________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मा कमअन्यः ।
७-८] कर्मविपाकनामा प्रथमः कर्मग्रन्थः । तु 'अर्थपरिसमाप्तिः पदम्' इत्याधुक्तिसद्भावेऽपि येन केनचित्पदेनाऽष्टादशपदसहस्रादिप्रमाणा आचारादिग्रन्था गीयन्ते तदिह गृह्यते, तस्यैव द्वादशाङ्गश्रुतपरिमाणेऽधिकृतत्वात् , श्रुतभेदानामेव चेह प्रस्तुतत्वात् । तस्य च पदस्य तथाविधाम्नायाभावात् प्रमाणं न ज्ञायते। तत्रैकं पदं पदमुच्यते ५ । व्यादिपदसमुदायस्तु पदसमासः ६। “गइ इंदिए य कार" (आ० नि० गा० १४) इत्यादिगाथाप्रतिपादितद्वारकलापस्यैकदेशो यो गत्यादिकस्तस्याप्येकदेशो यो नरकगत्यादिस्तत्र जीवादिमार्गणा यका क्रियते स सङ्घातः ७ । ब्यादिगत्याद्यवयवमार्गणा सङ्घातसमासः ८ । गत्यादिद्वाराणामन्यतरैकपरिपूर्णगत्यादिद्वारेण जीवादिमार्गणा प्रतिपत्तिः ९। द्वारद्वयादिमार्गणा तु प्रतिपत्तिसमासः १० । "संतपयपरूवणया दवपमामं च" (आ० नि० गा० १३) इत्यादि अनुयोगद्वाराणामन्यतरदेकमनुयोगद्वारमुच्यते ११ । तद्व्यादिसमुदायः पुनरनुयोगद्वारसमासः १२ । प्राभृतान्तर्वर्ती अधिकारविशेषः प्राभृतप्राभृतम् १३ । तद्व्यादिसमुदायस्तु प्राभृतप्राभृतसमासः १४ । वस्त्वन्तर्वर्ती अधिकारविशेषः प्रामृतम् १५ । तयादिसंयोगस्तु प्राभृतसमासः १६ । पूर्वान्तर्वर्ती अधिकारविशेषो वस्तु १७ । तद्यादिसंयोगस्तु वस्तुसमासः १८। पूर्वमुत्पादपूर्वादि पूर्वोक्तखरूपम् १९। तद्व्यादिसंयोगस्तु पूर्वसमासः २० । एवमेते संक्षेपतः श्रुतज्ञानस्य विंशति दा दर्शिताः, विस्तरार्थिना तु बृहत्कर्मप्रकृतिः रन्वेषणीया । एते च पर्यायादयः श्रुतभेदा यथोत्तरं तीव्रतीव्रतरादिक्षयोपशमलभ्यत्वादिल्लं निर्दिष्टा इति परिभावनीयमिति । अथवा चतुर्विधं श्रुतज्ञानम् , तथाहि-द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र द्रव्यतः श्रुतज्ञानी सर्वद्रव्याण्यादेशेन जानाति, क्षेत्रतः सर्वक्षेत्रमादेशेन श्रुतज्ञानी जानाति, कालतः सर्व कालमादेशेन श्रुतज्ञानी जानाति, भावतः सर्वान् भावान् आदेशेन श्रुतज्ञानी जानातीति ॥ ७ ॥ व्याख्यातं सविस्तरं श्रुतज्ञानम् । सम्प्रत्यवधिज्ञानं व्याख्यायते, तच्च द्वेधा-भवप्रत्ययं देवनारकाणाम् , गुणप्रत्ययं मनुष्यतिरश्चाम्, तच्च षोढा, तथा चाह सूत्रम्
अणुगामिवढमाणयपडिवाईयरविहा छहा ओही।
रिउमइविउलमई मणनाणं केवलमिगविहाणं ॥८॥ आनुगामि च वर्धमानकं च प्रतिपाति च इतराणि च-अनानुगामिहीयमानकाप्रतिपातीनि आनुगामिवर्धमानकप्रतिपातीतराणि, विधानानि विधाः-भेदाः, तत आनुगामिवर्धमानकमतिपातीतराणि विधा यस्य तत्तथा तस्माद् आनुगामिवर्धमानकप्रतिपातीतरविधात् षड्धा 'अव. धिः' अवधिज्ञानं भवति । उक्तं च नन्यध्ययने. "तं समासओ छविहं पन्नत्तं, तं जहा-आणुगामियं अणाणुगामियं वड्डमाणयं हीयमाणयं पडिवाई अपडिवाई । ( नन्दी पत्र ८१-१) __ तत्र गच्छन्तं पुरुषम् आ-समन्तादनुगच्छतीत्येवंशीलमानुगामि, यद् देशान्तरगतमपि ज्ञानिनमनुगच्छति लोचनवत् तद् अवधिज्ञानमानुगामीति भावः १ । तथा न आनुगामि अनानु. १ गतिः इन्द्रियं कायः ॥ २ सत्पदप्ररूपणता द्रव्यप्रमाणं च ॥ ३ अनुगामि क० ख० ग० एवमप्रेऽपि ॥ ४ तत् समासतः षड्डिधं प्रज्ञप्तम् , तद्यथा-आनुगामिकमनानुगामिकं वर्धमानकं हीयमामकं प्रतिपात्यप्रतिपाति ॥
For Private and Personal Use Only