SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९५ ३०-३४] कर्मविपाकनामा द्वितीयः कर्मग्रन्थः । संघयणअथिरसंठाणछक्क अगुरुलहुचउ अपजत्तं । सायं व असायं वा, परितुवंगतिग सुसर नियं ॥ ३२॥ . षट्कशब्दस्य प्रत्येकं योगात् संहननषट्कं-वज्रऋषभनाराचऋषभनाराचनाराचाऽर्धनाराचकीलिकासेवार्तसंहननाख्यम् , अस्थिरषट्कम्-अस्थिराऽशुभदुर्भगदुःखराऽनादेयाऽयशःकीर्तिरूपम् , संस्थानषट्कं-समचतुरस्रन्यग्रोधपरिमण्डलसादिवामनकुब्जहुण्डसंस्थानाख्यम् , अगुरुलघुचतुष्कम्-अगुरुलघूपघातपराघातोच्छ्रासाख्यम् , अपर्याप्तम् , सातं वाऽसातं वा एकतरवेदनीयं, यदनुदयावस्थम् , “परितुवंगतिग" ति त्रिकशब्दस्य प्रत्येकं सम्बन्धात् प्रत्येकत्रिकं-प्रत्येकस्थिरशुभाख्यम् , उपाङ्गत्रिकम्-औदारिकवैक्रियाऽऽहारकाङ्गोपाङ्गरूपम् , सुखरम् , “नियं" ति नीचेर्गोत्रमिति ॥ ३२ ॥ बिसयरिखओ य चरिमे, तेरस मणुयतसतिग जसाइज्जं । सुभगजिणुच्च पणिंदिय सायासाएगयरछेओ ॥ ३३ ॥ इत्येतासां द्विसप्ततिप्रकृतीनामयोगिकेवलिद्विचरमसमये सत्तामाश्रित्य क्षयो भवति । ततः पूर्वोक्तपञ्चाशीतेरिमा द्विसप्ततिप्रकृतयोऽपनीयन्ते शेषास्त्रयोदश प्रकृतयोऽयोगिचरमसमये क्षीयन्ते । तथा चाह-"बिसयरिखओ" ति स्पष्टम् । 'चः' पुनरर्थे व्यवहितसम्बन्धश्च । चरमसमये पुनः अयोगिकेवलिनस्त्रयोदशप्रकृतीनां क्षयो भवति । "मणुयतसतिग" ति त्रिकशब्दस्य प्रत्येकं योगाद् मनुजत्रिकं-मनुजगतिमनुजानुपूर्वीमनुजायुर्लक्षणम् , त्रसत्रिकं-त्रसबादरपर्याप्ताख्यम् , “जसाइजं" ति यशःकीर्तिनाम आदेयनाम सुभगम् "जिणुच्च" त्ति जिननाम उच्चैोत्रम् । “पणिदिय" ति पञ्चेन्द्रियजातिः सातासातयोरेकतरं तस्य च्छेदः-सत्तामाश्रित्य क्षय इति ॥ ३३ ॥ अत्रैव मतान्तरमाह नरअणुपुव्वि विणा घा, बारस चरिमसमयम्मि जो खविउं । पत्तो सिद्धिं देविंदवंदियं नमह तं वीरं ॥ ३४॥ 'नरानुपूर्वी विना' मनुष्यानुपूर्वीमन्तरेण वाशब्दो मतान्तरसूचको द्वादश प्रकृतीरयोगिकेवलिचरमसमये यः क्षपयित्वा सिद्धि प्राप्तस्तं वीरं नमतेति सण्टङ्कः । अयमत्राभिप्रायःमनुजानुपूर्व्या अयोगिद्विचरमसमये सत्ताव्यवच्छेदः, उदयाभावात् , उदयवतीनां हि द्वादशानां स्तिबुकसङ्कमाभावात् खानुभावेन दलिकं चरमसयेऽपि दृश्यत इति युक्तस्तासां चरमसमये क्षयः; आनुपूर्वीनाम्नां तु चतुर्णामपि क्षेत्रविपाकित्वाद् भवान्तरालगतावेवोदयस्तेन भवस्थस्य नास्ति तदुदयः, तदुदयाभावाच्चायोगिद्विचरमसमये मनुजानुपूर्व्या अपि सत्ताव्यवच्छेदः, तन्मतेऽयोगिकेवलिनो द्विचरमसमये त्रिसप्ततिप्रकृतीनां चरमसमये [च] द्वादशानां क्षय इति । ततो यो भगवान् मातापित्रोर्दिवङ्गतयोः सम्पूर्णनिजप्रतिज्ञो भक्तिसम्भारभ्राजिष्णुरोचिष्णुलोकान्तिकत्रिदशसद्मजन्मभिः पुष्पमाणवकैरिव “सबैजगज्जीवहियं भयवं तित्थं पवत्तेहि" (आव० नि० गा० २१५) इत्यादिवचोभिर्निवेदिते निष्क्रमणसमये संवत्सरं यावत् निरन्तरं स्थूरचा. मीकरधारासारैः प्रावृषेण्यधाराधर इवामुद्रदारिद्यसन्तापप्रसरमवनीमण्डलस्योपशमय्य परस्पर.१ सर्वजगज्जीवहितं भगवन् तीर्थ प्रवर्तय ॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy