________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०० देवेन्द्रसूरिविरचितः सावचूरिकः
[गाथा ३९ दुर्भगत्रिकं-दुर्भगदुःखराऽनादेयरूपं ४२ स्त्यानद्धित्रिकं-निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिलक्षणम् ४५ उद्योतनाम ४६ तिर्यद्विकं-तिर्यग्गतितिर्यगानुपूर्वीरूपम् ४८ तिर्यगायुः ४९ नरायुः ५० नरद्विकं-नरगतिनरानुपूर्वीलक्षणम् ५२ औदारिकद्विकम्-औदारिकशरीरमौदारिकाङ्गोपाङ्गनाम च ५४ वज्रऋषभनाराचसंहननम् १५ इति पञ्चपञ्चाशत्पकृतिसङ्ग्रहः ॥३॥ __ अथैतस्य प्रकृतिसङ्ग्रहस्य यथास्थानमुपयोगं दर्शयन् मार्गणास्थानानां प्रथमं गतिमार्गणास्थानमाश्रित्य बन्धः प्रतिपाद्यते
सुरइगुणवीसवज, इगसउ ओहेण बंधहिं निरया।
तित्थ विणा मिच्छि सयं, सासणि नपुचउ विणा छनुई ॥४॥ व्याख्या-"जिण सुरविउवाहार" (गा० २) इत्यादिगाथोक्ताः क्रमेण सुरद्विकायेकोनविंशतिप्रकृतीर्वजयित्वा शेषमेकोत्तरशतमोघेन नारका बध्नन्ति । अयमत्राभिप्रायः-- एता एकोनविंशतिकर्मप्रकृतीर्बन्धाधिकृतकर्मप्रकृतिविंशत्युत्तरशतमध्याद् मुक्त्वा शेषस्यैकोत्तरशतस्य नरकगतौ नानाजीवापेक्षया सामान्यतो बन्धः, सुरद्विकायेकोनविंशतिप्रकृतीनां तु भवप्रत्ययादेव नारकाणामबन्धकत्वात् । सामान्येन नरकगतो बन्धमभिधाय सम्प्रति तस्यामेव मिथ्यादृष्ट्यादिगुणस्थानचतुष्टय विशिष्टं तं दर्शयति-"तित्थ विणा" इत्यादि । प्रागुक्तमेकोत्तरशतं तीर्थकरनाम विना मिथ्यादृष्टिगुणस्थानके शतं भवति । एतच्च शतं नपुंसकवेदमिथ्यात्वहुण्डसंस्थानसेवार्तसंहननप्रकृतिचतुष्कं विना सासादनगुणस्थानके षण्णवति रकाणां बन्धे ॥४॥
विणु अणछवीस मीसे, बिसयरि सम्मम्मि जिणनराउजुया ।
इय रयणाइसु भंगो, पंकाइसु तित्थयरहीणो ॥५॥ व्याख्या-प्रागुक्ता षण्णवतिरनन्तानुबन्ध्यादिपड्विंशतिप्रकृतीविना मिश्रगुणस्थाने सप्ततिः। सैव जिननामनरायुष्कयुता सम्यग्दृष्टिगुणस्थानके द्विसप्ततिः । 'इति' एवं बन्धमाश्रित्य भङ्गः 'रत्नादिषु' रत्नप्रभाशर्कराप्रभावालुकाप्रभाभिधानप्रथमनरकपृथिवीत्रये द्रष्टव्यः । पङ्कप्रभादिषु पुनरेष एव भङ्गस्तीर्थकरनामहीनो विज्ञेयः । अयमर्थः-पङ्कप्रभाधूमप्रभातमःप्रभासु सम्यक्त्वसद्भावेऽपि क्षेत्रमाहात्म्येन तथाविधाध्यवसायाभावात् तीर्थकरनामबन्धो नारकाणां नास्तीति; ततस्तत्र सामान्येन शतम् , मिथ्यादृशां च शतम् , सासादनानां षण्णवतिः, मिश्राणां सप्ततिः, अविरतसम्यग्दृष्टीनामेकसप्ततिः । इह सामान्यपदेऽविरतसम्यग्दृष्टिगुणस्थाने च रत्नप्रभादिमगस्तीर्थकरनाम्ना हीन उक्तः । मिथ्यादृष्ट्यादिषु त्रिषु गुणस्थानेषु पुनस्तस्य प्रागेवाऽपनीतत्वात् तदवस्थ एव ॥ ५॥
अजिणमणुआउ ओहे, सत्तमिए नरदुगुच्च विणु मिच्छे । - इगनवई सासाणे, तिरिआउ नपुंसचउवजं ॥६॥ व्याख्या-रत्नप्रभादिनरकत्रयसामान्यबन्धाधिकृतकोतरशतमध्याजिननाममनुजायुषी मुक्त्वा शेषा नवनवतिरोघबन्धे सप्तमपृथिव्यां नारकाणां भवति । सैव नवनवतिर्नरगतिनरानुपूर्वीरूपनरद्विकोचैर्गोत्रैविना षण्णवतिमिथ्यादृष्टिगुणस्थाने भवति । सैव षण्णवति स्तिर्यगायुर्नपुंसकवेदमिथ्यात्वहुण्डसंस्थानसेवार्तसंहननवर्जिता एकनवतिः सासादने सप्तम्यां नारकाणाम् ॥ ६ ॥
For Private and Personal Use Only