________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा उक्तं च नन्द्यध्ययनेसे' किं तं पंजणुग्गहे ? वंजणुग्गहे चउबिहे पन्नते, तं जहा-सोइंदियवंजणुग्गहे धाणिदियवंजणुग्गहे रसणिदियवंजणुग्गहे फासिंदियवंजणुग्गहे ॥ (नन्दी पत्र १६९-२)
मनोनयनयोर्वर्जनं किमर्थम् ? इति चेद् उच्यते-मनोनयनयोरप्राप्तकारित्यात् , अप्राप्तकारित्वं च विषयकृतानुग्रहोपघातशून्यत्वात् , प्राप्तकारित्वे पुनरनलजलशूल्यादीनां चिन्तनेऽवलोकने च दहनक्लेदनपाटनादयः स्युः । अत्र च विषयदेशं गत्वा न पश्यति, प्राप्तं चार्थ नालम्बत इत्येतावन्नियम्यते, मूर्तिमता पुनः प्राप्तेन भवत एवानुग्रहोपघातौ दिनकरकिरणादिनेति । . अन्यस्त्वाह-व्यवहितार्थानुपलब्धेरनुमानात् प्राप्तकारित्वं लोचनस्येति, एतदयुक्तम् , अनैकान्तिकत्वात् , काचाभ्रपटलस्फटिकान्तरितस्याप्युपलब्धेः । स्यादेतत् , नायना रश्मयो निर्गत्य तमर्थ गृहन्तीति दर्शनरश्मीनां तैजसत्वात् तेजोद्रव्यैरप्रतिस्खलनाददोष इति, एतदप्ययुक्तम् , महाज्वालादौ प्रतिस्खलनोपलब्धेरित्यत्र बहु वक्तव्यम् तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गात् । __व्यञ्जनावग्रहस्य च कालो जघन्य आवलिकासङ्ख्येयभागतुल्यः, उत्कृष्ट आनप्राणपृथक्त्वम् । उक्तं च
वंजेणवग्गहकालो, आवलियअसंखभागतुल्लो उ।
थोवो उक्कोसो पुण, आणापाणप्पहुत्तं ति ॥ इति ॥ ४ ॥ उक्तश्चतुर्धा व्यञ्जनावग्रहः । अथार्थावग्रहादीन् व्याचिख्यासुराह
अत्थुग्गहईहावायधारणा करणमाणसहिँ छहा ।
इय अहवीसभेयं, चउदसहा वीसहा व सुयं ॥५॥ . अर्यत इत्यर्थस्तस्य शब्दरूपादिभेदानामन्यतरेणापि भेदेनानिर्धारितस्य सामान्यरूपस्यावग्रहणमर्थावग्रहः, किमपीदमित्यव्यक्तज्ञानमित्यर्थः । स च करणमानसैः षोढा भवति, तत्र करणानि चेन्द्रियाणि पञ्च मानसं च मनः करणमानसानि तैः करणमानसैः कृत्वा । इदमुक्तं भवति-श्रोत्रेन्द्रियार्थावग्रहः १ चक्षुरिन्द्रियार्थावग्रहः २ घ्राणेन्द्रियार्थावग्रहः ३ रसने. न्द्रियार्थावग्रहः ४ स्पर्शनेन्द्रियार्थावग्रहः ५ मानसार्थावग्रहः ६ इति षोढाऽर्थावग्रहः । तथाऽवगृहीतस्यैव वस्तुनः 'किमयं भवेत् स्थाणुरेव ? न तु पुरुषः' इत्यादिवस्तुधर्मान्वेषणात्मकं ज्ञानचेष्टनमीहा, ईहनमीहेति कृत्वा ।
अरण्यमेतत् सविताऽस्तमागतो, न चाधुना सम्भवतीह मानवः । प्रायस्तदेतेन खगादिभाजा, भाव्यं स्मरारातिसमाननाम्ना ॥
मशव इत्याद्यन्वयधर्मघटनव्यतिरेकधर्मनिराकरणाभिमुखतालिङ्गितो ज्ञानविशेष ईहेति हृदयम् । साऽपि करणमानसैः षोदैव । तथा ईहितस्यैव वस्तुनः स्थाणुरेवायमिति निश्चयात्मको बोधविशेषोऽपायः, अयमपि करणमानसैः षोढा । तथा निश्चितस्यैवाविच्युतिस्मृतिवासनारूपं धरणं .१ अथ कोऽसौ व्यजनावप्रहः? व्यञ्जनावग्रहश्चतुर्विधः प्रज्ञप्तः, तद्यथा-श्रोत्रेन्द्रियव्यजनावग्रहो घ्राणेन्द्रियव्यजनावमहो रसनेन्द्रियव्यञ्जनावग्रहः स्पर्शेन्द्रियव्यजनावग्रहः ॥ २ व्यञ्जनावग्रहकाल आवलिकासयभागतुत्यस्तु । स्तोक उत्कृष्टः पुनरानप्राणपृथक्त्वमिति ॥ ३ स्थाणुनामेत्यर्थः ।
For Private and Personal Use Only