SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवेन्द्रसूरिबिरचितस्रोपज्ञटीकोपेतः [गाया अश्रुतनिश्रितबुद्धिचतुष्टयेन सह चत्वारिंशदधिकानि त्रीणि शतानि मतिज्ञानस्य मेदानां भवन्ति । यद्वा मतिज्ञानं चतुर्विधं द्रव्यक्षेत्रकालभावभेदात् । यदाहुर्निर्दलिताज्ञानसम्भारप्रसराः श्रीदेवर्द्धिवाचकवराः. तं समासओ चउविहं पन्नत्तं, तं जहा-दव्वओ खेत्तओ कालओ भावओ। दवओ णं आमिणिबोहियनाणी आएसेणं सबदवाइं जाणइ न पासइ । खित्तओ णं आभिणिबोहियनाणी आएसेणं सर्व खित्तं जाणइ न पासइ । कालओ णं आभिणिबोहियनाणी आएसेणं सबकालं जाणइ न पासइ । भावओ णं आभिणिबोहियनाणी आएसेणं सबभावे जाणइ न पासह । (नन्दी पत्र १८३-२) इति । - व्याख्यातं सप्रपञ्चं मतिज्ञानम् । साम्प्रतं श्रुतज्ञानं व्याचिख्यासुराह-"चउदसहा वीसहा व सुयं"ति 'श्रुतं' श्रुतज्ञानं 'चतुर्दशधा' चतुर्दशभेदं 'विंशतिधा' विंशतिप्रकार वा भवतीति ॥ ५॥ तत्र प्रथमं श्रुतस्य चतुर्दश भेदान् व्याख्यानयन्नाह अक्खर सन्नी सम्मं, साईअं खलु सपजवसियं च।। गमियं अंगपविट्ठ, सत्त वि एए सपडिवक्खा ॥६॥ - इह श्रुतशब्दः पूर्वगाथातः सम्बध्यते । ततोऽक्षरश्रुतं १ संज्ञिश्रुतं २ सम्यक्श्रुतं ३ सादिश्रुतं ४ सपर्यवसितश्रुतं ५ गमिकश्रुतम् ६ अङ्गप्रविष्टश्रुतम् ७ इत्येते सप्त भेदाः सपतिपक्षाः श्रुतस्य चतुर्दश भेदा भवन्ति । तथाहि-अक्षरश्रुतप्रतिपक्षम् अनक्षरश्रुतम् १ एवमर्सज्ञिश्रुतं २ मिथ्याश्रुतम् ३ अनादिश्रुतम् ४ अपर्यवसितश्रुतम् ५ अगमिकश्रुतम् ६ अङ्गबाह्यश्रुतम् ७ इति । तत्राक्षरं त्रिधा-संज्ञाव्यञ्जनलब्धिभेदात् । उक्तं च "तं सन्नावंजणलद्धिसन्नियं तिविहमक्खरं भणियं । सुबहुलिविभेयनिययं, सन्नक्खरमक्खरागारो ॥ (विशे० गा० ४६४) सुबहयो या एता अष्टादश लिपयः श्रूयन्ते, तथाहिहंसलिवी १ भूयलिवी २, जक्खी ३ तह रक्खसी ४ य बोधवा । उड्डी.५ जवणि ६ तुरुक्की ७, कीरी ८ दविडी ९ य सिंघविया १० ॥ मालविणी ११ नडि १२ नागरि १३, लाडलिवी १४ पारसी १५ य बोधवा । तह अनिमित्तीय १६ लिवी, चाणक्की १७ मूलदेवी य १८ ।। - १°ववाचक क० ०॥ २ तत् समासतश्चतुर्विधं प्रज्ञप्तम् , तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतः। द्रव्यतः णमिति वाक्यालङ्कारे ( एवं सर्वत्र) आभिनिबोधिकज्ञानी आदेशेन सर्वद्रव्याणि जानाति न पश्यति । क्षेत्रतः आभिनिबोधिकज्ञानी आदेशेन सर्व क्षेत्रं जानाति न पश्यति । कालतः आभिनिबोधिकज्ञानी आदेशेन सर्व कालं जानाति न पश्यति । भावतः आभिनिबोधिकज्ञानी आदेशेन सर्वान् भावान् जानाति न पश्यति ॥ ३ °कारं भव क० ख० ग०॥ ४ तत् संज्ञाव्यञ्जनलब्धिसंज्ञिकं त्रिविधमक्षरं भणितम् । सुबहुलिपिमेदनियतं संज्ञाक्षरमक्षराकारः ॥ ५ हंसलिपिभूतलिपिर्यक्षी तथा राक्षसी च बोद्धव्या । औड्री यवनी तुरुष्की कीरी द्राविडी च सिन्धविका ॥ ६ पुरुक्की क०ख०ग०ङ०॥७मालविनी नटी नागरी लाटलिपिः पारसीच बोदव्या। तथाऽनिमित्तिका लिपिश्चाणक्या मूलदेवी च॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy