________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९२
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[ गाथा
तीर्थकरनाम्नोऽपि सत्ता सम्भवति; साखादनमिश्रयोस्तु तस्मिन्नेव जिननामरहिते सप्तचत्वारिंशं शतं सत्तायां, जिननामसत्कर्मणो जीवस्य तद्भावाऽनवाप्तेः, तद्बन्धारम्भस्य च शुद्धसम्यक्त्वप्रत्ययत्वात् । यदुक्तं बृहत्कर्मस्तवभाष्ये
तित्थयरेण विहीणं, सीयालसयं तु संतए होइ ।
सासायणम्मि उ गुणे, सम्मामीसे य पयडीणं ॥ ( गा० २५ )
अविरतसम्यग्दृष्ट्यादीनामक्षिप्तदर्शन सप्तकानामष्टचत्वारिंशस्यापि शतस्य सत्ता सम्भवतीति ॥२५॥ अप्पुव्वाइचउक्के, अण तिरिनिरयाउ विणु बिआलसयं । सम्माइचउसु सत्तगखयम्मि इगचत्तसयमहवा ॥ २६ ॥ गाथापर्यन्तवर्त्यथवाशब्दस्य सम्बन्धात् पूर्वं तावदष्टचत्वारिंशं शतं सत्तायामुक्तम्, अथवाऽयमपरः सत्तामाश्रित्य भेदः, तथाहि - 'अपूर्वादिचतुष्के' अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहरूपे " अण" त्ति अनन्तानुबन्धिचतुष्कं “तिरिनिरयाउ" त्ति आयु:शब्दस्य प्रत्येकं योगात् तिर्यगायुर्नरकायुश्च विना द्विचत्वारिंशं शतं भवतीति । अयमा - शयः -- यः कश्चिद् विसंयोजितानन्तानुबन्धिचतुष्को बद्धदेवायुर्मनुजायुषि वर्तमान उपशमश्रेणिमारोहति, तस्य तिर्यगायुर्नरका युरनन्तानुबन्धिचतुष्कलक्षणप्रकृतिषट्करहितं शेषं द्वित्वारिंशं शतं सत्तायां प्राप्यते । यदुक्तं बृहत्कर्मस्तव भाष्ये
अणतिरिनारयरहियं, बायालसयं वियाण संतम्मि ।
Acharya Shri Kailassagarsuri Gyanmandir
उवसामगeasyवानियट्टि सुहुमो व संतम्मि ॥ ( गा० २६ )
"सम्माइचउसु” त्ति सम्यक्त्वादिचतुर्षु -अविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तेषु " सत्तगखयम्मि” त्ति अनन्तानुबन्धिचतुष्क मिथ्यात्वमि श्रसम्यक्त्वलक्षणसप्तकक्षये सत्येकचत्वारिंशं शतमथवा सत्तायां भवति । इहाप्यथवाशब्द आवृत्त्या योज्यते । यदुक्तं वृहत्कर्मस्तव सूत्रे - अणमिच्छमीससम्मं, अविरयसम्माइ अप्पमत्तंता । ( गा० ६ ) इति ॥ २६ ॥ खवगं तु पप्प चउसु वि, पणयालं नरयतिरिमुराउ विणा । सत्तT विणु अडतीसं, जा अनियही पढमभागो ॥ २१ ॥
क्षपकं 'तुः' पुनरर्थे, क्षर्पेकं पुनः 'प्रतीत्य' आश्रित्य 'चतुर्ष्वपि' अविरत देश विरतप्रमत्ताप्रमतेषु " पणयालं" ति पञ्चचत्वारिंशं शतमथवा भवति । अथवाशब्द इहापि सम्बध्यते । कथम् ? इत्याह – “नरयतिरिसुराउ विण" ति, आयुः शब्दस्य प्रत्येकं योगात् नरकायुस्तिर्यगायुः सुरायुर्विना - अन्तरेण । इदमुक्तं भवति — यो जीवो नारकतिर्यक्सुरेषु चरमं तद्भवमनुभूय मनुष्यतयोत्पन्नस्तस्य नारकतिर्यक्सुरायूंषि खखभवे व्यवच्छिन्नसत्ताकानि जातानि पुनस्त
१ तीर्थकरेण विहीनं सप्तचत्वारिंशं शतं तु सत्तायां भवति । साखादने तु गुणे सम्यग्मिश्रे च प्रकृतीनाम् ॥ २ अनतिर्यनारकरहितं द्वाचत्वारिंशं शतं विजानीहि सत्तायाम् । उपशामकस्य अपूर्वस्यानिवृत्तेः सूक्ष्मस्य (अपूर्वस्येत्यादौ विभक्तिव्यत्ययात्षष्ठी) वा सत्तायाम् ( अनेत्यनेनानन्तानुबन्धिचतुष्कं गृह्यते ) ॥ ३ अनमिथ्यामिश्रसम्यक् अविरतसम्यक्त्वाद्यप्रमत्तान्तम् ॥ ( अत्राप्यनेत्यनेनानन्तानुबन्धिचतुष्कं । ) ४ °पकजिनं पु० ख० ग० ॥
For Private and Personal Use Only