SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७७-७९] षडशीतिनामा चतुर्थः कर्मग्रन्थः । २०७ इत्युक्तं त्रिविधमपि सङ्ख्येयकम् । इदानीं नवविधमसङ्ख्येयकं नवविधमेव चानन्तकं निरुरूपयिषुर्गाथायुगमाह रूवजुयं तु परित्तासंखं लहु अस्स रासि अभासे । जुत्तासंखिज्जं लहु, आवलियासमयपरिमाणं ॥ ७८ ॥ पूर्वोक्तमेवोत्कृष्टं सङ्ख्येयकं 'रूपयुतं तु' रूपेण एकेन सर्षपेण पुनर्युक्तं सत् 'लघु' जघन्यं 'परी`त्तासङ्ख्यं' परीत्तासङ्ख्येयकं भवति । इदमत्र हृदयम् - - इह येनैकेन सर्षपरूपेण रहितोऽनन्तरोद्दिष्टो राशिरुत्कृष्टसङ्ख्यातकमुक्तं तत्र राशौ तस्यैव रूपस्य निक्षेपो यदा क्रियते तदा तदेवोत्कृष्टं सङ्ख्यातकं जघन्यं परीत्त सङ्ख्यातकं भवतीति । इह च जघन्यपरीत्ता सङ्ख्येयकेऽभिहिते यद्यपि तस्यैव मध्यमोत्कृष्टभेद प्ररूपणावसरस्तथापि परीत्तयुक्तनिजपद भेदत स्त्रिभेदानामप्यसङ्ख्येयकानां मध्यमो - त्कृष्टभेदौ पश्चादल्पवक्तव्यत्वात् प्ररूपयिष्येते, अतोऽधुना जघन्ययुक्तासङ्ख्यातकं तावदाह“अस्स रासि अब्भासे” इत्यादि अस्य राशेः - जवन्यपरीत्तासत्येयक गतराशेः 'अभ्यासे' परस्परगुने सति 'लघु' जघन्यं युक्तासयेयकं भवति । तच्च ' आवलिकासमयपरिमाणम्' आवलिका"असंखिज्जाणं समयाणं समुदयसमिइसमागमेणं" ( अनुयो० पत्र १७८-२ ) इत्यादिसिद्धान्तप्रसिद्ध। तस्याः समयाः– निर्विभागाः कालविभागास्तत्परिमाण मावलिकासमयपरिमाणम्, जघन्ययुक्तासङ्ख्येयक तुल्यसमयराशिप्रमाणा आवलिका इत्यर्थः । एतदुक्तं भवति - जघन्यपरीतासत्येयकसम्बन्धीनि यावन्ति सर्षपलक्षणानि रूपाणि तान्येकैकशः पृथक् पृथक् संस्थाप्य तत एकैकस्मिन् रूपे जघन्यपरीत्तासङ्ख्यातकप्रमाणो राशिर्व्यवस्थाप्यते, तेषां च राशीनां परस्परमभ्यासो विधीयते । इहैव भावना - -असत्कल्पनया किल जघन्यपरीता सत्येय कराशिस्थाने पञ्च रूपाणि कल्प्यन्ते, तानि वित्रियन्ते - जाताः पञ्चैककाः १११११, एककानामधः प्रत्येकं पञ्चैव वाराः पञ्च पञ्च व्यवस्थाप्यन्ते । तद्यथा - 2 । अत्र पञ्चभिः पञ्च गुणिता जाता पञ्चविंशतिः, साऽपि पञ्चभिराहता जातं पञ्चविंशं शतम् इत्यादिक्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि ३१३५ । एष कल्पनया तावदेतावन्मात्री राशिर्भवति, सद्भावतस्त्वसयरूपो जघन्ययुक्तासङ्ख्यातकतया मन्तव्य इति ॥ ७८ ॥ 999 निरूपितं जघन्ययुक्तासत्येयकम् । सम्प्रति शेषजघन्यासङ्ख्याता सङ्ख्यातकभेदस्य जघन्यपरीत्तानन्तकादिस्वरूपाणां त्रयाणां जघन्यानन्तकभेदानां च स्वरूपमतिदेशतः प्रतिपिपादयिषुराह-बितिचउपंचमगुणणे, कमा सगासंख पढमचउसत्त । ता ते रूवजुया, मज्झा रूवूण गुरु पच्छा ॥ ७९ ॥ इह “संखिज्जेगमसंखं” ( गा० ७१ ) इत्यादिगाथोपन्यस्तोत्कृष्टसङ्ख्यातकादिमौलसप्तपदापेक्षया सङ्ख्यातकाद्यभेदविकलानि यानि परीत्तासङ्ख्यातकादीनि षट् पदानि तानि परीत्तासङ्ख्यातकानन्तानन्तक भेदद्वयविकलानि द्वित्रिचतुः पञ्च सङ्ख्यात्वेन प्रोक्तानि । ततः 'द्वित्रिचतुः पञ्चम १ असंख्येयानां समयानां समुदयसमितिसमागमेन ॥ २ मौलसप्तपदानि त्वेतानि - उत्कृष्टसङ्ख्यातकम् १ परीत्तासख्यातकम् २ युक्तासङ्ख्यातकम् ३ असङ्ख्याता सङ्ख्यातकम् ४ परीत्तानन्तकम् ५ युक्तानन्तकम् ६ अनन्तानन्तकम् ७ ॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy