________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
२०८ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा गुणने द्वितीयतृतीयचतुर्थपञ्चमपदवाच्यराशेरन्योऽन्याभ्यासे सति 'क्रमात्' क्रमेण "सगासंख" त्ति प्राकृतत्वात् 'सप्तमासङ्ख्यातम्' स्थापनापेक्षया
जघन्यसंख्यातकम् १ | मध्यमसंख्यातकम् २ । उत्कृष्टसंख्यातकम् ३ । परीत्तासं० जघ०१ परीत्तासं० मध्य० २ । परीत्तासं० उत्कृ०३ युक्तासं० जघन्यम् ४ । युक्तासं० मध्य० ५ युक्तासं० उत्कृ०६ असं. असं० जघ० ७ असं. असं० मध्य.८ असं. असं० उत्कृ. ९ परीत्तानन्तं जघ० १ | परीत्तानन्तं मध्य०२ | परीत्तानन्तं उत्कृ. ३ युक्तानन्तं० जघ. ४ | युक्तानन्तं मध्य० ५ युक्तानन्तं उत्कृ०६ अनन्तानन्तं जघ० ७ | अनन्तानन्तं मध्य० ८ अनन्तानन्तं उत्कृ०९।
जघन्यासङ्ख्यातासङ्ख्यातकम् । “पढमचउसत्त गंत" ति प्राकृतत्वात् प्रथमचतुर्थसप्तमान्यनन्तकानि । तत्र प्रथमानन्तकं-जघन्यपरीत्तानन्तकम् चतुर्थानन्तकम्-जघन्ययुक्तानन्तकम् सप्तमानन्तक-जघन्यानन्तानन्तकं भवतीति । इह जघन्यमध्यमोत्कृष्टभेदतोऽसद्धयेयकानन्तकयोः प्रत्येकं नवविधत्वात् प्रदर्शितभेदानां सप्तमप्रथमादिसङ्ख्यानं सङ्गच्छत एव । इदमत्रैदम्पर्यम्द्वितीये युक्तासङ्ख्यातकपदवाच्ये जघन्ययुक्तासङ्ख्यातकलक्षणे राशौ विवृते सति यावन्ति रूपाणि तावत्सु प्रत्येकं जघन्ययुक्तासङ्ख्यातकमाना राशयोऽभ्यसनीयाः, ततस्तेषां राशीनां परस्परताडने यो राशिर्भवति तत् सप्तमासङ्ख्येयकं मन्तव्यम् । तृतीये त्वसङ्ख्येयकासङ्ख्येयकपदवाच्ये जघन्यासङ्ख्येयकासङ्ख्येयकरूपे राशौ यावन्ति रूपाणि तावतामेव जघन्यासङ्ख्येयकासङ्ख्येयकराशीनामन्योऽन्यगुणने सति यो राशिः सम्पद्यते तत् प्रथमानन्तकं जघन्यपरीत्तानन्तकमवसेयम् । चतुर्थे तु परीत्तानन्तकपदवाच्ये जघन्यपरीत्तानन्तकरूपे राशौ यावन्ति रूपाणि तावत्सङ्ख्यानां जघन्यपरीत्तानन्तकराशीनां परस्परमभ्यासे यावान् राशिर्भवति तत् चतुर्थमनन्तकं जघन्ययुक्तानन्तकं भवति । पञ्चमे तु युक्तानन्तकपदवाच्ये जघन्ययुक्तानन्तकरूपे राशौ यावन्ति रूपाणि तत्प्रमाणानामेव जघन्ययुक्तानन्तकराशीनां परस्परगुणने यावान् राशिः सम्पद्यते तत् सप्तमानन्तकं जघन्यानन्तानन्तकं भवति । आह परीत्तासङ्ख्यातकयुक्तासङ्ख्यातकासङ्ख्यातासङ्ख्यातकपरीत्तानन्तकयुक्तानन्तकानन्तानन्तकलक्षणाः षडपि राशयो जघन्यास्तावन्निर्दिष्टाः, मध्यमा उत्कृष्टाश्चैते कथं मन्तव्याः ? इत्याह-"ते रूवजुया" इत्यादि । 'ते' अनन्तरोद्दिष्टा जघन्याः पडपि राशयो रूपेण-एककलक्षणेन युताः-समन्विता रूपयुताः सन्तः किं भवन्ति ? इत्याह---'मध्याः' मध्यमा अजघन्योत्कृष्टा इति यावत् । तत्र यः प्रामिर्दिष्टो जघन्यपरीत्तासङ्ख्यातकराशिः स एकस्मिन् रूपे प्रक्षिप्ते मध्यमो भवति, उपलक्षणं चैतत् , नैकरूपप्रक्षेप एव मध्यमभणनं किन्त्वेकैकरूपनिक्षेपेऽयं तावद मध्यमो मन्तव्यो यावद् उत्कृष्टपरीत्तासङ्ख्येयकराशिन भवतीति । एवमनया दिशा जघन्ययुक्तासङ्ख्यातकादयोऽपि राशय एकैकस्मिन् रूपे निक्षिप्ते मध्यमाः सम्पद्यन्ते, तदनु चैकैकरूपवृद्ध्या तावद् मध्यमा अवसेया यावत् खं खमुत्कृष्टपदं नासादयन्तीति । तद्देते षडपि किंखरूपाः सन्त उत्कृष्टा भवन्ति ? इत्याह-"रूवूण गुरु पच्छ” ति रूपेण-एककलक्षणेन ऊनाः-न्यूना रूपोनाः सन्तस्त एव प्रागभिहिता जघन्या राशयः, तेशब्द आवृत्त्येहापि सम्बन्धनीयः, किं भवन्ति ?
For Private and Personal Use Only