________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवेन्द्रसूरिविरक्तिखोपज्ञटीकोपेतः
[गाथा मूर्त वा त्रिकालगोचरमपि बाह्यमर्थमनुमानादवैति, "जाणइ बज्झेऽणुमाणाओ" (विशे० गा० ८१४ ) इति वचनात् । यत एतत्परिणतान्येतानि मनोद्रव्याणि इत्येतदन्यथानुपपत्तेरमुकोऽर्थोऽनेन चिन्तित इति लेखाक्षरदर्शनात् तदुक्तार्थमिव प्रत्यक्षं मनोद्रव्यदर्शनाचिन्त्यमर्थमनुमिमीते । स चैष बाह्याभ्यन्तररूपो द्विविधोऽपि विषयः स्फुटतरबहुतरविशेषाध्यासितत्वेन विपुलमतेविमलतरोऽवसेय इति । निरूपितं मनःपर्यायज्ञानम् ।। ___ अथ केवलज्ञानं व्याचिख्यासुराह-"केवलमिगविहाणं" ति 'केवलं' केवलज्ञानम् 'एकविधानम्' एकक्षिम् , प्रभमत एव सर्वद्रव्यक्षेत्रकालभावग्राहकत्वादिति भाव इति ॥ ८॥ अभिहितं केवलज्ञानं तदभिधाने च व्याख्यातानि पञ्चापि ज्ञानानि । इदानीमेतेषामावरणमाह
एसिं जं आवरणं, पड्डु व्व चक्षुस्स तं तयावरण।
दंसणचउ पणनिदा, वित्तिसमं वंसणावरणं ॥९॥ 'एषां' मतिज्ञानादीनां पञ्चानां ज्ञानानां यद् 'आवरणम्' आच्छादकम् , 'पट इव' सूत्रादिनिष्पन्नशाटक इव 'चक्षुषः' लोचनस्य, तत् तेषां-मतिज्ञानादीनामावरणं तदावरणमुच्यते । इदमत्र हृदयम्-यथा घनघनतरघनतमेन पटेनावृतं सत् निर्मलमपि चक्षुर्मन्दमन्दतरमन्दतम. दर्शनं भवति, तथा ज्ञानावरणेन कर्मणा घनघनतरघनतमेनावृतोऽयं जीवः शारदशशधरकरनिकरनिर्मलतरोऽपि मन्दमन्दतरमन्दतमज्ञानो भवति, तेन पटोपमं ज्ञानावरणं कर्मोच्यते। तत्रावरणस्य सामान्यत एकरूपत्वेऽपि यत् पूर्वोक्तानेकभेदभिन्नस्य मतिज्ञानस्यानेकभेदमेवाऽऽव. रणखभावं कर्म तद् मतिज्ञानावरणमेकग्रहणेन गृह्यते चक्षुषः पटलमिव १ । तथा पूर्वाभिहितभेदसन्दोहस्य श्रुतज्ञानस्य यद् आवरणखभावं कर्म तत् श्रुतज्ञानावरणम् २ । तथा प्राक्षपश्चितभेदकदम्बकस्यावधिज्ञानस्य यद् आवरणखभावं कर्म तद् अवधिज्ञानावरणम् ३ । तथा प्रागनिर्णीतभेदद्वयस्य मनःपर्यायज्ञानस्य यद् आवरणखभावं कर्म तद् मनःपर्यायज्ञानावरणम् ४ । तथा पूर्वप्ररूपितखरूपस्य केवलज्ञानस्य यद् आवरणखभावं कर्म तत् केवलज्ञानावरणम् ५। उक्तं च बृहत्कर्मविपाके
सरउग्गयससिनिम्मलतरस्स जीवस्स छायणं जमिह । नाणावरणं कम्मं, पडोवमं होइ एवं तु ॥ जह निम्मला वि चक्खू , पडेण केणावि छाईया संती । मंद मंदतरागं, पिच्छइ सा निम्मला जइ वि ॥ तह मइसुयनाणावरण अवहिमणकेवलाण आवरणं ।
जीवं निम्मलरूवं, आवरइ इमेहि भेएहिं ॥ (गा० १०-१२) तदेवमेतानि पञ्चावरणान्युत्तरप्रकृतयः, तनिष्पन्नं तु सामान्येन ज्ञानावरणं मूलप्रकृतिः। १जानाति बाह्याननुमानात् ॥ २ शरदुद्गतशशिनिर्मलतरस्य जीवस्य च्छादनं यदिह । ज्ञानावरण कर्म पटोपमं भवति एवं तु ॥ यथा निर्मलमपि चक्षुः पटेन केनापि च्छादितं सत् । मन्दं मन्दतरकं प्रेक्षते तद् निर्मलं यद्यपि ॥ तथा मतिश्रुतज्ञानावरणमवधिमनःकेवलानामावरणम् । जीवं निर्मलरूपमावृणोत्येभिभैदैः ॥ ३ "तह महसुयनाणाणं ओहीमणकेवलाण आवरणं ।" इति वृहत्कर्मविपाके॥
For Private and Personal Use Only