________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७] षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
२०५ प्रथमम्-आद्यं यत् त्रिपल्यं-पल्यत्रयमनवस्थितशलाकाप्रतिशलाकाख्यं तेनोद्धृताः-एकैकसर्षपप्रक्षेपेण व्याप्ताः प्रथमत्रिपल्योद्धृताः, क एते ? इत्याह-द्वीपोदधयो न केवलं द्वीपोदधयः पल्यचतुष्कसर्पपाश्च, किं भवति ? इत्याह-'सर्वोऽपि' समस्तोऽपि 'एषः' अनन्तरोक्तः सर्षपव्याप्तद्वीपसमुद्रपल्यचतुष्कगतसर्षपलक्षणः 'राशिः' सङ्घातः 'रूपोनः' एकेन सर्षपरूपेण रहितः सन् ‘परमसङ्ख्येयम्' उत्कृष्टसङ्ख्यातकं भवतीति । तदेवं तावदिदमुत्कृष्टं सङ्ख्येयकम् । जघन्यं तु द्वौ, जघन्योत्कृष्टयोश्चान्तराले यानि सङ्ख्यास्थानानि तानि सर्वाणि मध्यमं सङ्ख्येयकमिति सामर्थ्यादुक्तं भवति । सिद्धान्ते च यत्र कचित् सङ्ख्यातग्रहणं करोति तत्र सर्वत्रापि मध्यम सङ्ख्येयकं द्रष्टव्यम् । यदुक्तमनुयोगद्वारचूर्णी
सिद्धते य जत्थ जत्थ संखिजगगहणं कतं तत्थ तत्थ सबं अजहन्नमणुक्कोसयं दट्ठवं (पत्र ८१) इति ।
इदं चोत्कृष्टं सङ्घयेयकमित्थमेव प्ररूपयितुं शक्यते, द्विकादिदशशतसहस्रलक्षकोट्यादिशीर्षप्रहेलिकान्तराशिभ्योऽतिबहुना समतिक्रान्तत्वेन प्रकारान्तरेणाख्यातुमशक्यत्वात् । यदाहुः प्रसिद्धसिद्धान्तसन्दोहविवरणप्रकरणकरणप्रमाण(ग्रन्थ)प्रथनावाप्तसुधांशुधामधवलयशःप्रसरधवलितसकलवसुन्धरावलयाः श्रीहरिभद्रसूरिपादा अनुयोगद्वारटीकायाम्
जंबूद्दीवप्पमाणमेत्ता चत्तारि पल्ला-पढमो अणवट्ठियपल्लो, बिइओ सलागापल्लो, तईओ पडिसलागापल्लो, चउत्थओ महासलागापल्लो । एए चउरो वि रयणप्पहपुढवीए पढमं रयणकंडं जोयणसहस्सावगाहं भित्तूण बिइए वयरकंडे पइट्ठिया । इमा ठवणा-UUUU। एए ठविया। एगो गणणं न उवेइ, दुप्पभिई संख त्ति काउं । तत्थ पढमे अणवट्ठियपल्ले दो सरिसवा पक्खित्ता एयं जहन्नगं संखिज्जगं । ततो एगुत्तरवुड्डीए तिन्नि चउरो पंच जाव सो पुन्नो अन्नं सरिसवं न पडिच्छइ त्ति ताहे असब्भावट्ठवणं पडुच्च वुच्चति-तं को वि देवो दाणवो वा उक्खित्तुं वामकरयले काउं ते सरिसवे जंबूद्दीवाइए एगं दीवे एगं समुद्दे पक्खिविज्जा जाव निट्ठिया, ताहे सलागापल्ले एगो सरिसवो छूढो । जत्थ निट्ठिओ तेण सह आरिल्लएहिं दीवसमुद्देहिं पुणो अन्नो पल्लो आइजइ, सो वि सरिसवाणं भरिओ, तओ परओ एक्केकं दीवसमुद्देसु पक्खिवंतेणं निहाविओ, तओ सलागापल्ले बिइया सलागा पक्खित्ता । एवं एएणं अणवट्ठियपल्लकरणकमेण सलायग्गहणं
१सिद्धान्ते च यत्र यत्र सङ्ख्यातकग्रहणं कृतं तत्र तत्र सर्वमजघन्यमनुत्कृष्टं द्रष्टव्यम् ॥ २ जम्बूद्वीपप्रमाणमात्राश्चत्वारः पल्याः-प्रथमोऽनवस्थितपल्यः, द्वितीयः शलाकापल्यः, तृतीयः प्रतिशलाकापल्यः, चतुर्थको महाशलाकापल्यः । एते चखारोऽपि रत्नप्रभापृथ्व्याः प्रथमं रत्नकाण्डं योजनसहस्रावगाहं भित्त्वा द्वितीयस्मिन् वज्रकाण्डे प्रतिष्ठिताः । एषा स्थापना 0000। एते स्थापिताः। एको गणनां नोपैति, द्विप्रभृति सङ्ख्येति कृला । तत्र प्रथमेऽनवस्थितपल्ये द्वौ सर्षपौ प्रक्षिप्तौ एतजघन्यक सङ्ख्यातकम् । तत एकोत्तरवृद्ध्या त्रयश्चत्वारः पञ्च यावत् स पूर्णोऽन्यं सर्षपं न प्रतीच्छति इति तदा असद्भावस्थापनां प्रतीत्योच्यते-तं कोऽपि देवो दानवो वोत्क्षिप्य वामकरतले कृत्वा तान् सर्षपान् जम्बूद्वीपादिके एक द्वीपे एकं समुद्रे प्रक्षिपेद्यावनिष्ठिताः, तदा शलाकापल्ये एकः सर्षपो क्षिप्तः। यत्र निष्ठितस्तेन सह आरातीयैीपसमुद्रैः पुनरन्यः पल्यः आदीयते, सोऽपि सर्षपैर्भूतः, ततः परत एकैकं द्वीपसमुद्रेषु प्रक्षिपता निष्ठापितः, ततः शलाकापल्ये द्वितीया शलाका प्रक्षिप्ता । एवमेतेनानवस्थितपल्यकरणक्रमेण शलाकाग्रहणं कुर्वता शलाकापल्यः शलाकाभि.
For Private and Personal Use Only