिनी निद्रा निद्रानिद्रा, मयूरव्यंसकादित्वान्मध्यपदलोपी समासः, 'चः' समुच्चये, दुःखेन-कष्टेन बहुभिर्घोलनाप्रकारैरत्यर्थमस्फुटतरीभूतचैतन्यत्वेन खप्तुः प्रतिबोधो यस्यां सा दुःखप्रतिबोधा, अत एव सुखप्रतिबोधनिद्रापेक्षयाऽस्या अतिशायिनीत्वम् , तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रानिद्रा २ । प्रचलति-विघूर्णते यस्यां खापावस्थायां प्राणी सा प्रचला, सा च स्थितस्योर्ध्वस्थानेन उपविष्टस्य-आसीनस्य भवति, तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचला ३ । प्रचलातोऽतिशायिनी प्रचला प्रचलाप्रचला, इयं 'तुः' पुनरर्थे 'चमतः' चक्रमणमपि कुर्वतो जन्तोरुपतिष्ठते, अतः स्थानस्थितखप्तप्रभवप्रचलामपेक्ष्याऽतिशायिनीत्वमस्याः, तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचलाप्रचला ४ । सूत्रे च “पयलपयला” इति हखत्वं “दीर्घहखौ मिथो वृत्तौ" (सि० ८-१-४) इति सूत्रेण । इति ॥ ११ ॥ दिणचिंतियत्थकरणी, थीणद्धी ५ अद्धचकिअद्धबला । महुलित्तखग्गधारालिहणं व दुहा उ वेयणियं ॥१२॥ स्त्याना-बहुत्वेन सङ्घातमापन्ना गृद्धिः-अभिकाङ्क्षा जाग्रदवस्थाध्यवसितार्थसाधनविषया खापावस्थायां सा स्त्यानगृद्धिः । “गौणादयः" (सि० ८-२-१७४) इति प्राकृतसूत्रेण १°नमचक्षुर्द क० ख० ग० घ० ७० ॥ २ °स्यापि भ° ग०॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy