________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
देवेन्द्रसूरिविरचितखोपज्ञर्टीकोपेतः
[गाथा करेंतेण सलागापल्लो सलागाणं भरिओ, कमागतो अणवट्ठियओ वि । तओ सलागापल्लो सलागं न पडिच्छइ त्ति काउं सो चेव उक्खित्तो निट्ठियट्ठाणाओ परओ पुवक्कमेण पक्खित्तो निढिओ य, तओ पडिसलागापल्ले पढमा सलागा छूढा । तओ अणवढिओ उक्खित्तो निट्टियट्ठाणाओ परओ पुबक्कमेण पक्खित्तो निट्टिओ य, तओ सलागापल्ले सलागा पक्खित्ता । एवं अण्णेणं अण्णेणं अणवट्ठिएण आरिक्कनिकिरतेणं जाहे पुणो सलागापल्लो भरिओ अणवडिओ य, ताहे पुणो सलागापल्लो उक्खित्तो पक्खित्तो निटिओ य पुत्रक्कमेण, ताहे पडिसलागापल्ले बिइया पडिसलागा छूढा । एवं आइरणनिकिरणेण जाहे तिन्नि वि पडिसलागसलागअणवट्ठियपल्ला य भरिता ताहे पडिसलागापल्लो उक्खित्तो पक्खिप्पमाणो निट्टिओ य ताहे महासलागापल्ले पढमा महासलागा छूढा, ताहे सलागापल्लो उक्खित्तो पक्खिप्पमाणो निट्टिओ य ताहे पडिसलागापल्ले सलागा पक्खित्ता । ताहे अणवढिओ उक्खित्तो पक्खित्तो य ताहे सलागापल्ले सलागा पक्खित्ता । एवं आइरणनिकिरणकमेण ताव कायवं जाव परंपरेणं महासलाग पडिसलाग सलाग अणवट्ठियपल्लो य चउरो वि भरिया, ताहे उक्कोसमइच्छियं । इत्थ जावइया अणवट्ठियपल्लसलागापल्लपडिसलागापल्लेण य दीवसमुद्दा उद्धरिया, जे य चउपल्लट्ठिया सरिसवा एस सबो वि एतप्पमाणो रासी एगरूवूणो उक्कोसयं संखिज्जयं हवइ । जहण्णुक्कोसट्टाणमझे जे ठाणा ते सवे पत्तेयं अजहण्णमणुक्कोसया संखिज्जया भणियबा । सिद्धते य जत्थ जत्थ संखिज्जयगहणं कयं तत्थ तत्थ सवं अजहन्नमणुक्कोसयं दट्ठवं । एवं संखेजगे परूविए सीसो पुच्छइ–भगवं! किमेएणं अणवट्ठियपल्लसलागपडिसलागाईहि य दीवसमुदुद्धारगहणेण य उक्कोससंखिज्जपरूवणा किज्जइ ? गुरू भणइ-नत्थि अन्नो संखिज्जगस्स फुडयरो परूवणोवाओ त्ति (पत्र १११) ॥ ७७ ॥
भृतः, क्रमागतोऽनवस्थितोऽपि । ततः शलाकापल्यः शलाकां न प्रतीच्छति इति कृत्वा स एवोत्क्षिप्तो निष्ठितस्थानात् परतः पूर्वक्रमेण प्रक्षिप्तो निष्ठितश्च, ततः प्रतिशलाकापल्ये प्रथमा शलाका क्षिप्ता ततोऽनवस्थित उत्क्षिप्तो निष्ठितस्थानात् परतः पूर्वक्रमेण प्रक्षिप्तो निष्ठितश्च, ततः शलाकापल्ये शलाका प्रक्षिप्ता । एवमन्येनान्येन अनवस्थितेन आकिरणनिष्किरणेन यदा पुनः शलाकापल्यः भृतोऽनवस्थितश्च, तदा पुनः शलाकापल्य उत्क्षिप्त प्रक्षिप्तो निष्ठितश्च पूर्वक्रमेण, तदा प्रतिशलाकापल्ये द्वितीया प्रतिशलाका क्षिप्ता । एवं आकिरणनिष्किरणेन यदा त्रयोऽपि प्रतिशलाकाशलाकानवस्थितपल्याश्च भृताः तदा प्रतिशलाकापल्य उत्क्षिप्तः प्रक्षिप्यमाणो निष्ठितश्च तदा महाशलाकापल्ये प्रथमा महाशलाका क्षिप्ता, तदा शलाकापल्य उत्क्षिप्तः प्रक्षिप्यमाणो निष्ठितश्च तदा प्रतिशलाकापल्ये शलाका प्रक्षिप्ता । तदाऽनवस्थित उत्क्षिप्तः प्रक्षिप्तश्च तदा शलाकापल्ये शलाका प्रक्षिप्ता । एवं आकिरण निष्किरणक्रमेण तावत् कर्त्तव्यं यावत् परम्परया महाशलाका प्रतिशलाका शलाकाऽनवस्थितपल्यश्च चत्वारोऽपि भृताः तदोत्कृष्टं अतिक्रान्तम् । अत्र यावन्तोऽनवस्थितपल्यशलाकापल्यप्रतिशलाका. पल्यैश्च द्वीपसमुद्रा उद्धृताः, ये च चतुष्पल्यस्थिताः सर्षपा एष सर्वोऽपि एतत्प्रमाणो राशिरेकरूपोन उत्कृष्टकं सङ्ख्यातकं भवति । जघन्योकृष्टस्थानमध्ये यानि स्थानानि तानि सर्वाणि प्रत्येकं अजघन्यानुत्कृष्टानि सङ्ख्यातकानि भणितव्यानि। सिद्धान्ते च यत्र यत्र सङ्ख्ययग्रहणं कृतं तत्र तत्र सर्व अजघन्यमनुत्कृष्टं द्रष्टव्यम् । एवं सङ्ख्यातके प्ररूपिते शिष्यः पृच्छति-भगवन् ! किमेतेनानवस्थितपल्यशलाकाप्रतिशलाकादिभिश्च द्वीपसमुद्रोद्धारग्रहणेन चोत्कृष्टसङ्ख्यातकप्ररूपणा क्रियते ? गुरुर्भणति-नास्त्यन्यः सङ्ख्येयकस्य स्फुटतरः प्ररूपणोपाय इति ॥ १ एष समग्रोऽपि पाठः अनुयोगद्वारचूर्णौ ७९ तमे पत्रेऽप्यस्ति ।
For Private and Personal Use Only