________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६-२९] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः । दनवातेः । उक्तं च
सुरनरयतिरियआउं, निययभवे सबजीवाणं । (बृ० क० स्त० गा० ६) इति । इयं चैतेषु गुणस्थानेषु सामान्यजीवानां सम्भवमाश्रित्य सत्ता वर्णिता, न त्वधिकृतस्तवस्तुत्यस्य चरमजिनपरिवृढस्य, अस्याः सुरनारकतिर्यगायुःसम्भवापेक्षणीयत्वाद्, जिनस्य च तदसम्भवात् , तस्यापि च प्राग्भवापेक्षया सम्भवो वाच्यः । इदमेव पञ्चचत्वारिंशं शतं सप्तकमनन्तानुबन्धिमिथ्यात्वमिश्रसम्यक्त्वाख्यं विनाऽष्टात्रिंशं शतं भवति । कियन्ति गुणस्थानानि यावद् ? इत्याह--"जा अनियट्टी पढमभागु" त्ति, इहानिवृत्तिबादराद्धाया नव भागाः क्रियन्ते, ततोऽविरते देशविरते प्रमत्तेऽप्रमत्ते निवृत्तिबादरेऽनिवृत्तिबादरस्य च प्रथमो भागस्तावदष्टात्रिंशं शतं भवति । उक्तं च
संते अडयालसयं, खवगं तु पडुच्च होइ पणयालं । आउतिगं नत्थि तर्हि, सत्तगखीणम्मि अडतीसं ॥
(बृ० क० स्त० भा० गा० २९) पैणयालं अडतीसं, अविरयसम्माउ अप्पमत्तु त्ति । अप्पुवे अडतीसं, नवरं खवगम्मि बोधवं ।।
इति ॥ २७ ॥ अथ क्षपकश्रेणिमधिकृत्याऽनिवृत्तिबादरादिषु प्रकृतिषु सत्ता वर्ण्यते उपशमश्रेणिसत्तायास्त्विह नाधिकार इति–
थावरतिरिनिरयायवदुग थीणतिगेग विगल साहारं ।
सोलखओ दुवीससयं, बियंसि बियतियकसायंतो ॥ २८॥ इहानिवृत्तिबादरस्य प्रथमे भागेऽष्टत्रिंशं शतं सत्तायां भवति । तत्र च "थावरतिरिनिरयायवदुग" त्ति द्विकशब्दस्य प्रत्येकं योगात् स्थावरद्विकं-स्थावरसूक्ष्मलक्षणम् , तिर्यद्विकं-तिर्यगतितिर्यगानुपूर्वीरूपम् , नरकद्विकं-नरकगतिनरकानुपूर्वीलक्षणम् , आतपद्विकम्-आतपोद्योताख्यम् , "थीणतिग" ति स्त्यानचित्रिकं-निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिलक्षणम् , "इग" त्ति एकेन्द्रियजातिः, “विगल" ति विकलेन्द्रियजीतयः-द्वीन्द्रियजातित्रीन्द्रियजातिचतुरिन्द्रियजातिलक्षणाः, "साहारं" ति साधारणनाम' इत्येतासां षोडशानां प्रकृतीनां क्षयः सत्तामाश्रित्य भवति । ततोऽनिवृत्तिबादरस्य 'यंशे' द्वितीयभागे द्विविंशं शतं भवति । तत्र "बियतियकसायं तु" त्ति कषायशब्दस्य प्रत्येकं योगाद् द्वितीयकषायाः-अप्रत्याख्यानावरणाश्चत्वारः, तृतीयकषायाः-प्रत्याख्यानावरणाश्चत्वार इत्येतासामष्टानां प्रकृतीनामन्त:-क्षयः । ततस्तृतीयांशे चतुर्दशशतं भवतीति ॥ २८ ॥ एतदेवाह
तइयाइसु चउदसतेरबारछपणचउतिहिय सय कमसो।
नपुइत्थिहासछगपुंसतुरियकोहमयमायखओ॥२९॥ १ सुरनरकतिर्यगायुर्निजकभवे सर्वजीवानाम् ॥ २ सत्तायामष्टचत्वारिंशं शतं क्षपकं तु प्रतीत्य भवति पञ्चचत्वारिंशम् । आयुस्त्रिकं नास्ति तत्र सप्तके क्षीणेऽष्टात्रिंशम् ॥ ३ पञ्चचत्वारिंशमष्टात्रिंशमविरतसम्यक्वादप्रमत्त इति । अपूर्वेऽष्टात्रिंशं नवरं क्षपके बोद्धव्यम् ॥ ४ जातिः-द्वी क० घ०॥ ५°णा 'सा° क० घ०॥
For Private and Personal Use Only