SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६४ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [ गाथा समए समए खेविउं, कमेण सवं तहिं कम्मं ॥ (विशेषा० गा० ३०८२) रिउसेढीपडिवन्नो, समयपएसंतरं अफुसमाणो । एगसमएण सिज्झइ, अह सागारोवउत्तो सो ॥ ( विशेषा० गा० ३०८८ ) अयं च समुद्घातविधिः सर्वोऽप्यावश्यकाभिप्रायेणोक्तः । तत्रेयं गाथा - दंड कवाडे मंयंतरे य संहरणया सरीरत्थे । भासाजोग निरोहे, सेलेसी सिज्झणा चेव || (आ० नि० गा० ९५५) इति ॥२९॥ अभिहिता मार्गणास्थानेषु योगाः । साम्प्रतमेतेष्वेव उपयोगस्वरूपनिरूपणपूर्वकमुपयोगानभिधित्सुराह Acharya Shri Kailassagarsuri Gyanmandir तिअनाण नाण पण चउ, दंसण बार जिय लक्खणुवओगा । विणु मणनाण दुकेबल, नव सुरतिरिनिरयअजए ॥ ३० ॥ ' त्रीण्यज्ञानानि ' मत्यज्ञानश्रुताज्ञानविभङ्गरूपाणि 'ज्ञानानि' मतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यवज्ञानकेवलज्ञानलक्षणानि पञ्च स्वोपज्ञकर्मविपाकटीकायां विस्तरेणाभिहितखरूपाणि 'चत्वारि दर्शनानि' चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शनरूपाणि इत्येवं द्वादशोपयोगाः प्राग्निरूपितशब्दार्था भवन्ति । किंविशिष्टाः ? इत्याह-- " जिय लक्खण" त्ति प्राकृतत्वाद् विभक्तिलोपः, 'जीवस्य' आत्मनः 'लक्षणं' लक्ष्यते- ज्ञायते तदन्यव्यवच्छेदेनेति लक्षणम् - असाधारणं स्वरूपम् । अत एवोक्तमन्यत्र - "उपयोगलक्षणो जीवः" इति । ते च द्विधा - साकारा अनाकाराश्च । तत्र पञ्च ज्ञानानि त्रीण्यज्ञानानि इत्यष्टावुपयोगाः साकाराः, चत्वारि दर्शनानि अना - कारा उपयोगाः । यदाह प्रवचनार्थसार्थसरससरसीरुहसमूहप्रकाशन सहस्रभानुर्भगवान् श्रीमदार्यश्यामः प्रज्ञापनायामुपयोगपदेऽष्टमे कँतिविहे णं भंते ! उवओगे पन्नत्ते ! गोयमा ! दुविहे उवओगे पन्नत्ते, तं जहासागारोवओगे य अणागारोवओगे य । सागारोवओगे णं भंते ! कतिविहे पन्नत्ते ! गोयमा ! अट्टविहे पन्नत्ते, तं जहा – आभिणिबोहियनाणसागारोवओगे सुयनाणसागारोवओगे ओहि - नाणसागारोवओगे मणपज्जवनाणसागारोवओगे केवलनाणसागारोवओगे मइ अन्नाणसागारोवओगे १ खवियं कमसो सेलेसिकालेणं । इति विशेषावश्यकभाष्ये ॥ २ ऋजुश्रेणिप्रतिपन्नः समयप्रदेशान्तरमस्पृशन् । एकसमयेन सिध्यति अथ साकारोपयुक्तः सः ॥ ३ दण्डः कपाटं मन्था अन्तराणि संहरणता शरीरस्थः । भाषायोगनिरोधः शैलेशी सिद्धिश्चैव ॥ अस्मत्पार्श्ववर्तिषु सर्वेष्वपि पुस्तकादर्शेषु जैनधर्मप्रसारक सभया मुद्रिते चादर्शे “उपयोगपदेऽष्टमे" इत्येवमेवोपलभ्यते परं प्रज्ञापनाया अष्टमपदं तु संज्ञापदमेव, उपयोगपदं तु एकोनत्रिंशत्तममेवेति ॥ ५ कतिविधो भदन्त ! उपयोगः प्रज्ञप्तः ? गौतम ! द्विविध उपयोगः प्रज्ञप्तः, तद्यथा— साकारोपयोगश्चानाकारोपयोगश्च । साकारोपयोगो भदन्त ! कतिविधः प्रज्ञप्तः ? गौतम ! अष्टविधः प्रज्ञप्तः, तद्यथा - आभिनिबोधिकज्ञान साकारोपयोगः १ श्रुतज्ञानसाकारोपयोगः २ अवधिज्ञानसाकारोपयोगः ३ मनः पर्यवज्ञानसाकारोपयोगः ४ केवलज्ञानसाकारोपयोगः ५ मत्यज्ञानसाकारोपयोगः ६ श्रुताज्ञानसाकारोपयोगः ७ विभङ्गज्ञान साकारोपयोगः ८ । अनाकारोपयोगो भदन्त ! कतिविधः प्रज्ञप्तः ? गौतम ! चतुर्विधः प्रज्ञप्तः, तद्यथा - चक्षुर्दर्शनानाकारोपयोगः १ अचक्षुर्दर्शनानाकारोपयोगः २ अवधिदर्शनानाकारोपयोगः ३ केवलदर्शनानाकारोपयोगः ४ ॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy