________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
१२३ वस्थानकेषु पर्याप्ताऽपर्याप्तसूक्ष्मबादरैकेन्द्रिय द्वीन्द्रियपत्रीन्द्रिया ८ऽपर्याप्तचतुरिन्द्रिया९ऽसंज्ञिपञ्चेन्द्रिय१०लक्षणेषु पूर्वोक्ताश्चत्वार उपयोगाश्चक्षुर्दर्शनं विना भवन्ति । अयमर्थः-पूर्वोक्तदशजीवस्थानकेषु चक्षुर्दर्शनवर्जा अचक्षुर्दर्शनमत्यज्ञानश्रुताज्ञानलक्षणास्त्रय उपयोगा भवन्ति ।
ननु स्पर्शनेन्द्रियावरणक्षयोपशमसम्भवाद भवतु मतिरेकेन्द्रियाणाम् , यत्तु श्रुतं तत् कथं जाघटीति ! भाषालब्धिश्रोत्रेन्द्रियलब्धिमतो हि तद् उपपद्यते नान्यस्य । तदुक्तम्
भावसुयं भासासोयलद्धिणो जुज्जए न इयरस्स । भासाभिमुहस्स सुयं, सोऊण व जं हविजाहि ॥
(विशेषा० गा० १०२) इति । उच्यते-इह तावदेकेन्द्रियाणामाहारादिसंज्ञा विद्यन्ते तथा सूत्रेऽभिधानात् , संज्ञा चाभिलाष उच्यते । यदवादि परोपकारभूरिभिः श्रीहरिभद्रसूरिभिर्मूलावश्यकटीकायाम्आहारसंज्ञा आहाराभिलाषः क्षुद्वेदनीयोदयप्रभवः खल्वात्मपरिणामविशेषः (पत्र ५८०) इति ।
अभिलाषश्च ममैवरूपं वस्तु पुष्टिकारि तद् यदीदमवाप्यते ततः समीचीनं भवतीत्येवं शब्दाथोल्लेखानुविद्धः खपुष्टिनिमित्तभूतप्रतिनियतवस्तुप्राप्त्यध्यवसायरूपः; स च श्रुतमेव, शब्दार्थालोचनानुसारित्वात् , श्रुतस्यैवैतल्लक्षणत्वात् । यदवादिषुर्दलितप्रवादिकुवादाः श्रीजिनभद्रगणिक्षमाश्रमणपादाः
'इंदियमणोनिमित्तं, जं विन्नाणं सुयाणुसारेणं ।
निययत्थुत्तिसमत्थं, तं भावसुयं मई सेसं ॥ (विशेषा० गा० १००) "सुयाणुसारेणं" ति शब्दार्थालोचनानुसारेण । केवलमेकेन्द्रियाणामव्यक्त एव कश्चनाप्यनिर्वचनीयः शब्दार्थोल्लेखो द्रष्टव्यः, अन्यथाऽऽहारादिसंज्ञाऽनुपपत्तेः । यदप्युक्तम्-भाषालब्धिश्रोत्रेन्द्रियलब्धिविकलत्वाद एकेन्द्रियाणां श्रुतमनुपपन्नमिति, तदप्यसमीक्षिताभिधानम् , तथाहि-बकुलादेः स्पर्शनेन्द्रियातिरिक्तद्रव्येन्द्रियलब्धिविकलत्वेऽपि किमपि सूक्ष्मं भावेन्द्रियपञ्चकविज्ञानमभ्युपगम्यते "पंचिंदिओ व बउलो नरु व सबविसओवलंभाओ" इत्यादिवचनप्रामाण्यात् । तथा भाषाश्रोत्रेन्द्रियलब्धिविकलत्वेऽपि तेषां किमपि सूक्ष्मं श्रुतमपि भविष्यति, अन्यथाऽऽहारादिसंज्ञाऽनुपपत्तेः । यदाह प्रशस्यभाष्यसस्यकाश्यपीकल्पः श्रीजिनभद्रगणिक्षमाश्रमण:
जह सुहमं भाविंदियनाणं दबिंदियाण विरहे वि।।
दवसुयाभावम्मि वि, भावसुयं पत्थिवाईणं ॥ (विशेषा० गा० १०३) इति । संज्ञी चासौ अपर्याप्तश्च संश्यपर्याप्तः तस्मिन् संश्यपर्याप्ते मनःपर्यवज्ञानचक्षुर्दर्शनकेवलज्ञान
१ भावश्रुतं भाषाश्रोत्रलब्धिकस्य युज्यते नेतरस्य । भाषाभिमुखस्य श्रुतं श्रुखा वा यद् भवेत् । २ इन्द्रियमनोनिमित्तं यद् विज्ञानं श्रुतानुसारेण । निजकार्थोक्तिसमर्थ तद् भावश्रुतं मतिः शेषम् ॥ ३ पञ्चेन्द्रिय इव बकुलो नर इव सर्व विषयोपलम्भात् ॥ ४ यथा सूक्ष्मं भावेन्द्रियज्ञानं द्रव्येन्द्रियाणां विरहेऽपि । द्रव्य. श्रुताभावेऽपि भावश्रुतं पृथिव्यादीनाम् ॥ ५ °यावरोहे वि । तह दव्वसुयाभावे भा' इति विशेषा. वश्यकभाष्ये ॥
For Private and Personal Use Only