________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । र्म्यम् । तथा यथा मतिज्ञानमादेशतः सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपि इति विषयसाधर्म्यम् । यथा च मतिज्ञानं परोक्षं तथा श्रुतज्ञानमपि इति परोक्षत्वसाधर्म्यम् । तत इत्थं खाम्यादिसाधादेते मतिश्रुते नियमादेकत्र वक्तव्ये, ते चावध्यादिज्ञानेभ्यः प्रागेव, तद्भाव एवाऽव. ध्यादिसद्भावात् । उक्तं च
जं सामिकालकारणविसयपरोक्खत्तणेहि तुल्लाई ।
तब्भावे सेसाणि य, तेणाऽऽईए मइसुयाइं ॥ (विशे० गा० ८५) ननु भवतामेकत्र मतिश्रुते, प्रागेव चावध्यादिभ्यः, परमेतयोरेव मतिश्रुतयोर्मध्ये पूर्व मतिः पश्चात् श्रुतमित्येव तत् कथम् ? उच्यते-मतिपूर्वत्वात् श्रुतज्ञानस्य, तथाहि-सर्व त्रापि पूर्वमवग्रहादिरूपं मतिज्ञानमुदयते पश्चात् श्रुतम् । यदाह निबिडजडिमसम्भारतिरस्कारतरणिः श्रीजिनभद्रगणिक्षमाश्रमण:
मैइपुर्व सुयमुत्तं, न मई सुयपुबिया विसेसोऽयं ।
पुर्व पालणपूरणभावाओ जं मई तस्स ॥ (विशे० गा० १०५) नन्द्यध्ययनचूर्णावप्युक्तम्तेसैं वि य मइपुवयं सुयं ति किच्छा पुर्व मइनाणं कयं, तप्पिट्ठओ सुयं ति ॥ (पत्र ११)
आह—यदि खामित्वादिभिरनयोरभेदस्तर्हि द्वयोरप्येकत्वमस्तु, मेदहेत्वभावाद् अभेदहेतूनां चाभिहितत्वात् , तदयुक्तम् , भेदहेत्वभावस्यासिद्धत्वात् । तथाहि-खाम्यादिभिरभेदे सत्यपि लक्षणभेदादनयोर्भेदः, तथाहि-मन्यते योग्योऽर्थोऽनयेति मतिः, श्रवणं श्रुतमित्यादि । तथा हेतुफलभावाद् भेदः, तथाहि-मतिज्ञानं श्रुतस्य कारणम् , श्रुतं तु कार्यम् । यच्च यदुत्कर्षापकर्षवशादुत्कर्षापकर्षभाक् तत् तस्य कारणम् , यथा घटस्य मृत्पिण्डः, तथाहि-श्रुतेष्वपि बहुषु ग्रन्थेषु यद्विषयं स्मरणमीहाऽपोहादि वाऽधिकतरं प्रवर्तते स ग्रन्थः स्फुटतरः प्रतिभाति न शेषः । तथा मेदभेदाद मेदः, तथाहि-मतिज्ञानमष्टाविंशत्यादिभेदम् , श्रुतज्ञानं तु चतुर्दशादिभेदम् । तथा इन्द्रियविभागाद् भेदः, तत्प्रतिपादिका चेयं पूर्वान्तर्गता गाथा
सोइंदिओवलद्धी, होइ सुयं सेसयं तु मइनाणं । __ मुत्तूणं दबसुयं, अक्खरलंभो य सेसेसु ॥ (विशे० गा० ११७) तथा वेस्कसमं मतिज्ञानं कारणत्वात् , शुम्बसमं श्रुतज्ञानं तत्कार्यत्वादित्यप्यनयोर्मेदनिबन्धनम् । तथा इतश्च भेदः-मतिज्ञानमनक्षरं साक्षरं च, तथाहि-अवग्रहज्ञानमनक्षरम् , तस्यानिदेश्यसामान्यमात्रप्रतिभासात्मकतया निर्विकल्पत्वात् ; ईहादिज्ञानं तु साक्षरम् , तस्य परामर्शादिरूपतयाऽवश्यं वर्णाऽऽरूषितत्वात् ; श्रुतज्ञानं पुनः साक्षरमेव, अक्षरमन्तरेण शब्दार्थपर्यालोचनस्यानुपपत्तेः । तथा इतश्च भेदः-मूककल्यं मतिज्ञानम् , खमात्रप्रत्यायकत्वात् ; अमूककल्प
१ यत् स्वामिकालकारणविषयपरोक्षत्वैस्तुल्ये । तद्भावे शेषाणि च तेनाऽऽदौ मतिश्रुते ॥ २ मतिपूर्व श्रुतमुक्तं न मतिः श्रुतपूर्विका विशेषोऽयम् । पूर्व पालनपूरणभावात् यन्मतिस्तस्य (श्रुतस्य)॥३ तयोरपि च मतिपूर्वकं श्रुतमिति कृत्वा पूर्व मतिज्ञानं कृतं तत्पृष्ठतः श्रुतमिति ॥ ४ श्रोत्रेन्द्रियोपलब्धिः भवति श्रुतं शेषकं तु मतिज्ञानम् । मुक्त्वा द्रव्यश्रुतमक्षरलाभश्व शेषेषु ॥ ५ बक्सदृशम् ॥ ६ रजुसदृशम् ॥ ७ मिश्रितवात् ॥
क०२
For Private and Personal Use Only