________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
१६३
ओ अनंतरं चणं सुहुमस्स पणगजीवस्स अपज्जत्तगस्स जहन्नजोगिस्स हिट्ठा असंखेज्ज - गुणपरिहीणं तचं कायजोगं निरुभइ || ( प्रज्ञा० समु० पद ३६ पत्र ६०७-२ )
तं च काययोगं निरुन्धानः सूक्ष्मक्रियमप्रतिपातिध्यानमधिरोहति । तत्सामर्थ्याच्च वदनोदरादिविवरपूरणेन सङ्कुचितदेहत्रिभागवर्तिप्रदेशो भवति । यदाह भाग्यसुधासुधांशुः - तत्तोय हुमपणगस्स पढमसमओववन्नस्स || (विशेषा० गा० ३०६२ ) जो किर जहन्नजोगो, तदसंखेज्जगुणहीणमिक्किक्के । समए निरंभमाणो, देहतिभागं च मुंचंतो ॥
भइ स कायजोगं, संखाईएहि चेव समए हिं ।
तो कयजोगनिरोहो, सेलेसी भावयामेई || (विशेषा० गा० ३०६३ - ३०६४ )
सीलं च समाहाणं, निच्छयओ सबसंवरो सो य । तस्सेसो सेलेसो, सेलेसी होइ तदवस्था || हसक्खराइ मज्झेण जेण कालेण पंच भण्णंति । अच्छइ सेलेसिगओ, तत्तियमित्तं तओ कालं ॥ तणुरोहारंभाओ, झायइ सुहुमकिरिया नियट्टिं सो । वच्छिन्नकिरियामप्पडिवाई सेलेसिकालम्मि ॥ (विशेषा ०गा० ३०६७ - ३०६९)
प्रज्ञापनायामप्युक्तम्
जोगैनिरोहं करित्ता अजोगयं पाउणइ, अजोगयं पाउणित्ता ईसिं हस्सपंचक्खरुच्चारणद्धाए असंखेज्जसमइयं अंतमुहुत्तियं सेलेसिं पडिवज्जइ, पुवरइयगुणसेढीयं च णं कम्मं तीसे सेलेसद्धाए असंखेज्जाहिं गुणसेढीहिं असंखेज्जे कम्मखंधे खवयंते वेदणिज्जाउयनामगोए इच्चेए चत्तारि कम्से जुगवं खवित्ता ओरालियतेयाकम्मगाईं सबाहिं विप्पजहणाहिं विप्पजहित्ता उज्जुसेढीए अफुसमा - णगईए एगसमएणं अविग्गहेणं उट्टं गंता सागारोवउत्ते सिज्झइ ॥ (समु० प० ३६ पत्र ६०७-२) भाष्यकारोऽप्याह
दसंखेज्जगुणाए, गुणसेढीइ रइयं पुरा कम्मं ।
१ ततोऽनन्तरं च सूक्ष्मस्य पनकजीवस्य अपर्याप्तकस्य जघन्ययोगिनोऽधस्तादसङ्ख्येयगुणपरिहीणं तृतीयं काययोगं निरुणद्धि ॥ २ ततश्च सूक्ष्मपनकस्य प्रथमसमयोपपन्नस्य ॥ यः किल जघन्ययोगः तदसङ्ख्येयगुणहीनमेकैकस्मिन् । समये निरुन्धन् देहत्रिभागं च मुञ्चन् ॥ रुणद्धि स काययोगं सङ्ख्यातीतैरेव समयैः । ततः कृतयोगनिरोधः शैलेशीभावतामेति ॥ शीलं च समाधानं निश्चयतः सर्वसंवरः स च । तस्येशः शैलेश: शैलेशी भवति तदवस्था ॥ हखाक्षराणि मध्येन येन कालेन पञ्च भण्यन्ते । आस्ते शैलेशीगतस्तावन्मात्रं ततः कालम् ॥ तनुरोधारम्भाद् ध्यायति सूक्ष्मक्रियाऽनिवृत्तिं सः । व्युच्छिन्नक्रियाऽप्रतिपातिनं शैलेशीकाले ॥ ३ योगनिरोधं कृत्वाऽयोगतां प्राप्नोति, अयोगतां प्राप्य ईषत् पञ्चहस्वाक्षरोच्चारणाद्धया असङ्ख्येयसामयिकी - मान्तमौहूर्तिकी शैलेशी प्रतिपद्यते, पूर्वरचितगुणश्रेणीकं च कर्म तस्यां शैलेश्यद्धायाम सङ्ख्येयाभिर्गुणश्रेणिभिरसङ्ख्येयान् कर्मस्कन्धान् क्षपयन् वेदनीयायुर्नामगोत्राणि इत्येतांश्चतुरः कर्माशान् युगपत् क्षपयिलौदारिकतैजसकार्मणानि सर्वैर्विप्रहानैर्विप्रजत्य ऋजुश्रेण्या स्पृशद्गत्या एकसमयेनाविग्रहेणोर्ध्वं गत्वा साकारोपयुक्तः सिध्यति ॥ ४ तदसङ्ख्यगुणया गुणश्रेण्या रचितं पुरा कर्म । समये समये क्षपयित्वा क्रमेण सर्वं तत्र कर्म ॥
For Private and Personal Use Only