________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अथ ग्रन्थकारप्रशस्तिः ।
विष्णोरिव यस्य विभोः, पदत्रयी व्यानशे जगन्निखिलम् । सूक्ष्मार्थसार्थदेशी, स श्रीवीरो जिनो जयतु ॥ १ कुन्दोज्ज्वलकीर्तिभरैः, सुरभीकृतसकलविष्टपाभोगः । शतमखशतविनतपदः, श्रीगौतम गणधरः पातु ॥ २ ॥ तदनु सुधर्मस्वामी, जम्बूप्रभवादयो मुनिवरिष्ठाः । श्रुतजलनिधिपारीणा, भूयांसः श्रेयसे सन्तु ॥ ३॥ ततः प्राप्ततपाचार्येत्यभिख्या भिक्षुनायकाः । समभूवन् कुले चान्द्रे, श्रीजगच्चन्द्रसूरयः ॥ ४ ॥ जगज्जनितबोधानां तेषां शुद्धचरित्रिणाम् । विनेयाः समजायन्त, श्रीमद्देवेन्द्रसूरयः || ५ || स्वान्ययोरुपकाराय, श्रीमद्देवेन्द्रसूरिणा । षडशीतिकटीकेयं, सुखबोधा विनिर्ममे ॥ ६ ॥ विबुधवरधर्म कीर्त्तिश्रीविद्यानन्द सूरिमुख्यबुधैः ः । खपरसमयैककुशलैस्तदैव संशोधिता चेयम् ॥ ७ ॥ यद्गदितमल्पमतिना, सिद्धान्तविरुद्धमिह किमपि शास्त्रे । विद्वद्भिस्तत्त्वज्ञैः प्रसादमाधाय तच्छोध्यम् ॥ ८ ॥ षडशीतिकशास्त्रमिदं, विवृण्वता यन्मयाऽर्जितं सुकृतम् । तेनास्तु भव्यलोकः, सूक्ष्मार्थविचारणाचतुरः ॥ ९ ॥ ग्रन्थाग्रम् २८०० । सर्वग्रन्थाग्रम् ५९३८ अ. २८ ॥
Descri
इति कर्मग्रन्थचतुष्टात्मकः प्रथमो विभागः ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only