________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५]
iiii
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । धारणा । साऽपि करणमानसैः षोठैव । अर्थावग्रहादीनां च कालप्रमाणमिदम्
उंग्गह एक्कं समय, ईहाऽवाया मुहुत्तमद्धं तु ।
__ कालमसंखं संख, च धारणा होइ नायबा ॥ (आ० नि० गा०४) इति । पूर्वोक्तप्रकारेणार्थावग्रहादीनां चतुर्णां प्रत्येकं षडियत्वात् व्यञ्जनावग्रह भेदचतुष्टयेन सह श्रुतनिश्रितं मतिज्ञानमष्टाविंशतिभेदं भवति । अश्रुतनिश्रितेन त्वौत्पत्तिक्यादिबुद्धिचतुष्टयेन सह द्वात्रिंशद्भेदं भवति । जातिसरणमपि समतिकान्तसङ्ख्यातभवावगमखरूपं मतिज्ञानभेद एव । तथा चाचाराङ्गटीका
जातिस्मरणं त्वामिनिबोधिकविशेषः ॥ (पत्र २०-१) अथवा "बहु १बहुविधर क्षिप्रा३ऽनिश्रिता४ऽसन्दिग्ध५ध्रुवाणां ६ सेतराणाम्" (तत्त्वा० अ० १ सू० १६) इति वचनादष्टाविंशतिरपि द्वादशधा भिद्यते । तथाहि-बहूनामपि श्रोतॄणामविशेषेण प्राप्तिविषयस्थेऽपि शङ्खमेर्यादितूर्यसमुदाये क्षयोपशमवैचित्र्यात् कश्चिदवग्रहादिभिर्बहु गृह्णाति, एकहेलास्फालितानामपि शङ्खभेर्यादितूर्याणां पृथक् पृथक् शब्दं गृहातीत्यर्थः १ । अपरस्त्वबहु गृह्णाति, अव्यक्ततूर्यध्वनिमेवोपलभत इत्यर्थः २॥ अन्यस्तु योषिदादिवाद्यमानतामधुरमन्द्रत्वादिबहुपर्यायोपेतान् शङ्खादिध्वनीन् पृथक् पृथग् जानातीति बहुविधग्राहीत्युच्यते ३ । एकद्विपर्यायोपेतांस्तु तानेव जानानोऽबहुविधग्राही ४ । अन्यस्तु क्षिप्रमचिरेणार्थ जानाति ५। अन्यस्तु विमृश्य चिरेणेति ६ । अन्यस्त्वनिश्रितमलिङ्गं गृह्णाति न पुनः पताकयेव देवकुलम् ७ । अपरस्तु पताकया देवकुलमिव लिङ्गनिश्रया गृह्णाति ८ । यद् असंशयं गृह्णाति तद् असन्दिग्धम् ९ । संशयोपेतं तु यद गृह्णाति तत् सन्दिग्धम् १० । यद् एकदा गृहीतं तत् सर्वदैवावश्यं गृहाति न पुनः कालान्तरे तद्हणे परोपदेशादिकमपेक्षते तद् ध्रुवम् ११ । यत् पुनः कदाचिदेव गृह्णाति न सर्वदा तद् अध्रुवम् १२ । एवमेतै‘दशभिर्भेदैरवग्रहादयः पूर्वोक्तभेदयुक्ता वस्तु गृहन्तीत्यष्टाविंशत्या द्वादशभिर्गुणितया त्रीणि शतानि षट्त्रिंशदधिकानि भवन्ति । यदाह भाष्यपीयूषपयोधि:
जं बहुबहुविहखिप्पानिस्सियनिच्छियधुवेयरविभत्ता । पुणरुग्गहादओ तो, तं छत्तीसं तिसयभेयं ॥ नाणासद्दसमूह, बहुं पिहं मुणइ भिन्नजाईयं । बहुविहमणेगभेयं, इक्किकं निद्धमहुराइं॥ खिप्पमचिरेण तं चिय, सरूवओ तं अणिस्सियमलिंगं ।
निच्छियमसंसयं जं, धुवमच्चंतं न य कयाई ।। (विशे० गा० ३०७-९) १ अवग्रह एक समयमीहाऽपायौ मुहूर्तमध्यं (मिनमुहूर्त) तु । कालमसङ्ख्यातं सङ्ख्यातं च धारणा भवति ज्ञातव्या ॥ २ °न् पृथग् जाक० ख० ग०॥ ३°श्य विमृश्य चि० ख० घ० ॐ०॥ ४ यद् बहुबहुविधक्षिप्रानिश्रितनिश्चितध्रुवेतरविभक्ताः । पुनरवग्रहादयोऽतस्तत् षटत्रिंशत्रिशतमेदम् ॥ ५ नानाशब्दसमूहं बहुं पृथग् जानाति भिन्नजातिकम् । बहुविधमनेकदमेकैकं स्निग्धमधुरादि ॥ ६ नाणं सद्द क० ख० ग० घ० ०॥ ७ क्षिप्रमचिरेण तचैव खरूपतः तदनिश्रितमलिङ्गम् । निश्चितमसंशयं यद् ध्रुवमत्यन्तं न च कदाचित् ॥
For Private and Personal Use Only