________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९-१०१
कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।
यथाऽङ्गुलीपञ्चकनिष्पन्नो मुष्टिः, मूलत्वक्पत्रशाखादिसमुदयनिष्पन्नो वा वृक्षः, घृतगुडकणकादिनिष्पन्नो वा मोदक इति । एवमुत्तरत्रापि भावनीयम् । व्याख्यातं पञ्चविषं ज्ञानावरणं कर्म ॥
icall
इदानीं नवविधं दर्शनावरणं कर्म व्याख्यानयन्नाह - " दंसणच पणनिद्दा वित्तिसमं दंसणावरणं” ति । इह भीमो भीमसेन इति न्यायात् पदैकदेशे पदसमुदायोपचाराद्वा "दंसणचउ" इति शब्देन दर्शनावरणचतुष्कं गृह्यते । तत्र दृष्टिर्दर्शनम्, दृश्यते - परिच्छिद्यते सामान्यरूपं वस्त्वनेनेति वा दर्शनम्, तस्यावरणानि - आच्छादनानि दर्शनावरणानि तेषां चतुष्कं दर्शनावरणचतुष्कम् । तथा " पणनिद्द" त्ति द्रांक् कुत्सितंगतो, नितरां द्वाति-कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यं यासु ता निद्रा, "भिदादयः " ( सि० ५-३-१०८ ) इति अङ्प्रत्ययः, 'पञ्च' इति पञ्चसङ्ख्या : - निद्रा १ निद्रानिद्रा २ प्रचला ३ प्रचलाप्रचला ४स्त्यानर्द्धि५रूपा निद्राः पञ्चनिद्रा निद्रापञ्चकम् । ततो दर्शनावरणचतुष्कं निद्रापञ्चकमिति नचधा दर्शना - वरणं भवति । किंविशिष्टम् ? इत्याह – “वित्तिसमं " ति वेत्रिणा - प्रतीहारेण समं - तुल्यं वेत्रिसमम् । यथा राजानं द्रष्टुकामस्याप्यनभिप्रेतस्य लोकस्य वेत्रिणा स्खलितस्य राज्ञो दर्शनं नोपजायते, तथा दर्शनस्वभावस्याप्यात्मनो येनाssवृतस्य स्तम्भकुम्भाम्भोरुहादिपदार्थसार्थस्व न दर्शनमुपजायते तद् वेत्रिसमं दर्शनावरणम् । उक्तं च
दंसणसीले जीवे, दंसणघायं करेइ जं कम्मं । तं पडिहारसमाणं, दंसणवरणं भवे कम्मं || जह रन्नो पडिहारो, अणभिप्पेयस्स सो उ लोगस्स । रन्नो तहि दरिसावं, न देइ दहुं पि कामस्स || जह राया तह जीवो, पडिहारसमं तु दंसणावरणं । तेहि विबंधणं, न पेच्छए सो घडाईयं ॥
Acharya Shri Kailassagarsuri Gyanmandir
( बृहत्कर्मवि० गा० १९-११ )
अथ दर्शनावरणचतुष्कं व्याचिख्यासुराह
चदिहिअचक्खूसेसिंदियओहि केवलेहिं च ।
॥ ९ ॥
दंसणमिह सामन्नं, तस्सावरणं तयं चउहा ॥ १० ॥ इह चक्षुः शब्देन दृष्टिर्गृह्यते, अचक्षुः शब्देन " सेसिंदिय" त्ति चक्षुर्वर्जशेषेन्द्रियाणि गृहान्ते, ततश्चक्षुश्च अचक्षुश्च अवधिश्व केवलं च चक्षुरचक्षुरवधिकेवलानि तैः चक्षुरचक्षुरवधिके - वलैः । चशब्दः “अचक्खूसेसेंदिय" इत्यत्र मनसः संसूचकः । दर्शनम् 'इह' प्रवचने 'सामान्यं' सामान्योपयोग उच्यते, यदुक्तम् —
जं सामन्नग्गहणं, भावाणं नेव कट्टु आगारं ।
अविसेसिऊण अत्थे, दंसणमिय वुच्चए समए ॥ ( बृ० द्रव्यसं० गा० ४३ )
For Private and Personal Use Only
१ दर्शनशीले जीवे दर्शनघातं करोति यत् कर्म । तत् प्रतिहारसमानं दर्शनावरणं भवेत्कर्म ॥ यथा राज्ञः प्रतिहारोऽनभिप्रेतस्य स तु लोकस्य । राज्ञस्तत्र दर्शनं न ददाति द्रष्टुमपि कामस्य ॥ यथा राजा तथा जीवः प्रतिद्दारसमं तु दर्शनावरणम् । तेनेह विबन्धकेन न प्रेक्षते स घठादिकम् ॥ २ यत् सामान्यग्रहणं भावान मैव कृत्वाऽऽकारम् | अविशेषयित्वाऽर्थान् दर्शनमित्युच्यते समये ॥