________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
'ते' व असंखा लोगा, अविरुद्धा चेव पढमबीयाणं ।
उवरिं पितो असंखा, संजमठाणाउ दुण्हं पि ॥ ( पञ्चव० गा० १५३१)
तत्र परिहारविशुद्धि कल्पप्रतिपत्तिः स्वकीयेष्वेव संयमस्थानेषु वर्तमानस्य भवति न शेषेषु । यदा त्वतीतनयमधिकृत्य पूर्वप्रतिपन्नो विवक्ष्यते तदा शेषेष्वपि संयमस्थानेषु भवति, परिहारविशुद्धिककल्पसमाप्त्यनन्तरमन्येष्वपि च चारित्रेषु सम्भवात् तेष्वपि च वर्तमानस्याऽतीतनयमपेक्ष्य पूर्वप्रतिपन्नत्वात् । उक्तं च
सैट्ठाणे पडिवत्ती, अन्नेसु वि हुज्ज पुव्वपडिवन्नो ।
"
Acharya Shri Kailassagarsuri Gyanmandir
तेसु विवėतो सो, तीयनयं पप्प वुच्चइ उ || ( पञ्चव० गा० १५३२ ) तीर्थद्वारे - परिहारविशुद्धिको नियमतः तीर्थे प्रवर्तमान एव सति भवति, न तूच्छेदेऽनुपत्त्यां वा तदभावे जातिस्मरणादिना । उक्तं च
अप्पुव्वं नाहिज्जइ, आगममेसो पहुच तं कप्पं । जमुचियपंगहियजोगाराहणओ चेव कयकिच्चो ॥
१३३
* तित्थि त्ति नियमओ च्चिय, होइ स तित्थम्मि न उण तदभावे । forest वा, जाईसरणाइएहिं तु || ( पञ्चव० गा० १४९२ ) पर्यायद्वारे – पर्यायो द्विधा — गृहस्थपर्यायो यतिपर्यायश्च । एकैकोऽपि द्विधा - जघन्य उत्कृष्टश्च । तत्र गृहस्थपर्यायो जघन्य एकोनत्रिंशद्वर्षाणि, यतिपर्यायो विंशतिः, द्वावपि चोकष्टतो देशोनपूर्वकोटीप्रमाणौ । उक्तं च
यस एस नेओ, गिहिपरियाओ जहन्निगुणतीसा ।
जइपरियाओ वीसा, दोसु वि उक्कोस देसूणा || ( पञ्चव० गा० १४९४ ) आगमद्वारे --- अपूर्वागमं स नाधीते, यस्मात् तं कल्पमधिकृत्य प्रगृहीतोचितयोगाराधनत एव स कृतकृत्यतां भजते, पूर्वाधीतं तु विश्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः सम्यक् प्रायोsनुस्मरति । उक्तं च
For Private and Personal Use Only
वायं तु तयं, पायं अणुसरइ निच्चमेवेसो ।
एगग्गमणो सम्मं, विस्सोयसिगाइखयहेऊ | ( पञ्चव० गा० १४९५-९६ ) daar ----- प्रवृत्तिका वेदः पुरुषवेदो वा नपुंसकवेदो वा भवेत्, न स्त्रीवेदः, स्त्रियाः परिहारविशुद्धिककल्पप्रतिपत्त्यसम्भवात् । अतीतनयमधिकृत्य पुनः पूर्वप्रतिपन्नश्चिन्त्यमानः सवेदो
१ तान्यपि असङ्ख्यानि लोकानि अविरुद्धान्येव प्रथमद्वितीययोः । उपर्यपि ततोऽसङ्ख्यातानि संयमस्थानानि द्वयोरपि ॥ २ ताण व असंखलो पञ्चवस्तुके ॥ ३ स्वस्थाने प्रतिपत्तिरन्येष्वपि भवेत् पूर्वप्रतिपन्नः । तेष्वपि वर्त्तमानः सोऽतीतनयं प्राप्य उच्यते तु ॥ ४ तीर्थे इति नियमत एव भवति स तीर्थे न पुनस्तदभावे । विगतेऽनुत्पन्ने वा जातिस्मरणादिकैस्तु ॥ ५ एतस्यैष ज्ञेयो गृहिपर्यायो जघन्यत एकोनत्रिंशत् ( वर्षाणि ) । यतिपर्यायो विंशतिर्द्वयोरपि उत्कृष्टो देशोना ( पूर्व कोटी ) ॥ ६ अपूर्वं नाधीते आगम मेष प्रतीत्य तं कल्पम् । यदुचितप्रगृहीतयोगाराधनत एव कृतकृत्यः ॥ ७ जम्मं पञ्चवस्तुके ॥ ८ गिजो पञ्चवस्तुके ॥ ९ पूर्वाधीतं तु तत् ( श्रुतम् ) प्रायोऽनुस्मरति नित्यमेवैषः । एकाग्रमनाः सम्यग् विश्रोत - सिकादिक्षयहेतुम् ॥