________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा विषयं वीर्यं तस्य केवलिप्रज्ञाच्छेदेन प्रतिविशिष्टा निर्विभागा भागा योगच्छेदप्रतिभागाः, ते च निगोदादीनां संज्ञिपञ्चेन्द्रियपर्यन्तानां जीवानामाश्रिता जघन्यादिभेदभिन्ना असङ्ख्येया मन्तव्याः। "दुण्ह य समाण समय" त्ति 'द्वयोश्च समयोः' उत्सर्पिण्यवसर्पिणीकालखरूपयोः समया असहयेयखरूपाः । “पत्तेयनिगोयए" त्ति अनन्तकायिकान् वर्जयित्वा शेषाः पृथिव्यप्तेजोवायुवनस्पतित्रसाः प्रत्येकशरीरिणः सर्वेऽपि जीवा इत्यर्थः, ते चासङ्ख्यया भवन्ति । निगोदाः सूक्ष्माणां बादराणां चानन्तकायिकवनस्पतिजीवानां शरीराणीत्यर्थः, ते चासङ्ख्याताः । एवमेते प्रत्येकमसङ्ख्येयस्वरूपा दश क्षेपास्तान् क्षिपख ॥ ८२ ॥ अथ राशिदशकप्रक्षेपानन्तरं तस्यैव राशेयस्मिन् विहिते यद् भवति तदाह
पुण तम्मि ति वग्गियए, परित्तणंत लह तस्स रासीण।
अब्भासे लहु जुत्ताणंत अब्भव्यजियमाणं ॥८३ ॥ पुनरपि "तम्मि" त्ति तस्मिन्' अनन्तरोदिते प्रक्षिप्तक्षेपदशके 'त्रिर्वर्गिते' त्रीन् वारान् वर्गिते सति परीत्तानन्तं 'लघु' जघन्यं भवति । इदमुक्तं भवति-जघन्यासङ्ख्येयासङ्ख्येयकखरूपे वारत्रयं वर्गिते राशौ दशैते क्षेपाः क्षिप्यन्ते, तत इत्थं पिण्डितो यो राशिः सम्पद्यते स पुनरपि वारत्रयं वयेते ततो जघन्यं परीत्तानन्तकं भवतीति । इदानीं जघन्ययुक्तानन्तकनिरूपणायाह"तस्स रासीण" इत्यादि, 'तस्य' जघन्यपरीत्तानन्तकस्य सम्बन्धिनां राशीनामन्योन्यमभ्यासे सति 'लघु' जघन्यं युक्तानन्तकमभव्यजीवमानं भवति । इयमत्र भावना-जघन्यपरीत्तानन्तके ये राशयः सर्षपरूपास्ते पृथक् पृथग् व्यवस्थाप्यन्ते, तेषां तथा व्यवस्थापितानां जघन्यपरीत्तानन्तकमानानां राशीनामन्योन्याभ्यासे सति युक्तानन्तं जघन्यं भवति, तथा जघन्ययुक्तानन्तके यावन्ति रूपाणि वर्तन्त अभवसिद्धिका अपि जीवाः केवलिना तावन्त एव दृष्टा इति ॥ ८३ ॥ जघन्यानन्तानन्तकप्ररूपणायाह
तव्वग्गे पुण जायइ, णंताणंत लहु तं च तिक्खुत्तो ।
वग्गसु तह विन तं होइ णंतखेवे खिवसु छ इमे ॥ ८४॥ तस्य-जघन्ययुक्तानन्तकराशेर्वर्गे-सकृदभ्यासे तद्वर्गे कृते सति 'पुनः' भूयोऽपि 'जायते' सम्पद्यते अनन्तानन्तं 'लघु' जघन्यम् , जघन्यानन्तानन्तकं भवतीत्यर्थः । उत्कृष्टानन्तानन्तकप्ररूपणायाह-"तं च तिक्खुत्तो" इत्यादि । 'तच्च' तत् पुनर्जघन्यमनन्तानन्तं 'विकृत्वः' त्रीन् वारान् 'वर्गयख' तावतैव राशिना गुणय । अयमत्रार्थः---जघन्यानन्तानन्तकराशेस्तावतैव राशिना गुणनखरूपो वर्गः क्रियते, ततस्तस्य वर्गितराशेः पुनर्वर्गः, तस्यापि वर्गितराशेर्भूयोऽपि वर्ग इति । 'तथापि' एवमपि वारत्रयं वर्गे कृतेऽपि तद् उत्कृष्टमनन्तानन्तकं 'न भवति' न जायते । ततः किं कार्यम् ? इत्याह-अनन्तक्षेपान् ‘इमान्' वक्ष्यमाणखरूपान् 'षट्' षट्सयान् ‘क्षिपख' निधेहीति ॥ ८४ ॥ तानेव षडनन्तक्षेपानाह
सिद्धा निगोयजीवा, वणस्सई काल पुग्गला चेव । सव्वमलोगनहं पुण, ति वग्गिउं केवलदुगम्मि ॥ ८५ ॥
For Private and Personal Use Only