________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । तथा न प्रतिपाति अप्रतिपाति, यत् किलाऽलोकस्य प्रदेशमेकमपि पश्यति तद् अप्रतिपातीति भावः ६ । हीयमानकप्रतिपातिनोः कः प्रतिविशेषः ? इति चेद् उच्यते-हीयमानकं पूर्वावस्थातोऽधोऽधो हासमुपगच्छदभिधीयते, यत् पुनः प्रदीप इव निर्मूलमेककालमपगच्छति तत्प्रतिपातीति । यद्वाऽनन्तद्रव्यभावविषयत्वात् तत्तारतम्यविवक्षयाऽनन्तभेदम् , असङ्ख्येयक्षेत्रकालविषयत्वात्तु तत्तारतम्यविवक्षयाऽसङ्ख्येयभेदमवधिज्ञानम् । यद्वा चतुर्विधमवधिज्ञानं द्रव्यक्षेत्रकालभावात् । तथा चाह_ 'तं समासओ चउविहं पन्नत्तं, तं जहा-दबओ खेत्तओ कालओ भावओ । दबओ णं
ओहिनाणी जहन्नेणं अणंताई रूविदवाइं जाणइ पासइ, उक्कोसेणं सबरूविदवाइं जाणइ पासइ । खित्तओ णं ओहिनाणी जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं असंखेज्जाइं अलोए लोयप्पमाणमित्ताई खंडाइं जाणइ पासइ । कालओ णं ओहिनाणी जहन्नेणं आवलियाए असंखिजइभागं, उक्कोसेणं असंखिज्जाओ उस्सप्पिणीओसप्पिणीओ तीयं च अणागयं च कालं जाणइ पासइ । भावओ णं ओहिनाणी जहन्नेण वि अणंते भावे जाणइ पासइ, उक्कोसेण वि अणते भावे जाणइ पासइ सबभावाणं अणंतभागं । (नन्दी पत्र ९७-१) इति ।
उक्तमवधिज्ञानम् । इदानीं मनःपर्यवज्ञानं व्याख्यानयन्नाह-"रिउमइ विउलमई मणनाणं"ति । 'मनोज्ञानं' मनःपर्यायज्ञानमित्यर्थः, ऋजुमतिविपुलमतिभेदाद्विविधम् । तत्र ऋज्वीसामान्यग्राहिणी मतिः ऋजुमतिः, घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धना मनोद्रव्यपरिच्छित्तिरित्यर्थः । यदाह
रिउ सामन्नं तम्मतगाहिणी रिउमई मणोनाणं ।
पायं विसेसविमुहं, घडमित्तं चिंतियं मुणइ ॥ (विशे० गा० ७८४) तथा विपुला-विशेषग्राहिणी मतिर्विपुलमतिः, घटोऽनेन चिन्तितः स च सौवर्णः पाटलि. पुत्रकोऽद्यतनो महानित्याद्यध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिरिति भावार्थः, अस्यां व्युत्पत्तौ खतन्त्रं ज्ञानमेव गृह्यत इति । अथवा ऋज्वी-सामान्यग्राहिणी मतिरस्यासौ ऋजुमतिः । विपुलाविशेषग्राहिणी मतिरस्य स विपुलमतिः, अस्यां व्युत्पत्तौ तद्वान् गृह्यते । यद्वा मनःपर्यायज्ञानं चतुर्विधम्-द्रव्यक्षेत्रकालभावभेदात् । उक्तं च
तं समासओ चउविहं पन्नत्तं, तं जहा-दवओ खित्तओ कालओ भावओ । दवओ णं १तत् समासतश्चतुर्विधं प्रज्ञप्तम् , तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतः । द्रव्यतोऽवधिज्ञानी जघन्येनानन्तानि रूपिद्रव्याणि जानाति पश्यति, उत्कर्षेण सर्वरूपिद्रव्याणि जानाति पश्यति । क्षेत्रत नाङ्गुलस्यासङ्ख्येयभागम् , उत्कर्षेणाऽसङ्ख्येयानि अलोके लोकप्रमाणमात्राणि खण्डानि जानाति पश्यति । कालतोवधिज्ञानी जघन्येनाऽऽवलिकाया असङ्ख्येयभागम् , उत्कर्षेणाऽसङ्ख्येया उत्सर्पिण्यवसर्पिणीः अतीतं चानागतं च कालं जानाति पश्यति । भावतोऽवधिज्ञानी जघन्येनाप्यनन्तान् भावान् जानाति पश्यति, उत्कर्षेणापि अनन्तान भावान् जानाति पश्यति सर्वभावानामनन्तभागम् ॥ २ ऋजु सामान्यं तन्मात्रग्राहिणी ऋजुमतिर्मनोज्ञानम् । प्रायो विशेषविमुखं, घटमात्रं चिन्तितं जानाति ॥ ३ तत् समासतश्चतुर्विधं प्रज्ञप्तम् , तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतः। द्रव्यत अजुमतिरनन्ताननन्तप्रदेशिकान् स्कन्धान जानाति पश्यति । तानेव विपुलमतिरभ्यं. धिकतरान् विमलतरान् जानाति पश्यति ॥
For Private and Personal Use Only