________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१-३]
बन्धखामित्वाख्यस्तृतीयः कर्मग्रन्थः । मिश्रकाययोगः १३ औदारिकमिश्रकाययोगः १४ कार्मणकाययोगः १५ इति ४ । वेदस्त्रिधास्त्रीवेदः पुरुषवेदो नपुंसकवेदश्च ५ । कषायाः क्रोधमानमायालोभाः ६ । ज्ञानं पञ्चधामतिज्ञानं श्रुतज्ञानम् अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानं च, ज्ञानग्रहणेन चाऽज्ञानमपि तत्प्रतिपक्षभूतमुपलक्ष्यते, तच्च त्रिविधम्-मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानं चेति ज्ञानमार्गणास्थानमष्टधा ७ । 'संयमः' चारित्रं तच्च पञ्चधा-सामायिकं छेदोपस्थापनं परिहारविशुद्धिकं सूक्ष्मसम्परायं यथाख्यातं च, संयमग्रहणेन च तत्प्रतिपक्षभूतो देशसंयमोऽसंयमश्च सूच्यत इति संयमः सप्तधा ८ । दर्शनं चतुर्विधम्-~-चक्षुर्दर्शनम् अचक्षुर्दर्शनम् अवधिदर्शनं केवलदर्शनं च ९ । लेश्या षोढा-कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या च १० । भव्यः-तथारूपानादिपारिणामिकभावात् सिद्धिगमनयोग्यः, भव्यग्रहणेन च तत्प्रतिपक्षभूतोऽभव्योऽपि गृह्यते ११ । सम्यक्त्वं त्रिधा–क्षायोपशमिकम् औपशमिकं क्षायिकं च, सम्यक्त्वग्रहणेन च तत्प्रतिपक्षभूतं मिथ्यात्वं सासादनं मिश्रं च परिगृह्यते १२ । संज्ञी-विशिष्टस्मरणादिरूपमनोविज्ञानसहितेन्द्रियपञ्चकसमन्वितः, तत्प्रतिपक्षभूतः सर्वोऽप्येकेन्द्रियादिरसंज्ञी सोऽपि संज्ञिग्रहणेन सूचितो द्रष्टव्यः १३ । आहारयति ओजोलोमप्रक्षेपाहाराणामन्यतममाहारमित्याहारकः, तत्प्रतिपक्षभूतोऽनाहारकः १४ । ननु ज्ञानादिषु किमर्थमज्ञानादिप्रतिपक्षग्रहणं कृतम् , उच्यते-चतुर्दशखपि मार्गणास्थानेषु प्रत्येकं सर्वसांसारिकसत्त्वसनहार्थमिति ।
उक्तरूपेषु गत्यादिषु बन्धखामित्वं वक्ष्ये । तत्र बन्धं च प्रतीत्य विंशत्युत्तरं प्रकृतिशतमघिक्रियते । तथाहि-ज्ञानावरणे उत्तरप्रकृतयः पञ्च, दर्शनावरणे नव, वेदनीये द्वे, मोहे सम्यक्त्वमिश्रवर्जा षड्विंशातेः, आयुषि चतस्रः, नाम्नि भेदान्तरसम्भवेऽपि सप्तषष्टिः, गोत्रे द्वे, अन्तराये पञ्च, सर्वमीलने विंशत्युत्तरं शतमिति एतच्च प्राक् सविस्तरं कर्मविपाके भावितमेव ॥ १ ॥ सम्प्रति विंशत्युत्तरशतमध्यगतानामेव वक्ष्यमाणार्थोपयोगित्वेन प्रथम कियतीनामपि प्रकृतीनां सङ्ग्रहं पृथक्करोति
जिण सुरविउवाहारदु, देवाउ य नरयसुहमविगलतिगं । एगिदि थावराऽऽयव, नपु मिच्छं हुंड छेवढं ॥२॥ अण मज्झागिइ संघयण, कुखग निय इत्थि दुहगथीणतिगं।
उज्जोय तिरिदुर्ग तिरिनराउ नरउरलदुग रिसहं ॥ ३ ॥ व्याख्या-जिननाम १ सुरद्विकं-सुरगतिसुरानुपूर्वी रूपं ३ वैक्रियद्विकं-वैक्रियशरीरवैक्रियाङ्गोपाङ्गलक्षणम् ५ आहारकद्विकम्-आहारकशरीरं तदङ्गोपाङ्गं च ७ देवायुष्कं च ८ नरकत्रिकं-नरकगतिनरकानुपूर्वीनरकायुष्करूपं ११ सूक्ष्मत्रिकं-सूक्ष्माऽपर्याप्तसाधारणलक्षणं १४ विकलत्रिकं-द्वित्रिचतुरिन्द्रियजातयः १७ एकेन्द्रियजातिः १८ स्थावरनाम १९ आतपनाम २० नपुंसकवेदः २१ मिथ्यात्वं २२ हुण्डसंस्थानं २३ सेवार्तसंहननम् २४ ॥२॥ ___“अण" ति अनन्तानुबन्धिक्रोधमानमायालोमाः २८ 'मध्याकृतयः' मध्यमसंस्थानानिन्यग्रोधपरिमण्डलं सादि वामनं कुब्जं चेति ३२ मध्यमसंहननानि-ऋषभनाराचं नाराचम् अर्धनाराचं कीलिका चेति ३६ “कुखग" त्ति अशुभविहायोगतिः ३७ नीचैर्गोत्रं ३८ स्त्रीवेदः
For Private and Personal Use Only