________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा औदारिकप्रयोक्ता, प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्का, सप्तमषष्ठद्वितीयेषु ॥ कार्मणशरीस्योगी, चतुर्थक पञ्चमे तृतीये च ।
__(प्रश. का. २७६-७७ ) इति ।। 'पर्याप्ते' सूक्ष्मे सूक्ष्मैकेन्द्रिये औदारिककाययोगो भवति । पर्याप्तशब्दश्च "सवे सन्निपजत्ते" इति पदाद् डमरुकमणिन्यायेन सर्वत्र योज्यः । “चउसु” त्ति चतुर्पु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियेषु पर्याप्तेषु तदेवौदारिकं भवति । किं केवलम् ! न इत्याह—'सभाष' सह माषया असत्यामृषास्वरूपया “विगलेसु असच्चमोसा" इति वचनाद् वर्तत इति सभाषम् । कोऽर्थः ? विकलत्रिकासंज्ञिपञ्चेन्द्रियेषु पर्याप्तेषु औदारिककाययोगाऽसत्यामृषाभाषालक्षणौ द्वौ योगावित्यर्थः । तद् इत्यनुवर्तते, तद् औदारिक सह वैक्रियद्विकेन-वैक्रियवैक्रियमिश्रलक्षणेन वर्तत इति सवैक्रियद्विकं बादरैकेन्द्रियपर्याप्ते भवति । अयमर्थः-बादरैकेन्द्रिये पर्याप्ते
औदारिककाययोगवैक्रियकाययोगवैक्रियमिश्रकाययोगलक्षगास्त्रयो योगा भवन्ति । तत्र औदारिककाययोगः पृथिव्यम्बुतेजोवनस्पतीनाम् , वैक्रियद्विकं तु वायुकायस्येति ॥
प्ररूपिता जीवस्थानेषु योगाः । साम्प्रतमुपयोगाः प्ररूपणावसरप्राप्ताः, ते च द्वादश । तद्यथा-मतिज्ञान १ श्रुतज्ञान २ अवधिज्ञान ३ मनःपर्यवज्ञान ४ केवलज्ञान ५ लक्षणानि पञ्च ज्ञानानि, मत्यज्ञान १ श्रुताज्ञान २ विभङ्ग ३ रूपाणि त्रीण्यज्ञानानि, चक्षुर्दर्शना१ऽच. क्षुर्दर्शना२ऽवधिदर्शन३ केवलदर्शन४रूपाणि चत्वारि दर्शनानि इत्येतानुपयोगान् जीवस्थानकेषु दिदर्शयिषुराह-"पजसन्निसु बार उवओग" ति पजशब्देन पर्याप्त उच्यते, ततः पर्याप्ताश्च ते संज्ञिनश्च पर्याप्तसंज्ञिनः, तेषु पर्याप्तसंज्ञिषु 'द्वादश' द्वादशसङ्ख्या उपयोगा भवन्ति । ते च क्रमेणैव न तु युगपत् , उपयोगानां तथाजीवस्वभावतो योगपद्यासम्भवात् । उक्तं च"समए दो णुवओगा" इति । श्रीभद्रबाहुस्वामिपादा अप्याहुः
नाणम्मि दंसणम्मि य, एत्तो एगयरयम्मि उवउत्ता। सबस्स केवलिस्सा, जुगवं दो नत्थि उवओगा ॥
(आ. नि. गा. ९७९) इति ॥ ५ ॥ पजचउरिंदिअसन्निसु, दुदंस दुअनाण दससु चक्खु विणा।
सन्निअपजे मणनाणचक्खुकेवलदुगवितणा॥६॥ चतुरिन्द्रियाश्च असंज्ञिनश्च चतुरिन्द्रियासंज्ञिनः, पर्याप्ताश्च ते चतुरिन्द्रियासंज्ञिनश्च तेषु पर्याप्तचतुरिन्द्रियासंज्ञिषु चत्वार उपयोगा भवन्ति । के ? इत्याह-"दुदंस दुअनाण" त्ति दर्शः-दर्शनम् , द्वयोर्दर्शयोः समाहारो द्विदर्श-चक्षुर्दर्शनाऽचक्षुर्दर्शनलक्षणम् ; द्वयोरज्ञानयोः समाहारो व्यज्ञानं-मत्यज्ञानश्रुताज्ञानरूपम् । अयमर्थः-पर्याप्तचतुरिन्द्रियेषु पर्याप्तासंज्ञिपञ्चेन्द्रियेषु च मत्यज्ञानश्रुताज्ञानचक्षुर्दर्शनाऽचक्षुर्दर्शनलक्षणाश्चत्वार उपयोगा भवन्ति । दशसु जी
१ विकलेषु असत्यामृषा इति ॥ २ समये द्वौ नोपयोगौ ॥ ३ ज्ञाने दर्शने चानयोरेकतरस्मिन्नुपयुक्ताः । सर्वस्य केवलिनो युगपद् द्वौ न त उपयोगौ ॥
For Private and Personal Use Only