________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा तृतीयादिषु भागेषु चतुर्दश च त्रयोदश च द्वादश च षट् च पञ्च च चत्वारि च त्रीणि चेति द्वन्द्वः, तैरधिकं शतम् , “तिहिय सय" इत्यत्राकारलोपो विभक्तिलोपश्च प्राकृतत्वात् , 'क्रमशः' क्रमेण सत्तायां भवति । कथम् ? इत्याह-"नपुइत्थि" इत्यादि । नपुं च-नपुंसकवेदः स्त्री च-स्त्रीवेदः हास्यषट्कं च-हास्यरत्यरतिशोकभयजुगुप्साख्यं पुमांश्च-पुंवेदः नपुंस्त्रीहास्यषट्कपुमांसः, क्रोधश्च-कोपः मदश्च-मदो मानोऽहङ्कार इति पर्यायाः माया चनिकृतिः क्रोधमदमायाः, तुर्याः-चतुर्थाः संज्वलनाः क्रोधमदमायास्तुर्यक्रोधमदमायाः, नपुं. स्त्रीहास्यषट्कपुमांसश्च तुर्यक्रोधमदमायाश्च नपुंस्त्रीहास्यषट्क'तुर्यक्रोधमदमायाः, तासां क्षयो नपुंस्त्रीहास्यषट्क'तुर्यक्रोधमदमायाक्षयः । 'मायखओ' इत्यत्र हखत्वं “दीर्घहखौ मिथो वृत्तौ" (सि० ८-१-४) इत्यनेन प्राकृतसूत्रेण । इति गाथाक्षरार्थः । भावार्थस्त्वयम्-अनिवृत्तिबादरस्य तृतीये भागे द्वितीयतृतीयकषायाष्टकक्षये चतुर्दशाधिकं शतम् , चतुर्थभागे नपुंसकवेदक्षये त्रयोदशाधिकं शतम् , पञ्चमे भागे स्त्रीवेदक्षये द्वादशाधिकं शतम् , षष्ठे भागे हास्यषट्कक्षये षडधिकं शतम् , सप्तमे भागे पुंवेदक्षये पञ्चाधिकं शतम् , अष्टमे भागे संज्वलनकोधक्षये चतुरधिकं शतम् , नवमे भागे संज्वलनमानक्षये व्यधिकं शतम् , संज्वलनमायाक्षये तु ध्यधिकं शतं सत्तायां भवति । तच्च सूक्ष्मसम्पराये ॥ २९ ॥ तथा चाह
सुहुमि दुसय लोहंतो, खीणदुचरिमेगसय दुनिदखओ।
नवनवइ चरमसमए, चउदंसणनाणविग्धंतो ॥ ३०॥ "सुहुमि" ति सूक्ष्मसम्पराये 'द्विशतं' द्वाभ्यामधिकं शतं सत्तायां भवति । तत्र च 'लोभान्तः' संज्वलनलोभस्य क्षयः । ततः "खीणदुचरिमेगसउ" ति क्षीणमोहद्विचरमसमये 'एकशतम्' एकाधिकं शतं सत्तायाम् । तत्र च "दुनिद्दखउ" ति निद्राप्रचलयोर्द्वयोः क्षयो भवति, ततो नवनवतिश्चरमसमये क्षीणमोहगुणस्थानस्येति शेषः । तत्र चत्वारि च तानि दर्शनानि च चतुर्दर्शनानि-चक्षुरचक्षुरवधिकेवलदर्शनावरणाख्यानि, ज्ञानानि ज्ञानावरणानिमतिश्रुतावधिमनःपर्यायकेवलज्ञानावरणलक्षणानि पञ्च, विघ्नानि-दानलाभभोगोपभोगवीर्यवि. मरूपाणि पञ्च, तेषामन्तो भवति ॥ ३० ॥ ततः
पणसीइ सजोगि अजोगि दुचरिमे देवखगइगंधदुगं।
फासह वन्नरसतणुबंधणसंघायपण निमिणं ॥ ३१॥ पञ्चाशीतिः सयोगिकेवलिनि सत्तायां भवति । ततः "अजोगि दुचरिमे" ति अयोगि केवलिनि द्विचरमसमये इत्येतासां द्विसप्ततिप्रकृतीनां क्षयो भवति । ता एवाह--"देवखगइ. गंधदुर्ग" ति । द्विकशब्दस्य प्रत्येकं योगाद् देवद्विकं-देवगतिदेवानुपूर्वी रूपम् , खगतिद्विकंशुभविहायोगत्यशुभविहायोगतिरूपम् , गन्धद्विकं-सुरभिगन्धाऽसुरभिगन्धाख्यम् , “फास?" त्ति स्पर्शाष्टकं-गुरुलघुमृदुखरशीतोष्ण स्निग्धरूक्षाख्यम् , “वनरसतणुबंधणसंघायपण" ति पञ्चकशब्दस्य प्रत्येकं सम्बन्धाद्वर्णपञ्चकं-कृष्णनीललोहितहारिद्रशुक्लाख्यम् , रसपञ्चकं-तिक्तकटुकषायाम्लमधुररूपम् , तनुपञ्चकम्-औदारिकवैक्रियाहारकतैजसकार्मणतनुलक्षणम् , एवं तनुनाम्ना बन्धनपञ्चकं सङ्घातनपञ्चकं च वाच्यम् , “निमिण" ति निर्माणमिति ॥ ३१ ॥
For Private and Personal Use Only