SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १] कर्मविपाकनामा प्रथमः कर्ममन्थः। __ 'से किं तं मइनाणं ! महनाणं दुविहं पन्नत्तं, तं जहा-सुयनिस्सियं च अस्सुयनिस्सियं च । से किं तं अस्सुयनिस्सियं ? अस्सुयनिस्सियं चउविहं पन्नत्तं, तं जहा । उप्पत्तिया वेणइया, कम्मिया परिणामिया । ...बुद्धी चउविहा वुत्ता, पंचमा नोवलब्भई ।। ( नन्दी पत्र १४४-१) · तत्रौत्पत्तिकी बुद्धिर्यथा रोहकस्य । वैनयिकी बुद्धिः पददर्शनात्करिण्यादिज्ञायकच्छात्रस्येव । कर्मजा कर्षकस्येव । पारिणामिकी श्रीवज्रवामिन इव । यत्तु पूर्व श्रुतपरिकर्मितमतेर्व्यवहारकाले पुनरश्रुतानुसारितया समुत्पद्यते तत् श्रुतनिश्रितम् । यदुक्तं श्रीविशेषावश्यके पुँवं सुयपरिकम्मियमइस्स जं संपयं सुयाईयं । तं निस्सियमियरं पुण अणिस्सियं मइचउक्कं तं ॥ ( विशे० गा० १६९) तचतुर्धा भवति, तद्यथा--अवग्रह ईहा अपायः धारणा । यदाह'से किं तं सुयनिस्सियं मइनाणं ? सुयनिस्सियं मइनाणं चउन्विहं पन्नत्तं, तं जहाउम्गहो ईहा अवाए धारणा ॥ (नन्दी पत्र १६८-१) पुनरवग्रहो द्वेषा-व्यञ्जनावग्रहः अर्थावग्रहश्च । आह च से किं तं उग्गहे ? उग्गहे दुविहे पनते, तं जहा-वंजणुग्गहे अत्युग्गहे य ॥ (नन्दी पत्र १६८-२) तत्र व्यज्यते-प्रकटीक्रियतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनम् । आह च "बंजिज्जइ जेणत्यो घडु व दीवेण वंजणं तं च । ( विशे० गा० १९४) तञ्चोपकरणेन्द्रियं कदम्बपुष्पातिमुक्तकपुष्पक्षुरप्रनानाकृतिसंस्थितश्रोत्रघाणरसनस्पर्शनलक्षणं शब्दगन्धरसस्पर्शपरिणतद्रव्यसङ्घातो वा । ततश्च व्यञ्जनेनोपकरणेन्द्रियेण व्यञ्जनानां शब्दादिपरिणतद्रव्याणामवग्रहणं परिच्छेदनमेकस्य व्यञ्जनशब्दस्य लोपायञ्जनावग्रहः, किमपीदमित्यव्यक्तज्ञानरूपार्थावग्रहादधोऽव्यक्ततरं ज्ञानमित्यर्थः । अयं चतुर्धा । यदाह सूत्रकृत्"वंजणवागहु चउह" ति स्पष्टम् । चातुर्विध्यमेव भावयति--"मणनयणविणिदियचउक्क"त्ति मनश्च मानसं नयनं च लोचनं मनोनयने, मनोनयने विना मनोनयनविना, "नाम नामकार्ये समासो बहुलम्" (सि० ३-१-१८) इति समासः । इन्द्रियाणां चतुष्कमिन्द्रियचतुष्कं तस्माद् इन्द्रियचतुष्कात् , अत्र “गम्ययपः कर्माधारे" (सि० २-२-७४) इति पञ्चमी । मनोनयनवर्जमिन्द्रियचतुष्कमाश्रित्य व्यञ्जनावग्रहश्चतुर्धा भवतीति भावार्थः । .१ भय किं तद् मतिज्ञानम् ?, मतिज्ञानं द्विविधं प्रज्ञप्तम् , तद्यथा-श्रुतनिश्रितं चाश्रुतनिश्रितं च । अथ कि तदश्रुतनिश्रितम् ? अश्रुतनिश्रितं चतुर्विधं प्रज्ञप्तम् , तद्यथा-औत्पत्तिकी वैनयिकी, कर्मजा पारिणामिकी। बुद्धिश्चतुर्विधा प्रोक्ता, पञ्चमी मोपलभ्यते ॥ २ पारि ख० ग०॥ ३ पूर्व श्रुतपरिकर्मितमतेर्यत् साम्प्रतं श्रता. तीतं । तद् निश्रितमितरत् पुनरनिश्रितं मतिचतुष्कं तत् ॥ ४ अथ किं तत् श्रुतनिश्रितं मतिज्ञानम् ? श्रुतनिश्रितं मतिज्ञानं चतुर्विधं प्रज्ञप्तम् , तयथा--अवग्रह ईहा अपायः धारणा ॥ ५ अथ कोऽसाववग्रहः ? अवमहो द्विविधः प्रज्ञप्तः, तद्यथा-व्यञ्जनावग्रहोऽर्थावग्रहश्च ॥ ६ नत्ते वंजक० ग०॥ ७ व्यज्यते येनार्थः घट इव दीपेन व्यञ्जनं तच्च ॥ ८°क्तचन्द्रा क०। कपुष्पचन्द्रक्षु घ० ङ०॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy