________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२ देवेन्द्रसूरिविरचितखोपज्ञटीकोपैतः
गाथा तित्थयरसमीवासेवगस्स पासे व न उण अन्नस्स ।
एएसिं जं चरणं, परिहारविसुद्धिगं तं तु ॥ (प्रवच० गा० ६१०) अथैते परिहारविशुद्धिकाः कस्मिन् क्षेत्रे काले वा भवन्ति !, उच्यते-इह क्षेत्रादिनिरूपणार्थ विंशतिद्वाराणि । तद्यथा-क्षेत्रद्वारं १ कालद्वारं २ चारित्रद्वारं ३ तीर्थद्वारं ४ पर्यायद्वारम् ५ आगमद्वारं ६ वेदद्वारं ७ कल्पद्वारं ८ लिङ्गद्वारं ९ लेश्याद्वारं १० ध्यानद्वारं ११ गणद्वारम् १२ अभिग्रहद्वारं १३ प्रव्रज्याद्वारं १४ मुण्डापनद्वारं १५ प्रायश्चित्तविधिद्वारं १६ कारणद्वार १७ निःप्रतिकर्मद्वार १८ भिक्षाद्वारं १९ बन्धद्वारम् २० । तत्र क्षेत्रे द्विधा मार्गणा-जन्मतः सद्भावतश्च । यत्र क्षेत्रे जातस्तत्र जन्मतो मार्गणा, यत्र च कल्पे स्थितो वर्तते तत्र सद्भावतः । उक्तं च
खित्ते दुहेह मग्गण, जम्मणओ चेव संतिभावे य ।
जम्मणओ जहिँ जाओ, संतीभावो य जहिं कैप्पो ॥ (पञ्चव० १४८५) तत्र जन्मतः सद्भावतश्च पञ्चसु भरतेषु पञ्चखैरवतेषु न तु महाविदेहेषु । न चैतेषां संहरणमस्ति येन जिनकल्पिका इव संहरणतः सर्वासु कर्मभूमिष्वकर्मभूमिषु वा प्राप्येरन् । उक्तं च
खेते भरहेरवएसु हुँति संहरणवज्जिया नियमा । (पञ्चव० गा० १५२९) ___ कालद्वारे--अवसर्पिण्यां तृतीये चतुर्थे वाऽरके जन्म, सद्भावः पञ्चमेऽपि, उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे वा जन्म, सद्भावः पुनस्तृतीये चतुर्थे वा । उक्तं च
ओसेप्पिणीऍ दोसुं, जम्मणओ तीसु संतिभावेणं ।
उस्सप्पिणि विवरीओ, जम्मणओ संतिभावेणं ॥ (पञ्चव० गा० १४८७) नोउत्सर्पिण्यवसर्पिणीरूपे चतुर्थारकप्रतिभागे काले न सम्भवन्ति, महाविदेहक्षेत्रे तेषामसम्भवात् । चारित्रद्वारे--संयमद्वारेण मार्गणा । तत्र सामायिकस्य च्छेदोपस्थापनस्य च चारित्रस्य यानि जघन्यानि संयमस्थानानि तानि परस्परं तुल्यानि, समानपरिणामत्वात् , ततोऽसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि संयमस्थानान्यतिक्रम्योर्ध्वं यानि संयमस्थानानि तानि परिहारविशुद्धियोग्यानि, तान्यपि च केवलिप्रज्ञया परिभाव्यमानान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि, तानि प्रथमद्वितीयचारित्राविरोधीनि तेष्वपि सम्भवात् । तत ऊर्ध्वं यानि सङ्ख्यातीतानि संयमस्थानानि तानि सूक्ष्मसम्पराययथारख्यातचारित्रयोग्यानि । उक्तं च---
तुल्ला जहन्नठाणा, संजमठाणाण पढमबिइयाणं । तत्तो असंखलोए, गंतुं परिहारियट्टाणा ॥ (पञ्चव० गा० १५३०)
१ तीर्थकरसमीपासेवकस्य पार्श्वे वा न पुनरम्यस्य । एतेषां यत् चरणं परिहारविशुद्धिकं तत्तु ॥ २ क्षेत्रे द्विधेह मार्गणा जन्मतश्चैव सद्भावतश्च । जन्मतो यत्र जातः सद्भावतश्च यत्र कल्पः ॥ ३ कप्पे क० ख० ग० घ० ० ॥ ४ क्षेत्रे भरतैरवतयोः भवन्ति संहरणवर्जिता नियमाद् ॥ ५ अवसर्पिण्या द्वयोर्जन्मतस्तिसृषु सद्भावेन । उत्सर्पिण्यां विपरीतं जन्मतः सद्भावतः ॥ ६ तिसु अ सं° पञ्चवस्तुके ॥ ७ तुल्यानि जघन्यस्थानानि संयमस्थानयोः प्रथमद्वितीययोः । ततोऽसङ्ख्यातलोकान् गला परिहारिकस्थानानि ॥ ८°णाई पक०ख०० घ० उ०॥
For Private and Personal Use Only