________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कन्चन
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा ततश्च संज्ञा विद्यते येषां ते संज्ञिनः, परं सर्वत्राप्यागमे ये दीर्घकालिक्या संज्ञया संज्ञिनस्ते संज्ञिन उच्यन्ते, ततः संज्ञिनां श्रुतं संज्ञिश्रुतम् समनस्कानां ममःसहितैरिन्द्रियैर्जनितं श्रुतं संज्ञिश्रुतमिति भावः ३ । मनोरहितेन्द्रियजं श्रुतमसंज्ञिश्रुतम् ४ । तथा सम्यग्दृष्टरहत्यणीतं मिथ्यादृष्टिप्रणीतं वा यथाखरूपमवगमात् सम्यक्श्रुतम् ५। मिथ्यादृष्टेः पुनरर्हप्रणीतमितरद्वा मिथ्याश्रुतं, यथाखरूपमनवगमात् ६ । . आह-मिथ्यादृष्टेरपि मतिश्रुते सम्यग्दृष्टेरिव तदावरणकर्मक्षयोपशमसमुद्भवे सम्यग्दृष्टेरिव पृथुबुनोदरायाकारं घटादिकं च संविदाते, तत् कथं मिथ्यादृष्टेरज्ञाने ? उच्यते-सदसद्विवेकपरिज्ञानाभावात् । तथाहि-मिथ्यादृष्टिः सर्वमप्येकान्तपुरःसरं प्रतिपद्यते, न भगवदुक्तस्याद्वादनीत्या; ततो घट एवायमिति यदा ब्रूते तदा तस्मिन् घटे घटपर्यायव्यतिरेकेण शेषान् सत्त्वज्ञेयत्वप्रमेयत्वादीन् सतोऽपि धर्मानपलपति, अन्यथा घट एवायमित्येकान्तेनावधारणानुपपतेः; घटः सन्नेवेति ब्रुवाणः पररूपेण नास्तित्वस्यानभ्युपगमात् पररूपतामसतीमपि तत्र प्रतिपद्यते; ततः सन्तमसन्तं प्रतिपद्यतेऽसन्तं च सन्तमिति सदसद्विशेषपरिज्ञानाभावादज्ञाने मिथ्यादृष्टेर्मतिश्रुते । इतश्च ते मिथ्यादृष्टेरज्ञाने, भवहेतुत्वात् । तथाहि-मिथ्यादृष्टीनां मतिश्रुते पशुवधमैथुनादीनां धर्मसाधकत्वेन परिच्छेदके, ततो दीर्घतरसंसारपथप्रवर्तिनी । तथा यहच्छोपलम्भादुन्मत्तकविकल्पवत् । तथाहि-उन्मत्तकविकल्पा वस्त्वनपेक्ष्यैव यथाकथञ्चित् प्रवर्तन्ते; यद्यपि च ते कचिद्यथावस्थितवस्तुसंवादिनस्तथापि सम्यग्यथावस्थितवस्तुतत्त्वपर्यालोचनाविरहेण प्रवर्तमानत्वात् परमार्थतोऽपारमार्थिकाः; तथा मिथ्यादृष्टीनां मतिश्रुते यथाघद्वस्त्वविचार्यैव प्रवर्तेते, ततो यद्यपि ते कचिद्रसोऽयं स्पर्शोऽयमित्यादाववधारणाध्यवसायाभावे संवादिनी तथापि न ते स्याद्वादमुद्रापरिभावनातस्तथाप्रवृत्ते, किन्तु यथाकथञ्चित् , अतस्ते अज्ञाने । तथा ज्ञानफलाभावात् , ज्ञानस्य हि फलं हेयस्य हानिरुपादेयस्य चोपादानम् , न च संसारात् परं किञ्चन हेयमस्ति, न च मोक्षात् परं किञ्चिदुपादेयम् , ततो भवमोक्षावेकान्तेम हेयोपादेयौ, भवमोक्षयोश्च हान्युपादाने सर्वसङ्गविरतेर्भवतः, ततः साऽवश्यं तत्त्ववेदिना कर्तव्या, सैव च तत्त्वतो ज्ञानस्य फलम् । तथा चाह भगवानुमाखातिवाचक:--
ज्ञानस्य फलं विरतिः, (प्रशम० पद्य० ७२) इति । सा च मिथ्यादृष्टेर्नास्तीति ज्ञानफलाभावादज्ञाने मिथ्यादृष्टेर्मतिश्रुते । यदाह भाग्यसुधाम्भोनिधिः
सदसदविसेसणाओ, भवहेउ जहिच्छिओवलंभाओ।
नाणफलाभावाओ, मिच्छदिद्विस्स अन्नाणं ॥ (विशे० गा० ११५) इति । तथा
"साईयं ७ सपजवसिय ८ अणाईयं ९ अपजवसिय १० इच्चेयं दुवालसंग वुच्छित्तिनयट्ठयाए साईयं सपजवसियं, अवुच्छित्तिनयट्ठयाए अणाईयं अपज्जवसियं, तं समासओ चउ
१ सदसदविशेषणाद्भवहेतुतो यदृच्छोपलम्भात् । ज्ञानफलाभावान्मिथ्यादृष्टेरज्ञानम् ॥ २ सादिकं ७ सपर्यबसितम् ८ अनादिकम् ९ अपर्यवसितम् १० इत्येतत् द्वादशाझं व्युच्छित्तिनयार्थतया सादिकं सपर्यवसितम्, भन्युच्छित्तिनयार्थतयाऽनादिकमपर्यवसितम्, तत् समासतश्चतुर्विधं प्रज्ञप्तम् , तद्यथा--द्रव्यतः क्षेत्रतः कालतो
वकTOSR)
For Private and Personal Use Only