________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७९-८०] षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
२०९ इत्याह-'गुरवः' उत्कृष्टाः 'पाश्चात्याः' पश्चिमराशय इत्यर्थः । इयमत्र भावना-जघन्ययुक्तासङ्ख्यातकराशिरेकेन रूपेण न्यूनः स एव पाश्चात्य उत्कृष्टपरीत्तासङ्ख्येयकखरूपो भवति, जघन्यासङ्ख्यातासङ्ख्यातकराशिस्त्वेकेन रूपेण न्यूनः सन् पाश्चात्य उत्कृष्टयुक्तासङ्ख्यातकखरूपो भवति, जघन्यपरीत्तानन्तकराशिः पुनरेकेन रूपेण न्यूनः पाश्चात्य उत्कृष्टासङ्ख्यातासङ्ख्यातकखरूपो भवति, जघन्ययुक्तानन्तकराशिस्त्वेकरूपोनः पाश्चात्य उत्कृष्टपरीत्तानन्तकस्वरूपो भवति, जघन्यानन्तानन्तकराशिरेकरूपरहितः पाश्चात्य उत्कृष्टयुक्तानन्तकस्वरूपो भवतीति । इदं चासङ्ख्येयकानन्तकभेदानामित्थं प्ररूपणमागमाभिप्रायत उक्तं, कैश्चिदन्यथाऽपि चोच्यते ॥ ७९ ॥ अत्र एवाह
इय सुत्तुत्तं अन्ने, वग्गियमिकसि चउत्थयमसंखं ।
होइ असंग्खासखं, लहु रूवजुयं तु तं मज्झं ॥ ८०॥ 'इति' पूर्वोक्तप्रकारेण यद् असङ्ख्यातकानन्तकखरूपं प्रतिपादितं तत् सूत्रे-अनुयोगद्वारलक्षणे सिद्धान्ते उक्तं-निगदितम् । तथा चोक्तं श्रीअनुयोगद्वारेषु
उक्कोसए संखिज्जए रूवं पक्खित्तं जहन्नयं परित्तासंखिज्जयं होइ । तेण परं अजहन्नमणुक्कोसयाई ठाणाइं जाव उक्कोसयं परित्तासंखिजयं न पावेइ । उक्कोसयं परित्तासंखिज्जयं कित्तियं होइ ? जहन्नयं परित्तासंखिजयं जहन्नयपरितासंखिज्जयमित्ताणं रासीणं अन्नमन्नब्भासो रूवूणो उक्कोसयं परित्तासंखिज्जयं हवइ, अहवा जहन्नयं जुत्तासंखिज्जयं रूवूणं उक्कोसयं परित्तासंखिजयं होइ । जहन्नयं जुत्तासंखिज्जयं कित्तियं होइ ? जहन्नयपरित्तासंखिजयमित्ताणं रासीणं अन्नमन्नब्भासो पडिपुन्नो जहन्नयं जुत्तासंखिजयं होइ, अहवा उक्कोसए परित्तासंखिज्जए एवं पक्खित्तं जहन्नयं जुत्तासंखिज्जयं होइ, आवलिया वि तित्तिल्लया चेव । तेण परं अजहन्नमणुकोसयाइं ठाणाइं जाव उक्कोसयं जुत्तासंखिज्जयं न पावइ । उक्कोसयं जुत्तासंखिज्जयं कित्तिल्लयं होइ ?, जहन्नएणं जुत्तासंखिज्जएणं आवलिया गुणिया अन्नमन्नब्भासो रूवूणो उक्कोसयं जुत्तासंखिज्जयं होइ, अहवा जहन्नयं असंखिज्जासंखिजयं रूबूणं उक्कोसयं जुत्तासंखिज्जयं होइ । जहन्नयं असंखिज्जासंखिजयं कित्तियं होइ ? जहन्नएणं जुत्तासंखिज्जएणं आवलिया गुणिया अन्नमन्नब्भासो पडिपुन्नो जहन्नयं असंखिज्जासंखिजयं होइ, अहवा उक्कोसए जुत्तासंखिज्जए रूवं पक्खित्तं जहन्नयं असंखिज्जासंखिज्जयं होइ । तेण परं अजहन्नमणुक्कोसयाई ठाणाई जाव
१ उत्कृष्टके सहयेयके रूपं प्रक्षिप्तं जघन्यकं परीत्तासङ्ख्येयकं भवति । ततः परमजघन्योत्कृष्टकानि स्थानानि यावदुत्कृष्टं परीत्तासङ्ख्ययकं न प्राप्नोति। उत्कृष्टकं परीत्तासङ्ख्येयकं कियद् भवति? जघन्यकं परीत्तासङ्ग्येयक जघन्यपरीत्तासङ्ख्येयकमात्राणां राशीनामन्योन्याभ्यासो रूपोन उत्कृष्टकं परीत्तासङ्ख्येयकं भवति, अथवा जघन्यकं युक्तासययकं रूपोनं उत्कृष्टकं परीत्तासङ्ख्येयकं भवति । जघन्यकं युक्तासङ्ख्येयकं कियद् भवति ? जघन्यकपरीत्तासङ्ख्येयकमात्राणां राशीनामन्योन्याभ्यासः प्रतिपूर्णो जघन्यकं युक्तासङ्ख्येयकं भवति, अथबोत्कृष्टके परीतासङ्ख्येयके रूपं प्रक्षिप्तं जघन्यकं युक्तासङ्ख्येयकं भवति, आवलिकाऽपि तावत्येव । ततः परमजघन्योत्कृष्टकानि स्थानानि यावदुत्कृष्टकं युक्तासङ्ख्येयकं न प्राप्नोति । उत्कृष्टकं युक्तासङ्ख्येयकं कियद् भवति ? जघन्यकेन युक्तास
येयकेनावलिका गुणिता अन्योन्याभ्यासो रूपोन उत्कृष्टकं युक्तासङ्ख्येयकं भवति, अथवा जघन्यकमसङ्ख्येयासङ्ख्येयकं रूपोनं उत्कृष्टकं युक्तासङ्ख्येयकं भवति । जघन्यकमसङ्ख्येयासङ्ख्येयकं कियद् भवति ? जघन्यकेन युक्तासङ्ख्येयकेनावलिका गुणिता अन्योन्याभ्यासः प्रतिपूर्णो जघन्यकमसङ्खयेयासङ्ख्येयकं भवति, अथवोत्कृष्टके युक्तासङ्ख्येयके रूपं प्रक्षिप्तं जघन्यकमसङ्ख्येयासङ्ख्येयकं भवति । ततः परमजघन्योत्कृष्टकानि स्थानानि यावदुत्कृष्टक
क०२७
For Private and Personal Use Only