________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बस
२२-२४] बन्धखामित्वाख्यस्तृतीयः कर्मग्रन्थः । ष्टकं मुक्त्वा शेषस्य द्वादशोत्तरशतस्याऽनाहारके सामान्येन बन्धः । तथा जिननाम सुरद्विकं वैक्रियद्विकं च द्वादशोत्तरशतमध्याद् मुक्त्वा शेषस्य सप्तोत्तरशतस्यानाहारके मिथ्यादृष्टौ बन्धः। तथा सूक्ष्मादित्रयोदश प्रकृतीर्मुक्त्वा शेषायाश्चतुर्नवतेः सासादनस्थेऽनाहारके बन्धः । तथाऽनन्तानुबन्ध्यादिचतुर्विंशतिपकृतीश्चतुर्नवतेमध्याद् मुक्त्वा शेषायाः सप्ततेर्जिननामसुरद्विकवैक्रियद्विकयुक्तायाः पञ्चसप्ततेरविरतेऽनाहारके बन्धः । तथा सयोगिनि केवलिसमुद्धाते तृतीयचतुर्थपञ्चमसमयेष्वनाहारक एकस्याः सातप्रकृतेर्बन्धः ॥ २३ ॥
अथ प्राग् यदुक्तं लेश्याद्वारे-“साणाइसु सबहिं ओहो" ति (गा० २१) “सासादनादिषु गुणस्थानेषु सर्वत्र लेश्याषट्के ओघो द्रष्टव्यः" इति, तत्र न ज्ञायत आदिशब्दात् कस्यां लेश्यायां कियन्ति गुणस्थानानि गृह्यन्ते ? इत्यतो लेश्यासु गुणस्थानकान्युपदर्शयन् प्रकरणसमर्थनां प्रकरणज्ञानोपायं चाह
तिसु दुसु सुक्काइ गुणा, चउ सग तेर त्ति बंधसामित्तं ।
देविंदसूरिलिहियं, नेयं कम्मत्थयं सोउं ॥ २४ ॥ व्याख्या-तिसूषु' आद्यासु कृष्णनीलकापोतलेश्यासु "चउ" इत्यादिना यथाक्रम सम्बन्धात् 'चत्वारि' मिथ्यात्वसासादनमिश्राविरतरूपाण्याद्यानि गुणस्थानानि प्राप्यन्ते, एतद्गुणस्थानचतुष्के परिणामविशेषतः षण्णामपि लेश्यानां भावात् । 'द्वयोः' तेजःपद्मलेश्ययोमिथ्यात्वादीनि सप्त गुणस्थानानि, तयोरप्रमत्तगुणस्थानकान्तमपि यावद्भावात् । शुक्ललेश्यायां त्रयोदश मिथ्यात्वादीनि गुणस्थानानि, तस्या मिथ्यादृष्टिगुणस्थानात् प्रभृति यावत् सयोगिकेवलिगुणस्थानक तावदपि भावात् । अयोगी त्वलेश्यः । इह च लेश्यानां प्रत्येकमसङ्ख्येयानि लोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि, ततो मन्दाध्यवसायस्थानापेक्षया शुक्ललेश्यादीनामपि मिथ्यादृष्ट्यादौ सम्भवो न विरुध्यते । तथा कृष्णादिलेश्यात्रयं यदिहाविरतगुणस्थानकान्तमुक्तं तद् बृहद्धन्धस्वामित्वानुसारेण, षडशीतिके तु तस्य प्रमत्तगुणस्थानकान्तं यावदभिहितत्वात् । तथाहि
लेसा तिन्नि पमत्तं, तेऊपम्हा उ अप्पमतंता । सुक्का जाव सजोगी, निरुद्धलेसो अजोगि त्ति ॥
(जिनवल्लभीयषडशीति गा० ७३) तत्त्वं तु श्रुतधरा विदन्ति इति । प्रतिपादितं गत्यादिषु बन्धखामित्वम् , तत्प्रतिपादनाचं समर्थितं बन्धवामित्वप्रकरणम् । इतिशब्दः परिसमाप्तौ । बन्धस्वामित्वमेतत् 'ज्ञेयं' बोद्धव्यं, कर्मस्तवं श्रुत्वा, अत्र बहुषु स्थानेषु तदुक्तबन्धातिदेशद्वारेण भणनात् ॥ २४ ॥
एतद्रन्थस्य टीकाभूत् , परं कापि न साऽऽप्यते । स्थानस्याऽशून्यताहेतोरतोऽलेख्यवचूर्णिका ॥ ॥ इति बन्धवामित्वावचूरिः समाप्ता॥
ग्रन्थानम् ४२६ अक्षराणि २८ १ लेश्यास्तिस्रः प्रमत्तं [यावत् ] तेजःपद्म तु अप्रमत्तान्तम् । शुक्ला यावत् सयोगिनं निरुद्धलेश्योऽयोगीति ॥
For Private and Personal Use Only