SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८०-८२] घडशीतिनामा चतुर्थः कर्मग्रन्थः । २११ उक्तः सूत्राभिप्रायः । साम्प्रतं मतान्तरगतमसङ्ख्यातानन्तकखरूपमाह-"अन्ने वग्गिय" इत्यादि । अन्ये आचार्याः--एके सूरय एवमाहुः, यथा-'चतुर्थकमसङ्ख्यं जघन्ययुक्तासङ्ख्यातकरूपं 'वर्गितं' तावतैव राशिना गुणितं सत् "एक्कसि" त्ति एकवारं 'भवति' जायते-सम्पद्यते असङ्ख्यासह्वयं 'लघु' जघन्यम् , जघन्यासङ्ख्यातासङ्ख्यातकं भवतीत्यर्थः । अत्रापि मते असङ्ख्यातकमुद्दिश्य मध्यमोत्कृष्टभेदप्ररूपणा पूर्वोक्तैवेति दर्शयन्नाह-रूवजुयं तु तं मज्झं" ति रूपेणसर्षपलक्षणेन युतं रूपयुतं 'तुः' अवधारणे व्यवहितसम्बन्धश्च तद्' इति तदेवानन्तराभिहितं जघन्यासङ्ख्येयासङ्ख्येयादिकम् किं भवति ? इत्याह-'मध्यं' मध्यमासङ्ख्येयासङ्ख्येयादिकं भवति ॥८॥ रूवूणमाइमं गुरु, ति वग्गिउं तं इमं दस क्खेवे । लोगागासपएसा, धम्माधम्मेगजियदेसा ॥ ८१ ॥ तदेव जघन्यासङ्खयेयासङ्खयेयादिकं 'रूपोनम्' एकेन रूपेण रहितं सद् 'आदिम' तदपेक्षया आद्यस्य राशेः सम्बन्धि 'गुरु' उत्कृष्टं भवतीति । अयमत्राशयः-जघन्यासङ्ख्येयासङ्खयेयक रूपोनं सद् युक्तासङ्ख्यातकमुत्कृष्टकं भवति, जघन्यपरीत्तानन्तं रूपोनमसङ्ख्येयासङ्ख्येयकमुत्कृष्टं भवति, जघन्ययुक्तानन्तं तु रूपोनमुत्कृष्टं परीत्तानन्तं भवति, जघन्यानन्तानन्तकं तु रूपोनमुत्कृष्टं युक्तानन्तकं भवतीति । अधुना जघन्यपरीत्तानन्तकं मतान्तरेण प्ररूपयन्नाह-"ति वग्गिउं तं" इत्यादि । 'तद्' इति प्रागभिहितं जघन्यासङ्ख्येयासङ्ख्येयकं 'त्रिवर्गयित्वा' सदृशद्विराशी परस्परं त्रीन् वारानभ्यस्येत्यर्थः । अयमत्राशयः-जघन्यासङ्ख्येयासङ्ख्येयकराशेः सदृशद्विराशिगुणनलक्षणो वर्गो विधीयते, तस्यापि वर्गराशेः पुनर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनरपि वर्गो निष्पाद्यत इति । ततः किम् ? इत्याह—'इमान्' वक्ष्यमाणस्वरूपान् 'दश' इति दशसहयान् क्षिप्यन्त इति कर्मणि घजि क्षेपाः-प्रक्षेपणीयराशयस्तान् ‘क्षिपख' निधेहीत्युत्तरगाथायां सम्बन्धः । तथाहि लोकाकाशस्य प्रदेशाः १ धर्मश्च अधर्मश्च एकजीवश्च धर्माधर्मैकजीवास्तेषां देशाः-प्रदेशाः । अयमत्रार्थः-धर्मास्तिकायप्रदेशाः २ अधर्मास्तिकायप्रदेशाः ३ एकजीवप्रदेशाः ४ ॥ ८१ ॥ तथा ठिइबंधज्झवसाया, अणुभागा जोगछेयपलिभागा। दुण्ह य समाण समया, पत्तेयनिगोयए खिवसु ॥८२॥ स्थितिबन्धस्य कारणभूतान्यध्यवसायस्थानानि कषायोदयरूपाण्यध्यवसायशब्देनोच्यन्ते, तान्यसङ्ख्येयान्येव । तथाहि-ज्ञानावरणस्य जघन्योऽन्तर्मुहूर्तप्रमाणः स्थितिबन्धः, उत्कृष्टतस्तु त्रिंशत्सागरोपमकोटाकोटीप्रमाणः, मध्यमपदे त्वेकद्वित्रिचतुरादिसमयाधिकान्तर्मुहूर्तादिकोऽस येयभेदः, एषां च स्थितिबन्धानां निर्वर्तकान्यध्यवसायस्थानानि प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि भिन्नान्येव, एवं च सत्येकस्मिन्नपि ज्ञानावरणेऽसङ्ख्येयानि स्थितिबन्धाध्यवसायस्थानानि लभ्यन्ते, एवं दर्शनावरणादिष्वपि वाच्यम् । “अणुभाग" ति 'अनुभागाः' ज्ञानावरणादिकर्मणां जघन्यमध्यमादिभेदभिन्ना रसविशेषाः, एतेषां चानुभागविशेषाणां निर्वर्तकान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्त्यतोऽनुभागविशेषा अप्येतावन्त एव द्रष्टव्याः, कारणभेदाश्रितत्वात् कार्यभेदानाम् । “जोगछेयपलिभाग" ति योगः-मनोवाकाय For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy