________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[ गाथा वरणविलये न तथाविधो मतिज्ञानादिसंज्ञितः केवलज्ञानस्य प्रकाशो भवति, किन्तु सर्वात्मना यथावस्थितं वस्तु परिच्छिन्दन् परिस्फुटरूपोऽन्य एवेत्यदोषः । उक्तं च श्रीपूज्यैः
कटविबरागयकिरणा, मेहंतरियस्स जह दिणेसस्स ।
ते कडमेहावगमे, न हुंति जह तह इमाई पि ॥ अन्यैरपि न्यगादि
मलविद्धमणेर्व्यक्तिर्यथाऽनेकप्रकारतः । कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः ॥ यथा जात्यस्य रत्नस्य, निःशेषमलहानितः ।
स्फुटैकरूपाऽभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः ॥ ___ अन्ये पुनराहुः-सन्त्येव मतिज्ञानादीन्यपि सयोगिकेवल्यादौ, केवलमफलत्वात् सन्त्यपि तदानीं न विवक्ष्यन्ते, यथा सूर्योदये नक्षत्रादीनि । उक्तं च
अन्ने आभिणिबोहियणाणाईणि वि जिणस्स विजंति ।
अफलाणि य सूरुदए, जहेव नक्खत्तमाईणि ।। शुद्धं वा केवलम् , तदावरणमलकलङ्कपङ्कापगमात् । सकलं वा केवलम् , तत्प्रथमतयैव निःशेषतदावरण विगमूतः संपूर्णोत्पत्तेः । असाधारणं वा केवलम् , अनन्यसदृशत्वात् । अनन्तं वा केवलम् , 'ज्ञेयानन्तत्वात् अपर्यवसितानन्तकालावस्थायित्वाद्वा । निर्व्याघातं वा केवलम् , लोकेऽलोके वा कापि व्याघाताभावात् । केवलं च तद् ज्ञानं च केवलज्ञानं यथावस्थितसमस्तभूतभवद्भाविभावखभावावभासि ज्ञानमिति भावना ।
आह-नन्वेतेषां पञ्चानां ज्ञानानामित्थं क्रमोपन्यासे किं कारणम् ? उच्यते--इह मतिश्रुते तावदेकत्र वक्तव्ये, परस्परमनयोः खामिकालकारण विषयपरोक्षत्वसाधर्म्यात् । तथाहिय एव मतिज्ञानस्य खामी स एव श्रुतज्ञानस्य य एव श्रुतज्ञानस्य स्वामी स एव मतिज्ञानस्यापि "जैत्थ मइनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मइनाणं" (नन्दी पत्र १४०-१) इत्यादिवचनप्रामाण्यात् , ततः खामिसाधर्म्यम् । तथा यावानेव मतिज्ञानस्य स्थितिकालस्तावानेव श्रुतज्ञानस्यापि, तत्र प्रवाहापेक्षयाऽतीतानागतवर्तमानरूपः सर्वकालः, अप्रतिपतितैकजीवापेक्षया षट्षष्टिसागरोपमाणि समधिकानि, उक्तं च
दो वारे विजयाइसु, गयम्स तिन्नऽच्चुए अहव ताई।
अइरेगं नरभवियं, नाणाजीवाण सबद्धा ॥ (विशे० गा० २७६२) इति कालसाधर्म्यम् । यथा चेन्द्रियनिमित्तं मतिज्ञानं तथा श्रुतज्ञानमपीति कारणसाध१ कटविवरागतकिरणाः, मेधान्तरितस्य यथा दिनेशस्य । ते कटमेघापगमे, न भवन्ति यथा तथेमान्यपि । २ अन्ये आमिनिबोधिकज्ञानादीन्यपि जिनस्य विद्यन्ते । अफलानि च सूर्योदये यथैव नक्षत्रादीनि ॥ ३ यत्र मतिज्ञानं तत्र श्रुतज्ञानं यत्र श्रुतज्ञानं तत्र मतिज्ञानम् ॥ ४ द्वौ वारौ विजयादिषु, गतस्य त्रीन् ( वारान् ) अच्युतेऽथवा तानि ( सागराणि ६६ ) । अतिरेकं नरभविकं नानाजीवानां सर्वाद्धा ॥
For Private and Personal Use Only