________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४–९]
बन्धवामित्वाख्यस्तृतीयः कर्मग्रन्थः ।
१०१
-
अणचउवीसविरहिया, सनरदुगुच्चा य सयरि मीसदुगे । सतरसउ ओहि मिच्छे, पजतिरिया विणु जिणाहारं ॥ ७ ॥ व्याख्या — प्रागुक्ता एकनवतिरनन्तानुबन्ध्यादिचतुर्विंशति प्रकृतिभिर्विरहिता नरद्विकोगोत्राभ्यां च सहिता सप्ततिर्भवति, सा च "मीसदुगे" त्ति मिश्राऽविरतगुणस्थानद्वये द्रष्टव्या । इह् सप्तम्यां नरायुस्तावद् न बध्यत एव तद्बन्धाभावेऽपि च मिश्रगुणस्थानकेऽविरतगुणस्थानके च नरद्विकं बध्यते । अयमर्थः - नरद्विकस्य नरायुषा सह नावश्यं प्रतिबन्धो यदुत यत्रैवायुर्बध्यते तत्रैव गत्यानुपूर्वीद्वयमपि तस्याऽन्यदाऽपि बन्धात्; मिथ्यात्वसासादनयोस्तु कलुषाध्यवसायत्वेन नरद्विकं न बध्यते । एवं नरकगतौ बन्धस्वामित्वं प्रतिपाद्य. अथ तिर्यग्गतौ तदाह - " सतरस उ" इत्यादि । विंशत्युत्तरशतं जिननामाऽऽहारकद्विकं च विना शेषं सप्तदशोत्तरशतमोघे मिथ्यादृष्टिगुणस्थाने च पर्याप्तास्तिर्यञ्चो बघ्नन्ति । अत्रौघे तिरश्चां सत्यपि सम्यक्त्वे भवप्रत्ययादेव तथाविधाध्यवसायाभावात् तीर्थकरनाम्नः सम्पूर्णसंयमाभावाद् आहारकद्विकस्य च बन्धो नास्तीति हृदयम् ॥ ७ ॥
विणु नरयसोल सासणि, सुराउ अण एगतीस विणु मीसे । ससुराउ सयरि सम्मे, बीयकसाए विणा देसे ॥ ८ ॥
व्याख्या - प्रागुक्तं सप्तदशोत्तरशतं नरकत्रिकादिषोडशप्रकृतीर्विना एकोत्तरशतं सासादने पर्याप्ततिरश्चाम् । एतदेवैकोत्तरशतं सुरायुरनन्तानुबन्ध्याद्ये कत्रिंशत्प्रकृतीश्च विना एकोनसततिः, सा मिश्रगुणस्थाने बध्यते । अयं भावार्थ: " सम्मामिच्छद्दिट्ठी आऊबंधं पिन करेइ ।" इति वचनाद् अत्र सुरनरायुषोरबन्धः, अनन्तानुबन्ध्यादयश्च पञ्चविंशतिप्रकृतयः सासादन एव व्यवच्छिन्नबन्धाः, तथा मनुष्यास्तिर्यञ्चश्च मिश्रगुणस्थानकस्था अविरतसम्यग् - ष्टिवद् देवामेव बध्नन्ति तेन नरद्विकौदारिकद्विकवज्रऋषभनाराचानामपि बन्धाभावः । एषैव एकोनसप्ततिः सुरायुषा सहिता सप्ततिः 'सम्यक्त्वे' अविरतगुणस्थानके भवति । सप्ततिः ‘द्वितीयकषायैः’ अप्रत्याख्यानक्रोधमानमायालो भैर्विना षट्षष्टिर्देश विरतगुणस्थाने बध्यते ॥८॥ अथ तिर्यग्गतिबन्धाधिकार एव ग्रन्थलाघवार्थं मनुष्यगतावपि बन्धं दर्शयति
Acharya Shri Kailassagarsuri Gyanmandir
इय चउगुणेवि नरा, परमजया सजिण ओहु देसाई । जिणइक्कार सहीणं, नवसउ अपजत्ततिरियनरा ॥ ९ ॥ व्याख्या—यथा पर्याप्ततिरश्चां मिथ्यादृष्ट्यादिषु चतुर्षु गुणस्थानेषु सप्तदशोत्तरशतादिको बन्ध उक्तः 'इति' एवं पर्याप्तनरा अपि चतुर्षु - मिथ्यादृष्टिसासादनमिश्रा विरतिगुणस्थानेषु सप्तदशोतरशतादिबन्धखामिनो मन्तव्याः । 'परम्' अयताः अविरतसम्यग्दृष्टयः पर्याप्तनराः “सजिण "त्ति अविरतसम्यग्दृष्टिपर्याप्ततिर्यग्बन्धयोग्य सप्तति र्जिननामसहिता एकसप्ततिस्तां बध्नन्ति, जिननामकर्मणोऽपि बन्धकत्वात् तेषाम् । “ओहु देसाइ” त्ति देश विरता दिगुणस्थानकेषु गुणस्थानका - नाश्रयणे च पर्याप्तनराणां पुनः 'ओघः' सामान्यो बन्धोऽवसेयः । स च कर्मस्तवोक्त एव । यतः कर्मस्तवग्रन्थे सामान्यतो गुणस्थानकेषु बन्धः प्रतिपादितो न पुनः किञ्चन गत्यादिमा१ सम्यग्मिथ्यादृष्टिरायुर्बन्धमपि न करोति ॥
For Private and Personal Use Only