SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा गामि, शृङ्खलाबद्धपदीप इव यद् न गच्छन्तं ज्ञानिनमनुगच्छति, यत् किल तद्देशस्थस्यैव भवति, तद्देशनिबन्धनक्षयोपशमजत्वात् , देशान्तरगतस्य त्वपैति, तद् अवधिज्ञानमनानुगामीति भावः २। यदाह भगवान् श्रीदेवर्द्धिक्षमाश्रमण: से' किं तं अणाणुगामियं ओहिनाणं? अणाणुगामियं ओहिनाणं से जहानामए केइ पुरिसे एग महं जोइट्ठाणं काउं तस्सेव जोइट्ठाणस्स परिपेरतेसु परिपेरतेसु परिहिंडमाणे परिहिंडमाणे परिघोलमाणे परिघोलमाणे तमेव जोइट्टाणं पासइ अन्नत्थ गए न पासइ, एवमेव अणाणुगामियं ओहिनाणं जत्थेव समुप्पज्जइ तत्थेव संखिज्जाणि वा असंखिजाणि वा जोयणाई पासइ न अन्नत्थ । ( नन्दी पत्र ८९-१) भाष्यकारोऽप्याह अणुाँमि उ अणुगच्छइ, गच्छंतं लोयणं जहा पुरिसं । इयरो उ नाणुगच्छइ, ठियप्पईवु व गच्छंतं ॥ (विशे० गा० ७१५) तथा वर्धत इति वर्धमानम् , ततः संज्ञायां कन्प्रत्ययः, बहुबहुतरेन्धनप्रक्षेपादभिवर्धमानज्वलनज्वालाकलाप इव पूर्वावस्थातो यथायोग प्रशस्तप्रशस्ततराध्यवसायतो वर्धमानमवधिज्ञानं वर्धमानकम् । एतत् किलाङ्गुलासङ्ख्येयभागादिविषयमुत्पद्य पुनर्वृद्धिं विषयविस्तरणात्मिकां याति यावदलोके लोकप्रमाणान्यसङ्ख्येयानि खण्डानीति ३ । तथा हीयते-तथाविध. सामग्र्यभावतो हानिमुपगच्छतीति हीयमानम् , कर्मकर्तृविवक्षायाम् अनट्प्रत्ययः, हीयमानमेव हीयमानकम् , "कुत्सिताल्पाज्ञाते" (सि० ७-३-३३) कप्रत्ययः, पूर्वावस्थातो यदधोऽधो हासमुपगच्छति तद् हीयमानकमवधिज्ञानमिति ४ । उक्तं च नन्दिचूर्णी___ हीयमाणं पुवावस्थाओ अहोऽहो हस्समाणं (पत्र १४) इति । तथा प्रतिपततीत्येवंशीलं प्रतिपाति ५ । यदाह. से किं तं पडिवाई ? पडिवाई जन्नं जहन्नेणं अंगुलस्स असंखिजभागं वा संखिजभागं वा वालग्गं वा वालग्गपुहत्तं वा एवं लिक्खं वा जूयं वा जवं वा जवपुहत्तं वा अंगुलं वा अंगुलपुहत्तं वा, एवं एएणं अहिलावेणं विहत्थि वा हत्थं वा कुच्छि वा कुक्षिहस्तद्वयमुच्यते धणुं वा गाउयं वा जोयणं वा जोयणसयं वा जोयणसहस्सं वा संखिज्जा णि वा असंखिज्जाणि वा जोयणसहस्साइं, उक्कोसेणं लोगं पासित्ताणं परिवडिजा, से तं पडिवाई । (नन्दी पत्र ९६-२) १ अथ किं तदनानुगामिकमवधिज्ञानम् ? अनानुगामिकमवधिज्ञानं स यथानामकः कश्चित्पुरुष एकं महज्योतिःस्थानं कृत्वा तस्यैव ज्योतिःस्थानस्य परिपर्यन्तेषु परिपर्यन्तेषु परिहिण्डमानः परिहिण्डमानः परिघोलयमानः परिघोलयमानः तदेव ज्योतिःस्थानं पश्यति अन्यत्र गतो न पश्यति, एवमेव अनानुगामिकमवधिज्ञानं यत्रैव समुत्पद्यते तत्रैव सङ्ख्येयानि वाऽसत्ययानि वा योजनानि पश्यति नान्यत्र ॥२ °वामेव ख०॥३ अनुगामि खनुगच्छति गच्छन्तं लोचनं यथा पुरुषम् । इतरत्तु नानुगच्छति स्थितप्रदीप इव गच्छन्तम् ॥ ४ गामिओऽणुग ५ हीयमानं पूर्वावस्थातोऽधोऽधो हस्यमानं ॥ ६ अथ किं तत् प्रतिपाति प्रतिपाति यद जघन्येनाकुलत्यासङ्ख्येयभागं वा सङ्ख्येयभागं वा वालाग्रं वा वालाप्रपृथक्त्वं वा एवं लिक्षां वा यूकां वा यवं वा यवपृथक्त्वं वा अङ्गुलं वा अङ्गुलपृथक्वं वा, एवमेतेनाभिलापेन वितरित वा हस्तं वा कुकिं वा धनुर्वा क्रोशं वा. योजनं वा योजनशतं वा योजनसहस्रं वा सङ्ख्येयानि वा असहयेयानि वा योजनसहस्राणि, उत्कर्षेण लोकं दृष्ट्वा प्रतिपतेत्, एतत्तत् प्रतिपाति ॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy