SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अर्हम् ॥ पूज्यश्रीदेवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः षडशीतिनामा चतुर्थः कर्मग्रन्थः । ॥ ॐ नमः प्रवचनाय ॥ यद्भाषितार्थलवमाप्य दुरापमाशु, श्रीगौतमप्रभृतयः शमिनामधीशाः । सूक्ष्मार्थसार्थपरमार्थविदो बभूवुः, श्रीवर्धमानविभुरस्तु स वः शिवाय ॥ १ ॥ निजधर्माचार्येभ्यो, नत्वा निष्कारणैकबन्धुभ्यः । श्रीषडशीतिकशास्त्र, विवृणोमि यथागमं किञ्चित् ।। २॥ तत्राऽऽदावेवाऽभीष्टदेवतास्तुत्यादिप्रतिपादिकामिमां गाथामाह नमिय जिणं जियमग्गणगुणठाणुवओगजोगलेसाओ। पंधप्पबहूभावे, संखिज्जाई किमवि वुच्छं ॥१॥ जिनं नत्वा जीवस्थानादि वक्ष्य इति सम्बन्धः । तत्र 'नत्वा' नमस्कृत्य, नमस्कारो हि चतुर्धा-द्रव्यतो नामैको न भावतो यथा पालकादीनाम् १, भावतो नामैको न द्रव्यतो यथाऽनुत्तरोपपातिसुरादीनाम् २, एको द्रव्यतोऽपि भावतोऽपि यथा शम्बकुमारप्रभृतीनाम् ३, एको न द्रव्यतो नापि भावतो यथा कपिलादीनाम् ४ । ततो द्रव्यभावरूपेण भावनमस्कारेण नमस्कृत्य । कम् ! इत्याह-'जिन' रागद्वेषमोहादिदुर्वारवैरिवारजेतारं वीतरागम् , परमाईन्त्यमहिमालतं तीर्थकरमित्यर्थः । अनेन परमाभीष्टदेवतानमस्कारेण ऐकान्तिकमात्यन्तिकभावमङ्गलमाह, तेन च शास्त्रस्याऽऽपरिसमाप्तेर्निष्पत्यूहता भवतीति । क्त्वाप्रत्ययस्य चोचरक्रियासापेक्षत्वाद् उत्तरक्रियामाह-जीवमार्गणागुणस्थानादि वक्ष्ये । इह स्थानशब्दस्य प्रत्येक योगाद् जीवस्थानानि, मार्गणास्थानानि, गुणस्थानानि । तत्र जीवन्ति यथायोग्यं प्राणान् धारयन्तीति जीवाः प्राणिनः शरीरभृत इति पर्यायाः, तेषां जीवानां स्थानानि-सूक्ष्मापर्याप्तैकेन्द्रियत्वादयोऽवान्तरविशेषाः, तिष्ठन्ति जीवा एषु इति कृत्वा जीवस्थानानि १४ मार्गणंजीवादीनां पदार्थानामन्वेषणं मार्गणा, तस्याः स्थानानि-आश्रया मार्गणास्थानानि वक्ष्यमाणानि गत्यादीनि २। गुणाः-ज्ञानदर्शनचारित्ररूपा जीवखभावविशेषाः, स्थान-पुनरेतेषां शुध्धशुद्धिप्रकर्षापकर्षकृतः स्वरूपभेदः, तिष्ठन्ति गुणा अस्मिन्निति कृत्वा, गुणानां स्थानानि गुणस्थानानि-परमपदप्रासादशिखरारोहणसोपानकल्पानि खोपज्ञकर्मस्तवटीकायां सविस्तरमभिहितानि इहैव वा किश्चिद्वक्ष्यमाणानि मिथ्यादृष्टिप्रभृतीनि चतुर्दश ३। “उवओग' ति उपयोजनमुपयोगः-बोधरूपो जीवव्यापारः, भावे घञ्, यद्वा उपयुज्यते-वस्तुपरिच्छेदं प्रति For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy