________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३-८६ ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
२१३
सर्व एव ‘सिद्धाः’ निष्ठितनिःशेषकर्माणः १ 'निगोदजीवाः' समस्ता अपि सूक्ष्मबादर भेदभिन्ना अनन्तकायिकसत्त्वाः २ ' वनस्पतयः' प्रत्येकानन्ताः सर्वेऽपि वनस्पतिजीवाः ३ 'काल:' इति सर्वोऽप्यतीतानागतवर्तमानकालसमयराशिः ४ ' पुद्गलाः' समस्तपुद्गलराशेः परमाणवः ५ ' सर्वं ' समस्तम् 'अलोकनभः' अलोकाकाशमिति उपलक्षणत्वात् सर्वोऽपि लोकालोकप्रदेशराशिः ६ इत्येतद्राशिषट्कप्रक्षेपानन्तरं यस्मिन् कृते यद् भवति तदाह - 'पुनः ' पुनरपि 'त्रिर्वर्गयित्वा' त्रीन् वारांस्तावतैव राशिना गुणयित्वा 'केवलद्विके' केवलज्ञानकेवलदर्शनयुगले क्षिप्ते सति ॥ ८५ ॥ किम् ? इत्याह
खित्ते ताणतं, हवेइ जिङ्कं तु ववहरह मज्झं । इय सुहुमत्थवियारो, लिहिओ देविंदसूरीहिं ॥ ८६ ॥ ‘क्षिप्ते' न्यस्ते सत्यनन्तानन्तकं ‘भवति' जायते 'ज्येष्ठम् ' उत्कृष्टम् 'तुः' पुनरर्थे व्यवहितसम्बन्धश्च । 'व्यवहरति' व्यवहारकारि 'मध्यं तु' मध्यमं पुनः । इयमत्र भावना - इह केवलज्ञानकेवलदर्शनशब्देन तत्पर्याया उच्यन्ते, ततः केवलज्ञानकेवलदर्शनयोः पर्यायेष्वनन्तेषु क्षिप्तेषु सत्खिति द्रष्टव्यम्, नवरं ज्ञेयपर्यायाणामानन्त्याद् ज्ञानपर्यायाणामप्यानन्त्यं वेदितव्यम्, एवमनन्तानन्तं ज्येष्ठं भवति, सर्वस्यैव वस्तुजातस्यात्र संगृहीतत्वात्, अतः परं वस्तुसत्त्वस्यैव सङ्ख्याविषयस्याभावादित्यभिप्रायः । सूत्राभिप्रायतस्त्वित्थमप्यनन्तानन्तकमुत्कृष्टं न प्राप्यते, अनन्तकस्याष्टविधस्यैव तत्र प्रतिपादितत्वात् । तथा चोक्तमनुयोगद्वारेषु -
• एवमुक्कोसयं अनंताणंतयं नत्थि ।
तत्र तत्त्वं केवलिनो विदन्ति । सूत्रे तु यत्र कचिदनन्तानन्तकं गृह्यते तत्र सर्वत्राजघन्यो - त्कृष्टशब्दवाच्यमनन्तानन्तकं द्रष्टव्यम् । तदेवं व्याख्यातं सप्रपञ्चं सङ्ख्यातकासङ्ख्यातकानन्तकादिखरूपम्, तन्निरूपणे च व्याख्याता " नमिय जिणं जियमग्गण" ( गा० १ ) इत्यादि मौलद्वारगाथा । सम्प्रति षडशीतिसङ्ख्यगाथाप्रमाणत्वेन यथार्थं षडशीतिकशास्त्रं समर्थयन्नाह— “इय सुहुमत्थवियारो” इत्यादि । 'इति' पूर्वोक्तप्रकारेण सूक्ष्मः - मन्दमत्यगम्यो योऽर्थःशब्दाभिधेयं तस्य विचारः विचारणं 'लिखितः ' - अक्षरविन्यासीकृतः पञ्चसङ्ग्रहादिशास्त्रेभ्य इति शेषः । कैः ? इत्याह- 'देवेन्द्रसूरिभिः ' करालकलिकालपातालतलावमज्जद्विशुद्धधर्मधुरोद्धरणधुरीणश्रीमज्जगच्चन्द्रसूरिक्रमकमलचञ्चरीकैरिति ॥ ८६ ॥
॥ इति श्रीदेवेन्द्रसूरिविरचिता खोपज्ञषडशीतिकटीका समाप्ता ॥
१ एवमुत्कृष्टमनन्तानन्तकं नास्ति । एतचिह्नान्तर्गतपाठो मुद्रितानुयोगद्वारेषु नोपलब्धः ॥
For Private and Personal Use Only