________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा केवलदर्शनलक्षणकेवलद्विकविहीनाः शेषा मतिज्ञानश्रुतज्ञानावधिज्ञानमत्यज्ञानश्रुताज्ञानविभङ्गज्ञानाचक्षुर्दर्शनावधिदर्शनरूपा अष्टावुपयोगा भवन्ति ॥ ६॥ उक्ता जीवस्थानेषु उपयोगाः । साम्प्रतं जीवस्थानेष्वेव लेश्याः प्रतिपिपादयिषुराह
सन्निदुगि छ लेस अपजबायरे पढम चउ ति सेसेसु।
सत्तहबंधुदीरण, संतुदया अट्ट तेरससु॥७॥ संज्ञिनो द्विकम्-अपर्याप्तपर्याप्तलक्षणं संज्ञिद्विकं तस्मिन् , संज्ञिन्यपर्याप्ते संज्ञिनि पर्याप्ते चेत्यर्थः, षड् लेश्याः-कृष्णनीलकापोततेजःपद्मशुक्ललक्षणा भवन्ति । अपर्याप्तबादरे प्रथमाश्चतस्रः-कृष्णनीलकापोततेजोरूपा भवन्ति ।। तेजोलेश्या कथमसिन्नवाप्यते ? इति चेद् उच्यते—यदा
पुढेवीआउवणस्सइगब्भेपज्जत्तसंखजीवीसु ।
सग्गचुआणं वासो, सेसा पडिसेहिया ठाणा ॥ (बृ० सं० गा० १८०) इति वचनात् कश्चनापि देवः खर्गलोकात् च्युतः सन् बादरैकेन्द्रियतया भूदकतरुषु मध्ये समु. त्पद्यते तदा तस्य घण्टालालान्यायेन सा प्राप्यत इत्यदोषः । __ “ति सेसेसु" त्ति प्रथमा इत्यनुवर्तते, प्रथमास्तिस्रः-कृष्णनीलकापोतलक्षणाः ‘शेषेषु' प्रागुतापर्याप्तपर्याप्तसंज्ञिपञ्चेन्द्रियापर्याप्तबादरैकेन्द्रियवर्जितेषु अपर्याप्तपर्याप्तसूक्ष्मैकेन्द्रियरद्वीन्द्रिय२त्रीन्द्रियर चतुरिन्द्रिया२ऽसंज्ञिपञ्चेन्द्रियर पर्याप्तवादरैकेन्द्रिय १ लक्षणेष्वेकादशसु जीवस्थानेषु भवन्ति ता नान्याः, तेषां सदैवाऽशुभपरिणामत्वात् , शुभपरिणामरूपाश्च तेजोलेश्यादयः ॥
तदेवं जीवस्थानकेषु लेश्या अभिधाय साम्प्रतमेतेष्वेव बन्धोदयोदीरणासत्ताख्यस्थानचतुष्टयमभिधित्सुराह-"सत्तट्ठ बंधु" इत्यादि । सप्त वा अष्टौ वा सप्ताष्टाः, “सुज्वार्थे सङ्ख्या सहयेये सङ्ख्यया बहुव्रीहिः” (सि. ३-१-१९) इति सूत्रेण बहुव्रीहिसमासः, यथा द्वित्रा इत्यादौ । बन्धश्च उदीरणा च बन्धोदीरणे सप्ताष्टानां बन्धोदीरणे सप्ताष्टबन्धोदीरणे त्रयोदशसु जीवस्थानेषु संज्ञिपर्याप्तवर्जितेषु शेषेषु भवतः । एतदुक्तं भवति-अपर्याप्तसूक्ष्मैकेन्द्रिय१पर्यातसूक्ष्मैकेन्द्रियारऽपर्याप्तबादरैकेन्द्रिय३पर्याप्तबादरैकेन्द्रिया ४ऽपर्याप्तद्वीन्द्रिय५पर्याप्तद्वीन्द्रिया६ऽपर्याप्तत्रीन्द्रिय ७ पर्याप्तत्रीन्द्रिया८ऽपर्याप्तचतुरिन्द्रिय ९ पर्याप्तचतुरिन्द्रिया १०ऽपर्याप्तासंज्ञिपञ्चेन्द्रिय११पर्याप्तासंज्ञिपञ्चेन्द्रिया१२ऽपर्याप्तसंज्ञिपञ्चेन्द्रिय १३रूपेषु त्रयोदशसु जीवस्थानेषु सप्तानामष्टानां वा बन्धः, सप्तानामष्टानां वा उदीरणा। तथाहि-यदाऽनुभूयमानभवायुषस्त्रिभागनवभागादिरूपे शेषे सति परभवायुर्बध्यते तदाऽष्टानामपि कर्मणां बन्धः, शेषकालं त्वायुषो बन्धाभावात् सप्तानामेव बन्धः । तथा यदाऽनुभूयमानभवायुरुदयावलिकावशेषं भवति तदा सप्तानामुदीरणा, अनुभूयमानभवायुषोऽनुदीरणात् , आवलिकाशेषस्योदीरणाऽनर्हत्वात् । उदीरणा हि उदयावलिकाबहिर्वर्तिनीभ्यः स्थितिभ्यः सकाशात् कषायसहितेन कषायासहितेन वा योगकरणेन दलिकमाकृष्य उदयसमयप्राप्तदलिकेन सहाऽनुभवनम् ।
तथा चोक्तं कर्मप्रकृतिचूर्णी१ पृथ्व्यवनस्पतिगर्भपर्याप्तसङ्ख्यातवर्षजीविषु । वर्गच्युतानां वासः शेषाणि प्रतिषिद्धानि स्थानानि ॥
For Private and Personal Use Only