________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । व्यञ्जनाक्षरमकारादि हकारपर्यन्तमुच्यते । तदेतद्वितयमज्ञनात्मा कमपि श्रुतकारणत्वादुपचारेण श्रुतम् । लब्ध्यक्षरं तु शब्दश्रवणरूपदर्शनादेरर्थप्रत्यायनगर्भाऽक्षरोपलब्धिः । यदाह
जो अक्खरोवलंभो, सा लद्धी तं च होइ विन्नाणं ।
इंदियमणोनिमित्तं, जो आवरणक्खओवसमो ॥ (विशे० गा० ४६६) ततोऽक्षरैरमिलाप्यभावानां प्रतिपादनप्रधानं श्रुतमक्षरश्रुतम् १। नन्वनभिलाप्या अपि किं केचिद्भावाः सन्ति, येनैवमुच्यतेऽभिलाप्यभावानां प्रतिपादनप्रधानं श्रुतम् । इति, उच्यतेसन्स्येव । यदाहुः श्रीपूज्या:
पेण्णवणिज्जा भावा, अणंतभागो उ अणमिलप्पाणं । पण्णवणिज्जाणं पुण, अणंतभागो सुयनिबद्धो॥ जं चउदसपुश्वधरा, छट्ठाणगया परुप्परं हुंति । तेण उ अणंतभागो, पण्णवणिज्जाण जं सुत्तं ॥ अक्खरलंमेण समा, ऊणहिया हंति मइविसेसेणं ।
ते वि हु मई विसेसा, सुयनाणमंतरे जाण (विशे० गा० १४१-४३) अनक्षरश्रुतं श्वेडितशिरःकम्पनादिनिमित्तं मामाहयति वारयति वेत्यादिरूपमभिप्रायपरिज्ञानम् २। तथा संज्ञिश्रुतं तत्र संज्ञानं संज्ञा "उपसर्गादातः" (सि० ५-३-११०) इत्यङ्प्रत्ययः । सा च त्रिविधा-दीर्घकालिकी हेतुवादोपदेशिकी दृष्टिवादोपदेशिकी। यदाह भाष्यसुधाम्भोनिधिः
ईंह दीहकालिगी कालिगि ति सन्ना जया सुदीहं पि। संभरइ भूयमिस्स, चिंतेइ य किह णु कायचं ॥ (विशे० गा० ५०८) "जे पुण संचिंतेड, इटाणिढेसु विसयवत्थूसु । वदंति नियत्तंति य, सदेहपरिवालणाहेउं । पाएण संपयं चिय, कालम्मि न यावि दीहकालंजा। ते हेउवायसन्नी, निचिट्ठा हुंति अस्सण्णी ।। सम्मदिही सन्नी, संते नाणे खओवसमियम्मि ।
अस्सण्णी मिच्छत्तम्मि दिट्ठिवाओवएसेणं ॥ (विशे० गा० ५१५-१७) . १ योऽक्षरोपलम्भः सा लब्धिस्तश्च भवति विज्ञानम् । इन्द्रियमनोनिमित्तं य आवरणक्षयोपशमः ॥२ प्रशापनीया भावा अमन्तभागस्वनमिलाप्यानाम् । प्रज्ञापनीयानां पुनरनन्तभागः श्रुतनिबद्धः ॥ ३ यच्चतुर्दशपूर्वधराः पदस्थानगताः परस्परं भवन्ति । तेन बनन्तभागः प्रज्ञापनीयानां यत् सूत्रम् ॥ ४ वुत्तं क० घ०॥ ५ अक्षरलम्मेन समा ऊनाधिका भवन्ति मतिविशेषैः । तानपि तु मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि ॥
इह दीर्घकालिकी कालिकीति संज्ञा यया सुदीर्घमपि । संस्मरति भतमेष्यत चिन्तयति च कथं न कर्त. व्यम् ॥ ७ ये पुनः सञ्चिन्य इष्टानिष्टेषु विषयवस्तुषु । वर्तन्ते निवर्तन्ते च खदेहपरिपालनाहेतोः।। प्रायेण साम्प्रतमेव काले न चापि दीर्घकालज्ञाः। ते हेतुवादसंझिनः निश्चेष्टा भवन्ति असंशिनः ॥ कालमा क०॥१० सम्माधिः संही सति ज्ञाने क्षायोपशसिके । असंही मिथ्यात्वे दृष्टिबादोपदेशेन ।'
For Private and Personal Use Only