________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा पञ्चप्पणं करिज्जा, जोगनिरोहं तओ कुणई ॥ किं न सजोगो सिज्झइ, स बंधहेउ त्ति जं खलु सजोगो ।
न समेइ परमसुकं, स निज्जराकारणं परमं ॥ (विशेषा० गा० ३०५६-३०५८) अन्यत्राप्युक्तम्
स ततो योगनिरोध, करोति लेश्यानिरोधमभिकाद्धन् । समयस्थितिं च बन्धं, योगनिमित्तं स निरुरुत्सुः ॥ समये समये कर्मादाने सति सन्ततेन मोक्षः स्यात् । यद्यपि हि विमुच्यन्ते, स्थितिक्षयात् पूर्वकर्माणि ॥ नाकर्मणो हि वीये, योगद्रव्येण भवति जीवस्य ।
तस्याऽवस्थानेन तु, सिद्धः समयस्थितिबन्धः ॥ योगनिरोधं च कुर्वाणः प्रथमं मनोयोगं निरुणद्धि, तत्र पर्याप्तमात्रसंज्ञिपञ्चेन्द्रियस्य प्रथमसमये यावन्ति मनोद्रव्याणि यावन्मानश्च तद्व्यापारस्तस्माद् असङ्ख्येयगुणहीनं मनोयोगं प्रतिसमयं निरुन्धानोऽसहयेयैः समयैः साकल्येन निरुणद्धि । यदाह भगवान् श्रीमदार्यश्यामः
से णं पुबामेव सन्निस्स पंचिंदियस्स पज्जत्तयस्स जहन्नजोगिस्स हिट्ठा असंखेजगुणपरिहीणं पढमं मणजोगं निरंभइ ॥ (प्रज्ञा० समु० पद ३६ पत्र ६०७-२)
भाष्यकारोऽप्याह---- पेजत्तमित्तसन्निस्स जत्तियाइं जहन्नजोगिस्स । हुंति मणोदवाइं, तत्वावारो य जम्मत्तो ।।
तदसंखगुणविहीणं, समए समए निरंभमाणो सो । मणसो सबनिरोहं, कुणइ असंखिज्जसमएहिं ॥
(विशेषा० गा० ३०५९-३०६०) तओ अणंतरं च णं बेइंदियस्स पज्जत्तगस्स जहन्नजोगिम्स हिट्ठा असंखिजगुणहीणं दुच्चं वइजोगं निरंभइ ॥ (प्रज्ञा० समु० पद ३६ पत्र ६०७-२)
भाष्यकृदप्याहपंजत्तमित्तबिंदियजहन्नवइजोगपज्जवा जे उ । तदसंखगुणविहीणं, समए समए निरंभंतो ॥
सबवइजोगरोहं, संखाईएहिँ कुणइ समएहिं । (विशेषा० गा०३०६१-३०६२)
प्रत्यर्पणं कुर्यात् योगनिरोधं ततः करोति ॥ किं न सयोगः सिध्यति स बन्धहेतुरिति यत् खलु सयोगः । न समेति परमशुक्लं स निर्जराकारणं परम् ॥
१ स पूर्वमेव संज्ञिनः पञ्चेन्द्रियस्य पर्याप्तकस्य जघन्ययोगिनोऽधस्तादसङ्ख्येयगुणपरिहीणं प्रथमं मनोयोगं निरुणद्धि ॥ २ पर्याप्तमात्रसंज्ञिनो यावन्ति जघन्ययोगिनः । भवन्ति मनोद्रव्याणि तद्व्यापारश्च यन्मात्रः ॥ तदसहयगुणविहीनं समये समये निरुन्धन् सः । मनसः सर्वनिरोधं करोत्यसङ्ख्येयसमयैः ॥ ३ ततोऽनन्तरं च द्वीन्द्रियस्य पर्याप्तकस्य जघन्ययोगिनोऽधस्तादसङ्ख्येयगुणहीनं द्वितीयं वचोयोगं निरुणद्धि ॥ ४ पर्याप्तमात्रद्वीन्द्रियजघन्यवचोयोगपर्यायाः ये तु । तदसङ्ख्यगुणविहीनं समये समये निरुन्धन् ॥ सर्ववचोयोगरोध सङ्ख्यातीतैः करोति समयैः॥
For Private and Personal Use Only