SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडशीतिनामा चतुर्थः कर्मग्रन्थः । ११३ व्यापार्यत इत्युपयोगः, कर्मणि घञ् , यदि वा उपयुज्यते वस्तुपरिच्छेदं प्रति जीवोऽनेनेत्युपयोगः, "पुंनाम्नि घः' (सि० ५-३-१३०) इति करणे घप्रत्ययः, सर्वत्र जीवस्वतत्त्वभूतोऽवबोध एवोपयोगो मन्तव्यः ४। “योग" ति योजनं योगः-जीवस्य वीर्य परिस्पन्द इति यावत् , यदि वा युज्यते-धावनवल्गनादिक्रियासु व्यापार्यत इति योगः, कर्मणि घञ्, यद्वा युज्यते-सम्बध्यते धावनवल्गनादिक्रियासु जीवोऽनेनेति "पुंनाम्नि" (सि० ५-३-१३०) इति करणे घप्रत्ययः, स च मनोवाकायलक्षणसहकारिकारणभेदात् त्रिविधो वक्ष्यमाणख. रूपः ५। "लेसाउ" ति लिश्यते-श्लिष्यते कर्मणा सहात्माऽनयेति लेश्या, कृष्णादिद्रव्यसाचिव्यादात्मनः शुभाशुभपरिणामविशेषः । यदुक्तम् __ कृष्णादिद्रध्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्तते ॥ इति । सा च पोढा-कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या । आसां च खरूपं जम्बूफलखादकषट्पुरुषीदृष्टान्तेन ग्रामघातनप्रचलितचौरषट्कदृष्टान्तेन वा, एवमवसेयम् जह जंबुपायवेगो, सुपक्कफलभरियनमियसाहग्गो । दिह्रो छहिँ पुरिसेहिं, ते बिंती जंबु भक्खेमो ॥ किह पुण ते ? बितेगो, आरुहणे हुज जीयसंदेहो । तो छिंदिऊण मूलाउ पाडिउं ताई भक्खेमो ॥ बीयाऽऽह इद्दहेणं, किं छिन्नेण तरुणा उ अम्हं ! ति । साहा महल छिंदह, तइओ बेई पसाहा उ ॥ गुच्छे चउत्थओ पुण, पंचमओ बेइ गिण्हह फलाई । छट्टो उ बेइ पडिया, एए च्चिय खायहा चित्तुं ॥ दितस्सोवणओ, जो बेइ' तरुं तु छिंद मूलाओ। सो वट्टइ किण्हाए, साह महल्लाउ नीलाए ॥ हवइ पसाहा काऊ, गुच्छा तेऊ फलाइँ पम्हाए । पडियाइँ सुक्कलेसा, अहवा. अन्नं इमाऽऽहरणं ॥ चोरा गामवहत्थं, विणिग्गया एगु बेइ घाएह । . १ यथा जम्बूपादप एकः सुपक्कफलभरितनतशाखाप्रः । दृष्टः षड्भिः पुरुषस्ते ब्रुवते जम्बूः भक्षयामः॥ कयं पुनस्ताः [भक्षयामः ] ? ब्रवीत्येकः आरोहणे भवेद् जीवसन्देहः । ततश्छित्त्वा मूलतः पातयित्वा ताः भक्षयामः॥ द्वितीय आह एतावता किं छिन्नेन तरुणा तु अस्माकम् ? इति । शाखा महतीश्छिन्त तृतीयो ब्रवीति प्रशाखास्तु ॥ गुच्छांश्चतुर्थकः पुनः पञ्चमो ब्रवीति गृहीत फलानि । षष्ठस्तु ब्रवीति पतिताः एताः एव खादत गृहीला ॥ दृष्टान्तस्योपनयो यो ब्रवीति तरं तु छिन्त मूलतः । स वर्तते कृष्णायां शाखा महतीनीलायाम् ॥ भवति प्रशाखाः कापोती गुच्छांस्तैजसी फलानि पद्मा। पतितानि शुक्ललेश्या अथवाऽन्यदिदमाहरणम् ॥ चौरा प्रामवधार्थ विनिर्गता एको ब्रवीति घातयत । क. १५ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy