________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२] ___षडशीतिनामा चतुर्थः कर्मग्रन्थः। नान्यत्र । तच्च द्विधा-सातिचार निरतिचारं च। तत्राऽनतिचारमित्वरसामायिकस्य शैक्षकस्य यद् आरोप्यते, तीर्थान्तरं वा सङ्कामतः साधोः, यथा श्रीपार्श्वनाथतीर्थाद् वर्धमानखामितीर्थ सङ्क्रामतः पञ्चयामधर्मप्रतिपत्तौ । सातिचारं पुनर्यद मूलगुणघातिनः पुनव्रतोच्चारणम् । “परिहारे" त्ति 'परिहारविशुद्धिकं' परिहरणं परिहारस्तपोविशेषस्तेन विशुद्धिर्यसिंश्चारित्रे तत् परिहारविशुद्धिकम् , तच्च द्विधा-निर्विशमानकं निर्विष्टकायिकं च । तत्र निर्विशमानका विवक्षितचारित्रसेवकाः, निर्विष्टकायिका आसेवितविवक्षितचारित्रकायिकाः, तदव्यतिरेकात् चारित्रमप्येवमुच्यते।
इह नवको गणः, तत्रैको वाचनाचार्यश्चत्वारो निर्विशमानकाश्चत्वारश्चाऽनुचारिणः । निर्विशमानकानां चायं तपोविशेषः
परिहारियाण उ तवो, जहन्न मज्झो तहेव उक्कोसो । सीउण्हवासकाले, भणिओ धीरेहिँ पत्तेयं ॥ तस्थ जहन्नो गिम्हे, चउत्थ छटुं तु होइ मज्झिमओ। अट्ठममिह उक्कोसो, इत्तो सिसिरे पवक्खामि ॥ सिसिरे उ जहन्नाई, छट्ठाई दसमचरिमगो होइ । वासासु अट्ठमाई, बारसपज्जंतगो नेओ ॥ पारणगे आयामं, पंचसु गहों दोसऽभिग्गहो भिक्खे । कप्पट्ठिया वि पइदिण, करेंति एमेव आयामं ॥ एवं छम्मास तवं, चरिउं परिहारिया अणुचरंति । अणुचरगे परिहारियपैयट्टिए जाव छम्मासा ॥ कैप्पट्टिओ वि एवं, छम्मास तवं करेइ सेसा उ। अणुपरिहारिंगभावं, वयंति कप्पट्टियत्तं च ॥ एंवेसो अट्ठारसमासपमाणो उ वन्निओ कप्पो । संखेवओ विसेसो, विसेससुत्ताउ नायबो॥ कैप्पसमत्तीइ तयं, जिणकप्पं वा उविंति गच्छं वा । पडिवजमाणगा पुण, जिणस्सगासे पवजंति ॥ (प्रवच० गा०६०२-६०९)
१ परिहारिकाणां तु तपः जघन्यं मध्यमं तथैवोत्कृष्टम् । शीतोष्णवर्षाकाले भणितं धीरैः प्रत्येकम् ॥ तत्र अघन्यं प्रीष्मे चतुर्थ षष्ठं तु भवति मध्यमम् । अष्टममिह उत्कृष्टमितः शिशिरे प्रवक्ष्यामि ॥ शिशिरे तु जघन्यादि षष्ठादि दशमचरमकं भवति । वर्षासु अष्टमादि द्वादशपर्यन्तकं ज्ञेयम् ॥ पारणके आचाम्लं पञ्चसु ग्रहः द्वयोरभिप्रहो भिक्षे । कल्पस्थिता अपि प्रतिदिनं कुर्वन्ति एवमेवाचामाम्लम् ॥ एवं षण्मासान् तपश्चरिखा परिहारिका अनुचरन्ति । अनुचरकाः परिहारिकपदस्थिता यावत् षण्मासान् ॥ २ प्रवचनसारोद्धारे तु-परिट्टिए- परिस्थिताः इति ॥ ३ कल्पस्थितोऽप्येवं षण्मासांस्तपः करोति शेषास्तु । अनुपरिहारिकभावं व्रजन्ति कल्पस्थितलं च ॥ एवं एषोऽष्टादशमासप्रमाणस्तु वर्णितः कल्पः । संक्षेपतो विशेषो विशेषसूत्राद् ज्ञातव्यः ॥ ४ एवं सो अ° क० ग०॥ ५ कल्पसमाप्तौ तकं (परिहारिककल्पं) जिनकल्पं वोपयन्ति गच्छं था। प्रतिपद्यमानकाः पुनर्जिनसकाशे प्रपद्यन्ते ॥
For Private and Personal Use Only