SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org देवेन्द्रसूरिविरचितखोपज्ञटीकोषैतः [गाथा भुतज्ञानम् , खपरप्रत्यायकत्वात् । तथा चामूनेव हेतून संगृहीतवान् भाष्यसुधाम्भोनिधिः लक्खणमेया हेउफलभावओ मेयइंदियविभागा। .... वागक्खरमूयेयरभेया मेओ मइसुयाणं ॥ (विशे० गा०९७) तथा कालविपर्ययखामित्वलाभसाधर्म्यान्मतिश्रुतज्ञानानन्तरमवधिज्ञानम् , तथाहि-अप्रतिपतितैकसत्त्वाधारापेक्षयाऽवस्थितिकालोऽवधिज्ञानस्य षट्षष्टिसागरोपमाणि । तथा यथैव मतिश्रुतज्ञाने मिथ्यात्वोदयतो विपर्ययतामासादयतस्तथाऽवधिज्ञानमपि, तथाहि-मिथ्यादृष्टेः सतस्तान्येव मतिश्रुतावविज्ञानानि मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानानि भवन्ति । उक्तं च.. आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तम् ॥ (प्रशम० पद्य २२७.) इति । .. तथा य एव मतिश्रुतयोः खामी स एवावधिज्ञानस्यापि । तथा विभङ्गज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव मतिश्रुतावधिज्ञानानां लाभसंभवस्ततो लाभसाधर्म्यम् । अवविज्ञानानन्तरं च छद्मस्थविषयभावप्रत्यक्षत्वसाधान्मनःपर्यायज्ञानमुक्तम् , तथाहि-यथाऽवधिज्ञानं छद्मस्थस्य भवति तथा मनःपर्यायज्ञानमपि इति छद्मस्थसाधर्म्यम् । तथा यथाऽवधिज्ञानं रूपिद्रव्यविषयं तथा मनःपर्यायज्ञानमपि, तस्य मनःपुद्गलाऽऽलम्बनत्वाद् इति विषयसाधर्म्यम् । तथा यथाऽवधिज्ञानं क्षायोपशमिके भावे वर्तते तथा मनःपर्यायज्ञानमपि इति भावसाधर्म्यम् । तथा यथाऽवधिज्ञानं प्रत्यक्षं तथा मनःपर्यायज्ञानमपि इति प्रत्यक्षत्वसाधर्म्यम् । उक्तं च कालविवजयसामित्तलाभसाहम्मओऽवही तत्तो । . माणसमित्तो छउमत्थविसयभावाइसाहम्मा ॥ (विशे० गा० ८७) तथा मनःपर्यायज्ञानानन्तरं केवलज्ञानस्योपन्यासः, सर्वोत्तमत्वाद् अप्रमत्तयतिखामिसाधात् सर्वावसाने लाभाच्च । तथाहि-सर्वाण्यपि मतिज्ञानादीनि ज्ञानानि देशतः परिच्छेदकानि, केवलज्ञानं तु सकलवस्तुस्तोमपरिच्छेदकं सर्वोत्तमम् , सर्वोतमत्वाच्चान्ते सर्वशिरःशे. खरकल्पमुपन्यस्तम् । तथा यथा मनःपर्यवज्ञानमप्रमत्तयतेरेवोत्पद्यते तथा केवलज्ञानमपि इत्यप्रमत्तयतिखामिसाधर्म्यम् । तथा यः सर्वाण्यपि ज्ञानानि समासादयितुं योग्यः स नियमात् सर्वज्ञानावसाने केवलज्ञानमवामोति, ततः सर्वान्ते केवलमुक्तम् । उक्तं च "अंते केवलमुत्तमजइसामित्तावसाणलाभाओ॥ (धर्मसं० गा०.८५) इति ॥ व्याख्यातानि नामसंस्कारमात्रेण पञ्चापि ज्ञानानि । अथामून्येव सविस्तरं व्याचिल्यासुः प्रथमं मतिज्ञानं प्रकटयन्नाह-"तत्थ मइनाणं" इत्यादि । 'तत्र' तेषु पञ्चसु ज्ञानेषु मतिज्ञानमष्टाविंशतिभेदं भवतीत्युत्तरगाथायां सम्बन्धः । इह किल द्वेधा मतिज्ञानम्-श्रुतनिश्रितमश्रुतनिश्रितं च । तत्र च यत् प्रायः श्रुताभ्यासमन्तरेणापि सहजविशिष्टक्षयोपशमवशादुत्पद्यते सद् अश्रुतनिश्रितमौत्पत्तिक्यादिबुद्धिचतुष्टयम् , यदाह श्रीदेवर्द्धिवाचक:. १ लक्षणमेदाद् हेतुफलभावतो भेदेन्द्रियविभागात् । वल्काक्षरमूकेतरमेदाढ़ेदो मतिश्रुतयोः ॥ २ लो मतिश्रुतयोरिवावधि ग०७० ॥ ३ कालविपर्ययस्वामित्वलामसाधर्म्यतोऽवधिः ततः । मानसं (मनःपर्याय) इतः छद्मस्थविषयभावादिसाधर्म्यात् ॥ ४ °कल्पे उप का घ० रु०॥ ५ अन्ते केवलमुत्तमयतिखा. मित्वानसानलाभात्॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy